वीणाविशारदः शेषण्णः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
वीणाशेषण्णः
जन्मनाम शेषण्णः
मूलतः मैसूरु, कर्णाटकराज्यम्, भारतम्
सङ्गीतविद्या कर्णाटकसङ्गीतम्
वृत्तिः सङ्गीतज्ञः,वीणावादकः, गुरुः ।
वाद्यानि शास्त्रीयवीणावादकः
सक्रियवर्षाणि क्रि.श. १८६२ तः क्रि.श. १९२६ ।




वीणे शेषण्ण ' (Veene Sheshanna) इत्येव ख्यातः मैसूरुसंस्थानस्य आस्थानविद्वान् आसीत् । कर्णाटकसङ्गीतस्य प्रसिद्धः वैणिकः आसीत्। अस्य पिता बक्षि चिक्करामप्पः अपि मुम्मडिकृष्णराज वडेयर् काले मैसुरुसंस्थानस्य आस्थानपण्डितः आसीत् । पित्रा मैसुरुसदाशिवराव् इत्यनेन च सङ्गीतम् अधीतवान् शेषण्णः विणावादने विशेषं प्रावीण्यं सम्पादितवन् । वीणया सह पियानो, बाहुलीना, सितार् इत्यादिवाद्यानि अपि वादयति स्म । शेषण्णः काश्चन कृतयः अपि रचितवान्।

कौटुम्बिकपरिचयः[सम्पादयतु]

शेषण्णस्य पिता चिक्करामय्यः माध्वविप्रः, मुम्मडिकृष्णराज वडेयर् इति मैसू्रुमहारजस्य आस्थानसङ्गीतपण्डितः आसीत् । अस्य वीणाभक्षि चिक्करामप्पः इत्येव सम्बोधननाम आसीत् । माता अपि सङ्गीतकुलादागता। शेषण्णः स्वस्य दशमे वयसि एव महाराजस्य अग्रे गीतस्य पल्लवीं गीत्वा सम्मानितः अभवत् । सङ्गीतस्य आरम्भिकपाठान् पिता एव अपाठयत् । दुर्दैवात् शेषण्णस्य त्रयोदशमे वयसि तस्य पिता विधिवशः अभवत् । किन्तु सङ्गीताभ्यासम् अनुवर्तयन् वीणासुब्बण्णस्य पितुः दोड्डशेषण्य इत्यस्य आश्रयं गतवान् । अस्य अग्रजा वेङ्कम्मा अनुजस्य सङ्गीताभ्यासार्थं विषेषां प्रमतिं दत्वा सहकृतवती । सङ्गीतकला शेषण्णाय भगवतः वरप्रसादः आसीत् । सततपरिश्रमेण अवदानं प्राप्य स्वतन्त्रां वीणाशैलीं रूपितवान् । वीणावाद्यं स्वाधीनं कृत्वा विशिष्टान् प्रयोगान् कृत्वा यशस्वी अभवत्। यङ्कमपि सम्मोहयत् वीणावाद्यं शेषण्णः करोति स्म। मनोधर्मसङ्गीतम् एव अस्य सङ्गीतगोष्ठ्याः प्रधानः भागः आसीत् । चितानां केषाञ्चन कीर्तनानां वादनं करोति स्म । तिल्लानं, जावळीं च अन्ते वादयति स्म । स्वररसिकानां तदेव आकर्षणं भवति स्म। समग्रे जीवने कुत्रापि अस्मितां न प्रदर्शितवान्। आहा, भले, भेश्, साधु, उत्तमम्, इत्यादीनि नादानुसन्धानस्य उद्गारपदानि अज्ञात्वा एव मुखात् निस्सरन्ति स्म । शेषण्णः प्रायः २०विधवाद्यानां सुललितं वादनसमर्थः आसीत् । बाहुलीना, पियानो, स्वरबत्, जलतरङ्गः, नागस्वरः, हार्मोनियम्, मयूरवाद्यम्, मृदङ्गम्, इत्यादीनि वाद्यानि सरसतया वादयति स्म । कदाचित् सङ्गीतगोष्ठ्याः अवसरे कोपि वाद्यसङ्गतिः नागतः चेत् स्वयं वादयति स्म ।

वीणावादनसाम्राट्[सम्पादयतु]

पाश्चात्त्यसङ्गीतविद्वासः शेशण्णं The king of Veena player इति सगौरवं सम्बोधयन्तिस्म । शेषण्णस्य वीणा न केवलं वाद्यविशेषः किन्तु नाददेवतायाः उपासनायाः साधनम् एव आसीत्। सङ्गीतविद्यायाः अक्षयो निधिः शेषण्णः प्रतिदिनं ८होराकालम् अभ्यासं करोति स्म । अस्य संयमः कलाप्रेम बद्धता च साधकैः अनुकरणियाः अनुसरणीया च । मैसूरुसदाशिवराय इत्यस्मिन् सङ्गीतगुरौ अभ्यसं कृतवान् इति शेषण्णः अपि त्यागराजस्य परम्परायाम् एव आगतः इति अभवत् ।

