वेदः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।
वेदाध्यायी वटुः



चत्वारः वेदाः भवन्ति । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति । एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतां ऋषीणां योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति ।

संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते ।

प्रधानतया वेदो द्विविधः मन्त्ररूपो ब्राह्मणरूपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूपबोधकतया प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।

अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् ।

वेदानां रचना कालः[सम्पादयतु]

प्राचीना भारतीया विद्वांसो वेदानपौरुषेयान् मन्यन्ते, तेषां मते वेदरचनाकालविचारो निरर्थको दुरर्थकश्च । पाश्चात्त्या विद्वांसो यथाबुद्धिवैभवं वेदरचनाकालं निर्धारयन्ति, पाश्चात्त्यविचारसरणिविदो भारतीया अपि तेनैव मार्गेण वेदकालं निर्णेतुं यतन्ते । अत्र तद्विषयका कतिचन विचाराः प्रस्तूयन्ते ।

मैक्समूलरमतम्[सम्पादयतु]

मैक्समूलरमहोदयस्य मतेन ऋग्वेदस्य रचना ११५० ई.पू. समीपे जाता । बुद्धधर्मोदयात् प्रागेव च ब्राह्मणग्रन्था अपि व्यरच्यन्ते । बुद्धेन ब्राह्मणग्रन्थेषु विवेचितानामेव यागविधीनां कट्वी आलोचना क्रियते स्म, अपि चोपनिषत्समर्थितं कतिपयतत्त्वजातमात्मसात् क्रियते स्म’ अतो बुद्धात् पूर्वतना (५०० ई.पू.) एव ब्राह्मणोपनिषद्भागाः सम्भवन्ति । वैदिकसाहित्ये चत्वारि युगानि- छन्दोयुगम्, मन्त्रयुगम्, ब्राह्मणयुगम्, सूत्रयुगञ्च । प्रत्येकयुगविकासे तेन वर्षशतद्वयं कालः कल्पितः, तदनुसारेण बुद्धात् ६०० वर्षतः पूर्व छन्दोयुगस्यास्तित्वं समायाति । अतः ऋग्वेदस्य रचना ११५० ई.पू. समायात् पश्चात्कालिकी न सम्भवतीति सम्प्रति ऋग्वेदस्य जातस्य ३२०० वर्षाणि जातानीति कथयितुं शक्यमिति तदाशयः । मैक्समूलरमहोदयेनायं कालः सम्भाव्यरूपेणोक्तो न तु निश्चयरूपेण, परं तदनुसारिणः पाश्चात्त्यास्तदीयैरेव तर्कैः कालममुं निश्चयरूपेण कथयितुं प्रवृत्ताः ।

डा अविनाशचन्द्रदासमतम्[सम्पादयतु]

अयं महानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्त्वानि विशेषतः आर्यावर्त्ततश्चतुर्दिक्षु चतुः समुद्रीस्थितिमाधारीकृत्य गणनाद्वारा वेदस्य समयं २५ सहस्रसंवत्सरपूर्वं मन्यते । इदमीयं मतम् ‘ऋग्वेदिक इण्डिया’ (RigVedic India) नामके पुस्तके व्यक्ततयाऽनेन प्रतिपादितम् ।

वेदस्थितज्यौतिषतत्त्वाधारं मतम्[सम्पादयतु]

भारते षड् ऋतवो भवन्ति । अमी ऋतवः सूर्यसंक्रमणनिमित्तकाः । इदमपि प्रसिद्धं यत् प्राचीनकालादधुनापर्यन्तममी ऋतवः पश्चात्सर्पन्ति, अर्थात् पूर्व यत्र नक्षत्रे यस्यर्त्तोरुदयो जायते स्म सम्प्रति स एवर्त्तुस्ततः पूर्ववर्तिनि नक्षत्रान्तरे उदितो भवति । पुराकाले वसन्तो वर्षादिरभवत्, अत एव तस्य प्रशस्ततया भगवद्विभूतिभाव उक्तो गीतायां- ‘ऋतूनां कुसुमाकरः’ इति । सम्प्रति वसन्तसम्पातः मीनसङ्क्रान्तिकालादारभते, मीनसङ्क्रान्तिश्च पूर्वभाद्रपदनक्षत्रस्य चतुर्थचरणे भवति । सेयं स्थितिर्नक्षत्राणां क्रमशः पश्चात्सर्पणेनोत्पन्ना । पूर्वं कदाचिद् वसन्तसम्पातः उत्तरभाद्रपदरेवती-अश्विनी- भरणी –कृत्तिका- मृगशिरः प्रभृतिषु नक्षत्रेष्वासीत्, ततः पश्चात्सर्पन्नयं वसन्तसम्पातः साम्प्रतिकीं स्थितिमनुप्रपन्नः ।

