वीरेन्द्र हेग्गडे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वीरेन्द्र हेग्गडे
पदग्रहणकाले वीरेन्द्रः
जन्म सा.श.१९४८तमवर्षस्य नवेम्बरमासस्य २५तमदिने
बण्टवाळ, दक्षिणकन्नडमण्डलम् कर्णाटकम्
देशीयता भारतीयः।
शिक्षणस्य स्थितिः St. Joseph's Indian High School Edit this on Wikidata
वृत्तिः धर्माधिकारी ।
कृते प्रसिद्धः समाजसेवा ।

डा. विरेन्द्रहेग्गडे महोदयः ख्यातस्य धर्मस्थलक्षेत्रस्य मञ्जुनाथेश्वरदेवालयस्य धर्माधिकरी समाजसेवारतः अपि । बण्टवाळोपमण्डले सर्वकारीयशालायाम् प्राथमिकशिक्षां च उजिरे प्रौढशिक्षणं सिद्धवनगुरुकुले विद्याभ्यासम् । बेङ्गळूरु शेशाद्रिपुरम् प्रौढशला,सैण्ट जोसेफ् शालायाम् शिक्षणम् । सा.श.१९६३तमे वर्षे एस्. एस्. एल्. सि. उत्तिर्णवान् । बेङ्गळूरुनगरस्य सैण्ट जोसेफ् पदविपूर्व विद्यालये वाणिज्यविषये पदविपूर्वशिक्षां प्राप्तवान् । पश्चात् वाणिज्यविभागं त्यक्त्वा बि.ए. पदवीम् अधीतवान् । आधुनिकन्यायशिक्षा प्राप्तव्या इति तस्य आशा न सफलिता । किमर्थम् इति चेत् हेग्गडे महोदयस्य पितुः रत्नवर्म हेग्ग्डे महोदयस्य आरोग्यं व्यत्यस्तम् । एषा घटना हेग्ग्डेवर्यस्य जिवने महत्वपूर्णस्य परिवर्तनस्य कारणम् अभवत् । विरेन्द्र हेग्ग्डेवर्यः पितुः सेवायां एव निरतः । तथापि सा.श.१९६८तमे वर्षे रत्नवर्म हेग्गडे वर्यः दिवङ्गतः। तस्मिन्नेव वर्षे अगष्ट्.२४तमे दिने विरेन्द्र हेग्गडेवर्यः धर्मस्थलक्षेत्रस्य धर्माधिकारी इति नियुक्तः। सः स्वस्य विंशतितमे वर्षे एव श्रीक्षेत्रस्य धर्मस्थलस्य एकविंतितमः धर्माधिकारी इति पट्टाभिषिक्तः।

धर्माधिकारिणः दायित्वम्[सम्पादयतु]

विरेन्द्र हेग्गडे महोदयः सा.श.१९४८तमवर्षस्य नवेम्बरमासस्य २५तमदिने जन्म प्राप्तवान् । सः स्वस्य विंशतितम वर्षे एव धर्मस्थलस्य मञ्जुनाथेश्वर देवालयस्य धर्माधिकारी अभवत् । स्वयं जैनमतीयः सन् हैन्दवदेवालयस्य धर्माधिकारित्वेन सेवमानः अस्ति । तथैव विरेन्द्र हेग्गडेवर्यस्य धर्मस्थलक्षेत्रं प्रति धार्मिकसहिष्णुता क्षेत्रम् इति नाम ख्यातिः भवेदिति धिया कार्यम् कुर्वन् अस्ति । धर्मस्थले बृहत् बाहुबलिविग्रहस्य प्रतिष्ठापनं कृतम् । विरेन्द्र हेग्गडे महोदयः एव प्रतिदिनम् धर्मस्थलम् ये आगच्छन्ति तेषां भक्तानां भोजनव्यवस्थाम् आयोजितवान् । प्रतिदिनं प्रायः ३००० श्रद्धालवः अत्र मध्याह्नभोजनं रात्रिभोजनं च कुर्वन्ति ।

पारिहारिककार्यक्रमाः[सम्पादयतु]

तदनन्तरं धर्मस्थले अन्यप्रदेशेषु च समाजोत्थानर्थं आरोग्यविकासः, शिक्षणम्, ग्रामाभिवृद्धिः इत्या आयोजितवन्तः। उत्तरकर्णाटके अपि प्राकृर्तिकविप्लवेषु परिहारकार्यम् आयोजितवान् । दक्षिणकन्नडमण्डले सा.श.१९७४ तमवर्षस्य गदगप्रदेशे सा.श.१९९२ महापूरहानिः इत्यदिषु अवसरेषु पुनर्निर्माणकार्याणि च क्रतवान्। मङ्गळूरुनगरे सम्भूते महापूरे २लक्षरूप्यकाणि साहाय्यरूपेण प्रदत्तानि ।

ग्रामिणाभिवृद्धिः[सम्पादयतु]