आस्थनस्य सङ्गीतसभाभूषा[सम्पादयतु]

आस्थानस्य वेशभूषायां शेषण्णः शोभते स्म। अत्यन्तं माननीयः अकर्षकः च जनः इति भाति स्म। अन्येषाम् अपेक्षया अस्य वेशाभूषा सरला आसीत्। परमशुक्लवेष्टी, कृष्णवर्णस्य प्रवारकः, अस्योपरि श्वेतपुटिताङ्गवस्त्रम्, श्वेतशिरोवेष्टः च अस्य वेषभूषा आसीत् । निबिडश्मश्रुयुतः, विशालभाली ललाटे अक्षतानि शोभन्ते स्म । चलनावसरे सर्वदा ग्रीवा स्तिरा भवति स्म। प्रकाशमाने नेत्रे, अतिकायः नासीत् तथापि दूरादेव अभिज्ञातुं शक्यते स्म अयं शेषण्णः इति। वीणावादनार्थम् एव भगवता अनुग्रहिताः इव दीर्घाः अङ्गुल्यः च अस्य बाह्यरूप आसीत्। वीणावादनरतः भवति चेत् योगीम् अपि अतिक्रम्य तपः मुखे एव दृश्यते स्म। स्वस्य २६तमे वर्षे वयसि कर्णाटकस्य राजभवनेषु मठमन्दिरेषु आढ्यानां गृहेषु च सङ्गीतगोष्ठीः सञ्चालितवान्।

सर्वत्रराजगौरवम्[सम्पादयतु]

भारतस्य स्वातन्त्र्यात् पूर्वं नैके राजानः एतं सम्मानं कृतवन्तः। बरोडामहारजः बरोडानगरे प्रचालिते सङ्गीतसमारोहस्य अन्ते स्वर्णस्यन्दने शोभायात्राम् अकरोत् । इङ्ग्लेण्डस्य राजा पञ्चमः जार्जः देहलीनगरे आयोजितां सङ्गीतसभां श्रुत्वा शिषण्णस्य वर्णतैलचित्रं कारयित्वा लण्डन्नगरे बङ्किङ्ग् ह्याम् राजभवने अस्थापयत् । क्रि.श. १९२४ तमे वर्षे प्रचालिते काङ्ग्रेस् अधिवेशने महात्मा गान्धिः सहवर्तिनः च स्वकार्याणि त्यक्त्वा वीणासङ्गीतम् अनेकहोराकालं श्रुत्वा मन्त्रमुग्धाः अभवन् । वीणाशेषण्णः भावपूर्णवीणावादनेन विशिष्टशैल्या च भारतदेशे एव कलाप्रपञ्चस्य अत्युन्नतं स्थानम् अवाप्नोत् ।

वैणिकशिखामणिः[सम्पादयतु]

तदानीम् एव प्रशासनाधिकारं प्राप्तवान् मुम्मडिकृष्णराज वडेयर् इति मैसूरुमहाराजः शेषण्णस्य वीणावादनमाधुर्येण नितरां प्रभावितः तस्मै वैणिकशिखामणिः इति उपादिम् अयच्छत् । तत्पश्चात् सिंहासनारूढः जयचामराज वडेयर् शेषण्णं राजभवनस्य आस्थानपण्डितः इति नियोजितवान् । सुब्बण्ण्स्य गानम्, शेषण्णस्य वीणावादनम्, महाराजस्य बाहुलीनावादनम् च अतिविरलभावनुसन्धस्य सङ्गीतमेला आसीत् । शेषण्णः मैसूरुराजसंस्थानस्य प्रतिष्ठा भाग्यं च इति परिगणितः आसीत्। रामनाथपुरस्य भास्कर सेतुपति महाराजः नवरात्रोत्सवस्य आरम्भदिनेषु शेषण्णस्य वीणावादनं निरत्नरं श्रोतुम् इच्छां प्रकटितवान्। शेषण्णः नवरात्रोत्सवस्य सर्वदिनानि मैसूरु राजभवने विणानादसुधां प्रवाहितवान्। अनेन सन्तुष्टः राजा शेषण्णस्य कनकाभिषेकं कृत्वा गजारोहणशोभायात्राम् अकारयत् । तदनन्तरकालेषु बहुकालं यावत् प्रतिवर्षम् अस्य वीणावादनकार्यक्रमः भवति स्म ।

बरोडासंस्थाने[सम्पादयतु]