वेदशब्दार्थः[सम्पादयतु]

विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः, इति बहवृक्प्रातिशाख्यम् । सायणस्तु अपौरुषेयं वाक्यं वेद इत्याह । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो वेदयति स वेद इति भाष्यभूमिकायामुक्तम् । तत्र प्रमाणमपि तत्रैवोक्तम्

प्रत्यक्षेणानुमेत्या वा यस्तूपायो न विद्यते ।
एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥

आम्नायः, आगमः श्रुतिः, वेदः, इति सर्वे शब्दा पर्यायाः ।

सोऽयं वेदस्त्रयीति पदेनापि व्यवह्रियते, वेदरचनायास्त्रिप्रकारकत्वेन त्रयीति कथ्यते । या खलु रचना पद्यमयी सा ऋक्, या गद्यमयी सा यजुः, या पुनः समग्रा गानमयी रचना सा सामेति कथ्यते, तदुक्तं चैमिनिना –तेषामृग् यत्रार्थवशेन पादव्यवस्था । गतिषु सामाख्या । शेषे यजुः शब्दः’ इति । द्वितीयाध्याये प्रथमपादे ३२-३३-३४ सूत्राणि यास्कस्तु –‘ता ऋचः परोक्षकृताः प्रत्यक्षकृताः आध्यात्मिक्यश्चेति भेदात् त्रिविधाः । ऋकशब्दोऽत्र मन्त्रवचनः । यासु प्रथमपुरुषक्रियास्ताः परोक्षकृताः, यासु मध्यमपुरुषक्रियास्ताः प्रत्यक्षकृताः यासु चोत्तमपुरुषक्रियास्ता आध्यात्मिक्यः ’ इति । अतः यत्र कुत्रापि प्राचीनग्रन्थे वेदार्थे ‘त्रयीति पदं प्रयुक्तं तत्र सर्वत्र रचनात्रैविध्यं मनसि कृतं बोध्यम् । यत्तु केचन ‘ऋग्यजुः सामाख्यास्त्रय एव वेदाः पूर्वमासन् तद्यथा –’

अग्नेरऋचो वायोर्यजूंषि सामादित्यात् । छा. ब्रा.६/१७
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ॥ मनु. १/१३

अतो वेदानां त्रित्वादेव तत्र त्रयीति व्यवहारो वास्तवो न प्रकारभेदकृतः’ इति तदयुक्तम्, ऋग्वेदेऽपि अथर्ववेदनामोल्लेखदर्शनात् । भगवता पतञ्जलिनाऽपि ‘चत्वारो वेदाः साङ्गाः सरहस्याः’ इति पस्पशाह्निके स्पष्टमुक्तम् । छान्दोग्यब्राह्मणे मनुस्मृतौ च यज्ञोपयोगिनो वेदा एव परामृष्टाः, नाभिचारिकः सामवेद इति त्रित्वमेवोक्तम्, एवं परत्रापि । जैमिनिस्तु मन्त्राणां विप्रकारकतामेव लक्षितवान्, न वेदसंख्यां व्यवस्थापितवान् । अतो वेदाश्चत्वार एव, त्रयीति व्यवहारस्तु प्रकारकृतः । अथर्ववेदीयमन्त्रा अपि

ऋग्वेदः[सम्पादयतु]

मुख्यलेखः: ऋग्वेदः
ऋग्वेदस्य पदपाठः

वेदेषु आदिमः ऋग्वेदः हिन्दुधर्मस्य मूलग्रन्थः अस्ति । ऋग्वेदः ४५०० वर्षेभ्यः प्राक् संग्रथित: इति मन्यन्ते । अस्य १०१७ सूक्तानि सन्ति । तस्य श्लोकाः विविधदेवानां सम्बद्धा: - यथा इन्द्रः, अग्निः, वायुः इत्यादयः । ऋग्वेदस्य १०५८९ संहिताः, १०२८ सूक्तानि च १० मण्डलै: विभाजिता: सन्ति । महामुने: व्यासस्य निर्देशे पैलः ऋग्वेदस्य संहितानां निर्माणम् अकरोत् ।

