विष्णुपुराणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
विष्णुपुराणम्  
लेखक वेदव्यास
देश भारत
भाषा संस्कृत
शृंखला पुराण
विषय विष्णुः
प्रकार वैष्णव ग्रन्थः
पृष्ठ २३,००० श्लोकाः
परमात्मा विष्णुः, भारतम्

अष्टादशसु पुराणेषु अन्यतमं वर्तते विष्णुपुराणम् (VishnuPurana) । इदं किञ्चन प्राचीनं पुराणम् । पुराणस्य पञ्च अपि पुराणलक्षणानि अत्र दृश्यन्ते ।'पुराणरत्नं' इत्येव प्रसिद्धे २३००० श्लोकात्मके अस्मिन् पुराणे क्षीरसागरमथनकथा, ध्रुव-प्रह्लादकथा, जडभरतस्य कथा च अत्र विद्यन्ते । मनु-मन्वन्तराणां निरूपणं, वर्णाश्रमधर्माणां, संस्काराणां, श्राद्धकल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र ऊर्वशी, ययातिः, रामः इत्यादीनां चरित्रं, कौरवपाण्डवानां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । कृष्णकथा विवृता अस्ति । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति ।अतः विष्णोः माहात्म्यनिरूपणे निबद्धमिदं पुराणं विष्णोः चरित्रवर्णने गमयति।किन्तु विष्णौ भक्त्युत्कृष्टिस्तु भागवतपुराणेनैव।अतः विष्णुपुराणं दृष्ट्वा भागवतपुराणं यदि दृश्यते तदा भागवतं विष्णुपुराणस्य व्याख्यानमिव दृश्यते।

भाषाशैली[सम्पादयतु]

अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमाणानि गद्यवाक्यानि रमणीयानि सन्ति । आर्षप्रयोगाः अत्यल्पाः इत्येतत् अस्य पुराणस्य अपरं वैशिष्ट्यम् । ध्रुवचरित्रं, प्रह्लादचरित्रं च उत्तमकाव्यम् इव रमणीयतां भजते । अत्र सर्वाणि धार्मिकप्रक्रियविशेषाः नातिविस्तृततया निरूपितमस्ति। किन्तु श्राद्धप्रक्रियायाः विस्तृतनिरूपणेन तस्य आवश्यकता ज्ञायते। श्रीकृष्णचरित्रम् अपि मनोरमं विद्यते ।

विषयविभागः[सम्पादयतु]

पराशरमुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लोकाः विद्यन्ते ।

प्रथामांशः[सम्पादयतु]

अस्मिन् जगतः उत्पत्तिः, प्रजापतयः, देवताः, पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, विष्णोः महिमा च विवृता अस्ति ।

द्वितीयांशः[सम्पादयतु]

भूगोलस्य विवरणं, नवखण्डानां विभागः, अधोलोक-ऊर्ध्वलोकयोः विवरणं, ज्योतिश्चक्रस्य नवग्रहाणां च वर्णनं, जडभरत-ऋभु-निदाघानाम् आख्यानं च अत्र विद्यते ।

तृतीयांशः[सम्पादयतु]

मनुपुत्राणां वर्णनं, चतुर्युगानुसारं विभिन्नव्यासाः, चतुर्वेदानां विभागः, चातुर्वर्ण्यधर्मः, ब्रह्मचर्य-गार्हस्त्यश्रमयोः आचाराः, विस्तृतश्राद्धविधिः च अत्र प्रदत्ता वर्तते ।

चतुर्थांशः[सम्पादयतु]

वैवस्वत-इक्ष्वाकुवंशयोः विवरणं, श्रीरामस्य संक्षिप्तकथा, सोमवंश-यदुवंश-कुरुवंशयोः कथा, भावीराजानां विवरणं (भविष्यत्काले ये शासनं कुर्युः तेषां), मगधवंशविवरणं, कलियुगस्य राज्ञां, कलिधर्मस्य च विवरणम् अत्र उपलभ्यते ।

पञ्चमांशः[सम्पादयतु]

श्रीकृष्णस्य विस्तृतचरित्रं, यादवानाम् अन्त्यं, परीक्षितराजस्य पट्टाभिषेकः, पाण्डवानां स्वर्गारोहणं च अत्र विवृतम् अस्ति ।

चतुर्भुजः विष्णुः, पाण्ड्यवंशः,८-९ शतमानम्

षष्ठांशः[सम्पादयतु]

कलिधर्मः, शूद्राणां स्त्रीणां च महत्त्वं, कालविचारः, नैमित्तिकप्रलयः, प्राकृतप्रलयः, भगवतः पारमार्थिकस्वरूपं, ब्रह्मयोगः, शिष्यपरम्परा च अत्र प्रस्तुता अस्ति । अन्ते उपसंहारः कृतः अस्ति ।

व्याख्यानानि[सम्पादयतु]

अस्य पुराणस्य कृते श्रीधरस्वामिनः ‘आत्मप्रकाश’नामकं व्याख्यानं रचितवान् अस्ति । ‘विष्णुचित्तीय’नामकम् अपरं व्याख्यानम् अपि उपलभ्यते । रत्नगर्भः ‘वैष्णवाकूतचन्द्रिका’नामिकां टीकां रचितवान् अस्ति ।

प्रसिद्धश्लोकाः[सम्पादयतु]

वेदविषयसम्बद्धाः[सम्पादयतु]

‘एतत्ते यन्मयाख्यातं पुराणं वेदसम्मतम्’ ६।८।१२
‘नाहो न रात्रिर्ननभो न भूमिः नासीत्तमो ज्योतिरभूच्च नान्यत्’१।२।२३

राष्ट्रभक्तिप्रचोदकाः[सम्पादयतु]

अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
गायन्ति देवाः किल गीतकानि
धन्यास्तु ते भारतभूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते
भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २।३।२३,२४

रमणीयश्लोकाः[सम्पादयतु]

शरद्वर्णनम्

मयूरा मौनमातस्थुः परित्यक्तमदा वने ।
असारतां परिज्ञाय संसारस्येव योगिनः ॥
उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः ।
तत्यजुश्चाम्बरं मेघा गृहं विज्ञानिनो यथा ॥
तारका विमले व्योम्नि रराजाखण्डमण्डलः ।
चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥
तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ॥
चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ ५।१३।२१,२२

नीतिश्लोकाः[सम्पादयतु]

या दुस्त्यजा दुर्मतिभिः या न जीर्यतिजीर्यतः ।
तां तृष्णां सन्त्य्जेत् प्राज्ञः सुखेनैवाभिपुर्यते ॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ते जीर्यतः ।
धनाशा जीविताशा च जीर्यतोपि न जीर्यतः ॥ ४.१०.२६,२७

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=विष्णुपुराणम्&oldid=271201" इत्यस्माद् पुनः प्राप्तिः