सय्याजिराव गायकवाडः अस्य महारज्ञ्यः च सततं दिनत्रयं शेषण्णस्य वीणावादनं कार्यक्रमं व्यवस्थाप्य सकलराजसम्माननैः पुरस्कृत्य स्वोपयोगस्य रथम् अस्मै अयच्छत् । तज्ञावूरु कृष्णस्वामी नायकस्य गृहे कदाचित् सङ्गीतगोष्ठी अभवत् । तत्र शेषण्णेन सह महावैद्यनाथ अय्यर्, शरभशास्त्री, तिरुक्कोडि कावल् कृष्ण अय्यर् इत्यादयः विद्वासः सम्मिलिताः । येषां परस्परनिर्णयेन कमलमुद्रायाः अङ्गुलीयकं पारितोषिकरूपेण दीयते इति । वैद्यनाथ अय्यरः वीणावादनचतुरः शिषण्णः एव एतत् पारितोषिकमर्हति । अस्य मनोधर्मः ऊहातीतः. वीणामाधुर्यं मनमोहकम् अतः अस्मै एव दद्मः इति अवदत् ।

बरोडाराजपरिवारस्य रसग्रासः[सम्पादयतु]

बरोडा महाराजः कदाचित् मैसूरुराजभवनस्य सङ्गीतसभायाम् अतिथिरूपेण आगतः । तदा शेषण्णस्य वीणावादनगोष्टीम् अश्रुणोत् । स्वस्य विश्रान्तिसमये अपि पुनः श्रोतुकामः अभवत् । तदा पुनः शेषण्णः तस्य मनोविनोदार्थं कर्णाटकसङ्गीतस्य हिन्दुस्तानीसङ्गीतस्य पाश्चत्यस्य च मिश्रणं कृत्वा श्रावितवान् । तस्मिन् अवसरे राजभवने वडेयर् महाराजः नासीत् । पश्चात् आगत्य परमसन्तुष्टः शेषण्णम् आस्थानम् आमन्त्र्य शेषण्णस्य समयस्फूर्तिं प्रशंसितवान् ।

बेळगाविकाङ्ग्रेस् अधिवेशने[सम्पादयतु]

क्रि.श. १९२४ तमे वर्षे महात्मागान्धेः आध्यक्ष्ये बेळगाविनगरे प्रचालिते काङ्ग्रेस् अधिवेशने शेषण्णस्य विणावादनं व्यवस्थितम् आसीत् । तादानीम् अस्य आयुः ७२वर्षाणि आरोग्यमपि परिपूर्णं नासीत् । अतः अर्धहोराकालस्य कार्यक्रमं प्रदर्शितुम् अङ्गीकृतवान् आसीत् । किन्तु एकघाण्टायाः पश्चात् अपि श्रोतारः अचलाः उपविष्टाः । महात्मना गान्धिना सह सरोजिनी नायडु, जवाहरलाल नेह्रू, मोतिलाल नेह्रू, मदन मोहन मालवीयः, लाला लजपतरायः, बाबू राजेन्द्रप्रसादः इत्यादयः नेतारः अपि गानलीनाः निश्शब्दाः च उपविष्टाः । सोमवासरे माहत्मनः गान्धेः मौनव्रतम् आसीत् । तथापि मौनं विमुच्य वीणावादनस्य प्रशंसामकरोत् ।

विंशतशतकस्य वैणिकाग्रेसरः वग्गेयवरः च[सम्पादयतु]

वीणावादनशेषण्णः विंशतशताब्दस्य वाग्गेयकारः अपि । यतः एषः नैकाः कृतयः वर्णान्, स्वरजतीः च व्यरचयत् । आहत्य अस्य ५३ सङ्ख्याकानि रचनानि सन्ति । वर्णा अपि विद्वत्पूर्णाः सन्ति । खण्डद्रवः, मिश्रत्रिपुटः, खण्डः, त्रिपुटः इत्यादिषु लयेषु एते रचिताः सन्ति । रागमालिकावर्णद्वयं, १४,१८ रागान् आश्रयति । शेषः इति नामाङ्कनम् अस्य रचनेषु सन्ति कानिचन जयचामराज वडेयर्, कृष्णराज वडेयर् इति नामाङ्कितानि सन्ति । अस्य तिल्लानानि अतीव आकर्षणीयानि । रालपल्ली अनन्तशर्मा, वासुदेवाचार्यः, इत्यादयः अस्य कृतीः प्राशंसन् । अस्य सर्वाः कृतीः मैसूरुनगरस्य सङ्गीतकलावर्धिनी सभा प्रकटितवती ।

विणावादनेन प्रभावितः आङ्ग्लाधिकारी[सम्पादयतु]

ब्रिटिश् चक्रवर्ती पञ्चमस्य जार्जस्य पट्टाभिषेके देहल्यां प्रचालिते शेषण्णस्य वीणावादनम् आयोजितम् । अस्य वादनेन बहुधा अकृष्टः जार्जः अस्य स्मरणे तैलवर्णचित्रमेकं रचयित्वा बङ्किङ्ग् ह्यम् राजसौधं नीतवान् ।

शिष्यवृन्दः[सम्पादयतु]

शेषण्णस्य वीणाविषारदशिष्याः मैसूरुवीणापरम्परायै महद्योगदानं कृतवन्तः । तेषु केचन सन्ति यथा...