यजुर्वेदः[सम्पादयतु]

मुख्यलेखः: यजुर्वेदः

आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद: इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनामा कृष्णयजुवेदः गद्यपद्यात्मक: । यदीया रचना विश्ववश्या देदीप्यते ।

सामवेदः[सम्पादयतु]

मुख्यलेखः: सामवेदः

साम- सान्त्वेन इति धातोः निष्पन्नं सामपदम् । सा इति ऋक्सूचकतया अम इति गानम् । हराबिव्यञ्गकतया च व्याख्यां केचिद् वदन्ति । सामवेदस्य एकसहस्रं शाखा असन् किल । प्रपञहृदयकारस्यकाले द्वादशशाखाभ्यः अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते । सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते । सामगानेऽ पि सप्तस्वरा: एव भवन्ति । ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते । खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः ।सामगानालापने गायकैः हस्ताङ्गुलिभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते ।

अथर्ववेदः[सम्पादयतु]

मुख्यलेखः: अथर्ववेदः

ब्रह्मपुत्रेण अथर्वेण समाहृतम् इति अथर्ववेदः । अथर्वाङ्गिराः, ब्रह्मवेदः इत्येते नामान्तरे । आथर्वसंहितायाः द्वे शाखे स्तः । शौनकीयशाखा, पैप्पलादशाखा चेति ।

भूर्जपत्रेषु शारदालिप्यां लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरेभ्यः सम्पादितम्। तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थशेखरे अस्ति ल ।

अधिकारः[सम्पादयतु]

शास्त्रम् तु अष्टमे ब्राह्मणम् उपनयीत इति उक्त्वा आनन्तरं सः वेदाध्ययनार्थम् अधिकारत्वं प्राप्नोति इति वदति ।

पश्यतु[सम्पादयतु]

सनातन धर्मस्य प्राणवत्, विश्वस्य महानतमः आदिग्रन्थः वेद न केवलं हिन्दुधर्मस्य अपितु सर्वेषां धर्माणां मूलम् अस्ति । वेदोखिलो धर्ममूलम् अर्थात् समेषां धर्माणाम् उत्पत्तिः अनेन एव अभवत् इति ।

उक्तमेव अस्ति- धर्मजिज्ञासमानानां प्रमाणं परमं श्रुति:

वस्तुतः वेदानां प्रादुर्भावः सृष्ट्यारम्भे एव अभवत् किन्तु केचन पाश्चात्यीयानाम् अभिप्रायम् अनुमन्यमानाः एव अस्माकं विद्वांसः अपि वेदानां रचनाकालं केवलं विगत चतुर्पंच सहस्र वर्षाणि एव मन्यन्ते । ते अवधानं न ददति यत् वेदानां परम्परा अपि वर्णिता अस्ति । अनेन क्रमेण ईश्वरेण ब्रह्मा, तेन वशिष्ठ अपि च अनेनेव क्रमेण शक्ति, पराशर , द्वैपायनः च वेदानां ज्ञानं प्राप्तवान् । वेदानां विस्तारकारणात् एव तस्य नाम वेदव्यासः इति अभवत् ।

वेदेषु प्राचीनतमः ऋग्वेदः अस्ति । इत्यपि प्राप्यते यत् सर्वप्रथमः केवलं ऋग्वेदः एव आसीत् , पठन-पाठनसारल्यहेतुः एव द्वैपायनः अस्य विस्तारं चतुर्षु वेदेषु कृतवान् अतः तस्य नाम व्यास इति अभवत् ।