विरेन्द्र हेग्गडे महोदयः नैकेग्रामिणाभिव्रद्धिकार्यं सञ्चलति । सा.श.१९८२ तमे वर्षे आरब्धः श्रीक्षेत्रस्य धर्मस्थलस्य ग्रामिणाभिवृद्धियोजनायां बेळ्तङ्गडिप्रदेशेषु ८१ ग्रामाणां १८००० गृहाणि प्राप्तसाहाय्यनि अभवन् । सा.श.१९७२ तमे वर्षे धर्मस्थले सामूहिकविवाहकार्यक्रमः आरब्धः । एकस्मिन् वर्षे ५०० अधिकजनाः अत्र विवाहभाग्यं प्राप्नुवन्ति । एकैकमपि तस्मिन्नेव धार्मिकपद्दतिम् अवलम्ब्य विवाहः आचर्यते ।

स्वास्थ्यसंरक्षणयोजनाः[सम्पादयतु]

विरेन्द्र हेग्गडे महोदयः सामाजिकानाम् आरोग्यसंरक्षणस्य कार्यक्रमान् अधिकान् आयोजितवान्। सञ्चारिवैद्यालयः व्यवस्थितः । धर्मस्थलस्य मंजुनाथेश्वरसंस्थया सञ्चाल्यमानः क्षयरोगचिकित्सालयः मङ्गळूरु उडुपी नगरयोः च आयुर्वेदवैद्यालयः हासने मङ्गळूरुनगरे च अस्ति । श्रीधर्मस्थलमञ्जुनाथेश्वर नेत्रचिकित्सालयः चन्तचिकित्सालयः योगप्रशिक्षणालयः च बहुत्र सन्ति ।

शिक्षायोजना[सम्पादयतु]

विरेन्द्र हेग्गडे महोदयः स्थापितः मञ्जुनाथेश्वरसांस्कृतिकसंशोधनकेन्द्रे धर्मस्य, साहित्यस्य कलायाः च विषयमुद्दिश्य संशोधकार्यं प्रचलति । हेग्गडेवर्येण नैकाः सार्वकालिकाः प्रयोगिकाः शैक्षणिकाः च संस्थाः काले काले प्रतिष्ठापिताः। अनेन आरब्धाः अधिकसङ्ख्याकाः छात्रावासाः प्राथमिकशालाः, प्रौढशालाः, महाविद्यालयाः च कर्णाटकराज्ये तत्र तत्र विलसन्ति । कर्णाटकस्य विशिष्टकलाप्रकारेषु अन्यतमस्य यक्षगानस्य संवर्धनसंरक्षणार्थं परिश्रमं कुर्वन् अस्ति । तथैव अन्यान्यकुशलकलाप्रकाराणाम् अभिवृद्धये कार्यक्रमान् अपि सञ्चालयति ।

प्रश्स्तिपुरस्काराः[सम्पादयतु]

विरेन्द्र् हेग्गडे महोदयस्य कार्यक्षमतां द्रष्ट्वा तस्मै अनेकाः सङ्घसंस्थाः प्रशस्तिपुरस्कारान् दत्तवत्यः। सा.श.१९८५ तमे वर्षे कर्णाटकसर्वकारः राज्योत्सवप्रशस्तिः च सा.श.१९९३ तम वर्षस्य तस्मिन् सन्दर्भे स्थितः राष्ट्र्‌पति शंकर डयाळ् शर्म महोदयतः "राजर्षि" गौरवः प्राप्तम्। अनेकनेक धार्मिक मठाः हेग्गडे महोदयस्य धर्मरत्नः धर्मभूषणः, अभिनवचावुण्डरायः, परोपकारदुरन्धरः इत्यादिभिः उपाधिभिः भूषितः अस्ति । सा.श.१९९४ तमवर्षस्य इन्दिरागान्धि प्रियदर्षिनि प्रशस्तिः प्राप्ता । मङ्गळूरुविश्वविद्यालयेन हेग्गडे महोदयाय सगैरवं डाक्टरेट् उपाधिः दत्तः । सा.श. २००४ तमवर्षस्य कर्णाटकसर्वकारेण वर्षस्य कन्नडिगः इति प्रशस्तिः प्रदत्ता । हेग्गडे महोदयमुद्दिश्य प्रजावाणि पत्रिकायाम् लेखनः आगतम्। सा.श. २०११ तमे वर्षे डा. विरेन्द्र हेग्गडे महोदयस्य कृते सा.श.२००९ तम वर्षस्य कर्णाटकसर्वकारेण दियमाना प्रशस्तिः कर्णाटकरत्नम् इति प्रशस्तिः अनेन एव प्राप्ता। तदानीन्तनः मुख्यमन्त्री बि. एस्. यडियूरप्पः बेङ्गळूरुनगरस्य रविन्द्रकलाक्षेत्रे तां प्रशस्तिं समर्पितवान् । कर्णाटकराज्यस्य वाणिज्यमहासंस्थाया दीयमाना सर्.एम्.विश्वेश्वरय्यप्रशस्तिः सा.श.२०११ तमे वर्षे अस्मै एव प्रदत्ता । धर्मस्थलग्रामिणाभिव्रद्धियोजनया लन्डन्देशस्य ख्यातायाः आश्देन्संस्थाया दीयमाना जागतिकहरिदास्करस्य प्रशस्तिः सा.श.२०१२ तमवर्षे प्राप्ता ।

"https://sa.wikipedia.org/w/index.php?title=वीरेन्द्र_हेग्गडे&oldid=282538" इत्यस्माद् प्रतिप्राप्तम्