  • वीणा वेङ्कटगिरियप्प ।
  • शर्मादेवी सुब्रह्मण्यशास्त्री ।
  • भैरवी ।
  • लक्ष्मीनारायणप्पः ।
  • कलावित् वेङ्कटप्पः ।
  • नारायण अय्यरः ।
  • ए.एस्. चन्द्रशेखरय्यः ।
  • एम्.एस्. भीमरावः ।
  • तिरुमले राजम्म ।
  • स्वरमूर्ति वि.एन्. राव् ।

जलतरङ्गवादनसङ्गीतम्[सम्पादयतु]

उत्तरभारतस्य कश्चित् विद्वान् मैसूरुमहाराजस्य आस्थाने जलतरङ्गस्य सङ्गीतकं प्रादर्शयत् । राजा श्रुत्वा सन्तुष्टः प्रभावितः च । श्रोतृगणे उपविष्य श्रुतवान् शेषण्णः पश्चात् महाराजं सन्दृश्य जलतरङ्गवाद्यं स्वहस्ते स्थापयितुम् अनुमतिं प्राप्तवान् । रात्रावेव समर्पणभावेन जालतरङ्गवादनस्य अभ्यासं कृत्वा अन्येद्युः महाराजस्य सन्निधौ जलतरङ्गसङ्गीतकं प्रदर्शितवान् । अन्ते उत्तरभारतस्य सङ्गीतकोविदः मञ्चे आगत्य शेषण्णम् अभिनन्दितवान् ।

वीणावादनस्य मैसूरुशैली[सम्पादयतु]

इदानीं वीणावादनस्य या प्रसिद्धा मैसूरुशैली वर्तते तस्याः निरुपकः शेषण्णः एव । इतः पूर्वं सितारवाद्यम् इव विद्यमानम् अलाबुकाम् अङ्गे नोदयित्वा वादनस्य अभ्यासः आसीत् । किन्तु शेषण्णः पद्मासने उपविष्य वादनस्य रूढिम् आरब्धवान् । अङ्गुलिद्वयेन तन्त्रीनोदनस्य शैलीम् आरभ्य तन्त्रिद्वयं परस्परं स्पर्शं न प्राप्नोतो इति व्यवस्थाम् अपि कृतवान् ।

गुणस्य मात्सर्यं कुतः[सम्पादयतु]

अन्यराज्येभ्यः आगताः कलाविदः मैसूरुमहाराजस्य सभायां सङ्गीतप्रदर्शनात् पूर्वं शेषण्णस्य पुरतः प्रदर्शनीयम् आसीत् । विद्यापक्षपाती शेषण्णः कलाविदं सगौरवं पश्यति स्म । गुणस्य किं वा मात्सर्यम् इति अस्य भावः ।

नादोपासनगेहः शेषण्णगृहम्[सम्पादयतु]

प्रतिदिनं शेषण्णस्य गृहे विद्वद्गोष्टयः प्रचलन्ति स्म । श्रीकृष्णजन्माष्टमी, श्रीरामनवमी, इत्यादिषु पर्वदिनेषु सार्वजनिकानां सौकर्यार्थं शेषण्णस्य गुहस्य प्रासादे वीणावादनसङ्गीतकम् अयोजयति स्म । अयं कार्यक्रमः दशदिनात्मकः भवति स्म । राजभवनं गन्तुम् अशक्तानाम् अत्र अवकाशः भवति स्म । स्वस्य अन्तिमदिनेषु मरणात् भीतः नासीत् किन्तु वीणां त्यक्त्वा गन्तव्यम् इत्येव अस्य दुःखम् आसीत् । वीणाविशारदः आस्थानविद्वान् वीणाशेषण्णः क्रि.श १९२६ तमे वर्षे जुलैमासस्य २५दिनाङ्के दिवङ्गतः ।

आधाराः[सम्पादयतु]

मैसूरु सुब्रह्मण्यम्, डा. वि. एस्. सम्पत्कुमारः, प्रो. वि. रामरत्नम्, मैसूरु ए. राजा राव इत्येतेषां लेखाः । सङ्गीतसमय इति एस्. कृष्टमूर्तेः लेखनम् ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=वीणाविशारदः_शेषण्णः&oldid=235968" इत्यस्माद् पुनः प्राप्तिः