महाभाष्यस्य (पश्पसाह्निक) अनुसारम् ऋग्वेदस्य एकविंशतिः (21) शाखाः आसन् । एतासु शाखासु चरणव्यूह ग्रन्थानुसारं पंच (5) शाखाः (शाकल, बाश्कल, आश्वलायन, शांखायन, माण्डूकायन) मुख्याः सन्ति । यासु साम्प्रतं केवलं शाकल शाखा एव प्राप्यते । ऋग्वेदस्य (शाकल शाखा) विभाजनं द्विधा, अष्टक क्रमेण, मण्डल क्रमेण च कृतं अस्ति । अष्टक क्रमे, अष्ट अष्टकेषु अष्ट-2 अध्यायाः, प्रत्येकस्मिन् अध्याये केचन वर्गाः, प्रत्येकवर्गे केचन ऋचाः सन्ति । अनेन क्रमेण सम्पूर्ण 2006 वर्गाः 10417 ऋचाः च सन्ति । शौनकाचार्यस्य अनुक्रमण्याम् अस्य पूर्णसंख्या 10580-1/4 इति अस्ति । ऋचां दशसहस्राणि ऋचां पंचशतानि च, ऋचामशीतिः पादश्च पारणं सम्प्रकीर्तितम् । मण्डल क्रमः अतिप्रचलितः अस्ति । एतस्यानुसारं ऋग्वेदः दश मण्डलेषु विभक्तः अस्ति । प्रत्येकेषु मण्डलेषु विभिन्न अनुवाकाः, तेषु कानिचन सूक्तानि, प्रत्येकेषु सूक्तेषु केचन मन्त्राः सन्ति । औसतसंख्या पंच अस्ति । एवं विधा सम्पूर्णं 1028 सूक्तानि सन्ति येषु 11 खिल सूक्तानि सन्ति । प्रथम मण्डलस्य द्रष्टारः शतार्चिननामधारिणः सन्ति । 2 तः 8 पर्यन्तं वंशमण्डल इति संज्ञया अभिहिताः । नवम मण्डलं सोम, पवमान मण्डलं वा कथ्यते । अस्य मण्डलस्य सर्वाणि सूक्तानि सोम देवाय समर्पितमस्ति । दशम मण्डलस्य नासदीय सूक्तपर्यन्तं सूक्तानि महासूक्तानि, अनन्तरं क्षुद्रसूक्तानि इति अथ च एतेषां द्रष्टारः अपि एतया संज्ञया एव अभिहिताः । ऋग्वेदस्य प्रधानदेवः इन्द्रः अस्ति । अस्य 250 सम्पूर्णसूक्तेषु अपि च अन्येषु आंशिकरूपेण अर्चना कृता अस्ति । ऋग्वेदे समस्तमण्डलानां प्रारम्भिकसूक्तानि अग्नये समर्पितमस्ति । अग्निः ऋग्वेदस्य द्वितीयः प्रधानदेवः अस्ति । अस्य 200 सम्पूर्ण सूक्तेषु अन्यत्र च आंशिकरूपेण अर्चना कृतास्ति । ऋग्वेदस्य रक्षार्थं, अपरिवर्तनीयं भूयात् अतः अपि सूक्तानां शब्दानाम् अपि गणना कृतास्ति । शौनकानुक्रमणी मध्ये एषा संख्या 153826 अस्ति । शाकल्यदृष्टेः पदलक्षमेकं सार्धं च वेदे त्रिसहसयुक्तम्, शतानि चाष्टौ दशकद्वयं च पदानि षट् चेति हि चर्चितानि । (अनुक्रमणी 45) शब्दानां एव न अपितु वर्णानाम् अपि गणना कृता अस्ति । अनुक्रमणी अनुसारं एषा संख्या 432000 अस्ति । वृहतीसहस्राण्येतावत्यो हर्चो या: प्रजापति सृष्टा: (शत0 ब्रा0-10,4,2,23), चत्वारिंशतसहस्राणि द्वात्रिंशच्चाक्षरसहस्राणि - (शौनक-वाकानुक्रमणी) ऋग्वेदस्य प्रथम अध्यापनं वेदव्यासः स्वशिष्यं पैलं प्रति कृतवान् । तत्रगर्वेदधरः पैलः । ऋग्वेदस्य दशममण्डलस्य ऋषयः एव तस्य देवताः अपि सन्ति । मन्त्राणां दर्शने महिलानाम् अपि सहयोगः अस्ति । तासु अगस्त्यपत्नी लोपामुद्रा, महर्षि अम्भृणपुत्री वाक् इत्ययोः नाम विशेषतया उल्लेखनीयम् अस्ति ।

"http://sa.wikipedia.org/w/index.php?title=वेदः&oldid=284236" इत्यस्माद् पुनः प्राप्तिः