वेलु नाच्चियार्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

राज्ञी वेलु नाच्चियार्[सम्पादयतु]

राणि वेलुनाच्चियार् १८ शतके ब्रिटिषजनानाम् ईस्ट् इण्डिया कम्पनी विरुद्धीकृत्य आयुधं स्वीकृत्य सङ्घर्षं कृतवती अस्ति ।

यौवनकालः[सम्पादयतु]

१७३० तमे वर्षे रामनाथपुरस्य राज्ञः चेल्ल्मुत्तुसेतुपतिः तथा चक्कन्ति अम्बा इत्यनयोः दम्पत्योः एकमात्रपुत्रीत्वेन जन्म प्राप्तवती वेलु नाच्चियार् । तथापि पुत्रः इव वर्धनं कारितं तस्याः । बहुभाषाः अधीतवती सा । १७४६ तमे वर्षे राज्ञः मुत्तुवडुगनाथस्य पत्नी अभवत् वेलु नाच्चियार् ।

आङ्ग्लेयानाम् आक्रमणम्[सम्पादयतु]

१७७२ तमे वर्षे युरोपीयानाम् आक्रमणेन बहूनि कष्ठानि आगतानि । ततः रक्षणं प्राप्तुं स्थलपरिवर्तनं कुर्वती भ्रमन्ती आसीत् । एतस्य आक्रमणस्य विरोधं सा चिन्तितवती । सा विरुप्पाच्ची नगरे उषित्वा हैदरलिना मिलित्वा उर्दुभाषया आङ्ग्लेयाणाम् विरोधकरणविषये सम्भाषणं कृतवती । सः तस्याः उर्दुभाषा नैपुण्यं दृष्ट्वा आश्चर्यम् अनुभूतवान् । तस्यै सर्वविधसाहाय्यं करोमि इति आश्वासनं दत्तवान् । ७ वर्षाणि यावत् सा दिण्डुक्कल् दुर्गे , विरुप्पच्चि दुर्गे , अय्यम्पाळयं दुर्गे च जीवनं यापितवती । एतन्मध्ये ८ वयस्का पुत्री अपि तया पालनीया आसीत् । मन्त्रिणः ताण्डवरायन् पिळ्ळै वर्यस्य साहाय्येन शिवगङ्गायाः जनानां प्रतिनिधयः तया सह सम्भाषणं कृत्वा कम्पनी विरुद्ध्य सेनां रचितवन्तः । मरुदु सहोदरौ एतस्याः सेनायाः आध्यक्षम् ऊढवन्तौ ।

आङ्ग्लेयानां नियमपरिवर्तनम्[सम्पादयतु]

पुरुषापत्यं नास्ति चेत् तत् राज्यम् सर्वाकाराधीनं भवति इति नूतननियमम् आङ्ग्लेयाः आनीतवन्तः । अतः राज्ञी मरुदुसहोदरयोः कृते शिवगङ्गायाः शासनदायित्वं दत्तवती आसीत् । कालान्तरेण तौ स्वतन्त्रराजौ इति आत्मानं घोषितवन्तौ । २० वर्षाणि यावत् सम्यक् शासनं कृतवन्तौ । अजीवनं शिवगङ्गाम् उत्तमरीत्या पालितवन्तौ इति उल्लेखार्हः विषयः ।

सेनासङ्ग्रहः[सम्पादयतु]

१७८० तमे वर्षे तुलामासस्य पञ्चमे दिने एका सेना दिण्डुकल् तः प्रस्थिता । हैदरली तां सेनां प्रति ५००० अश्वारोहिसैनिकान् , ५००० पदातिनः , एकां महाभुषुण्डीं च प्रेषितवान् । सेनया कालैयार् कोविल् जितम् । शिवगङ्गायां वेलु नाच्चियार् छद्मवेषेण सेनायां जीवत्यागं कृतवत्याः उडैयाळ् नामिकायाः सैनिकायाः स्मारकरूपेण वीरशिलाम् एकां संस्थाप्य स्वस्य माङ्गल्यम् अर्पयित्वा स्मरणाञ्जलीं समर्पितवती । एतत् मन्दिरं “ कोल्लङ्गुडी वेट्टुडै कालियम्मन् मन्दिरनाम्ना अधुना प्रसिद्धम् अस्ति । अन्त्ये शिवगङ्गानगरस्य विजयं प्राप्तुं चिन्न मरुदु , पेरिय मरुदु सोदरयोः आध्यक्षे सेना सङ्गृहीता । शिवगङ्गाराजभवने विजयदशमी-नवरात्री-उत्सवनिमित्तम् आगातानां जनानां मध्ये महिलासैनिकाः वेषं परिवर्त्य प्रविष्टवत्यः । तासु कुयिली नाम सैनिका स्वशरीरे अग्निं ज्वालयित्वा आङ्ग्लेयानाम् आयुधभाण्डारे पतितवती । तेषाम् आयुधानि नाशितवती । वेलु नाच्चियार् तस्याः ५०तमे वयसि यः तस्याः पतिं मारितवान् तं जोसेफ् स्मित्तं , सेनाधिपतिनं पान् जोरं च जितवती ।

अन्तिमदिनानि[सम्पादयतु]

१७९३ तमे वर्षे वेलु नाच्चियार् दौहित्र्याः मरणेन दुःखतप्ता अभवत् । अतः सा विरुप्पाच्चि राजभवने एव उषितवती । महायुद्धानि कृत्वा स्वराज्यं प्रतिप्राप्तवती वेलु नाच्चियार् १७९६ तमे वर्षे , डिसेम्बरमासस्य २५ दिनाङ्के जीवत्यागं कृतवती ।

शिवगङ्गां शासितवन्तः राजानाः[सम्पादयतु]

1. १७२८ -१७४९ मुत्तु विजयरघुनाथ उ. शशिवर्णत्तेवर् 2. १७४९ – १७७२ शशिवर्णविजयरघुनाथ मुत्तुवडुगनाथ पेरिय उडैयत्तेवर् 3. १७८० - १७८३ वीरमहिला राणि वेलु नाच्चियार् मुत्तुवडुगनाथ पेरिय उडैयात्तेवर् 4. १७८३ – १८०१ मरुदु पाण्ड्याः – पेरियमरुदु , चिन्न मरुदु च 5. १८०१ – १८२९ गौरीवल्लभ उडैयणत्तेवर् ( राजा मुत्तु वडुगनाथस्य बन्धुः ) राज्ञ्याः वेलु नाच्याः स्वीकार पुत्रः 6. १८२९ – १८३१ – उ . मुत्तुवडुगनाथत्तेवर् 7. १८३१ – १८४१ – मु . बोधगुरुसामित्तेवर् 8. १८६३ – १८७७ – बो . उडैयणत्तेवर् 9. १८४८ – १८६३ – मु . बोधगुरुसामित्तेवर् 10. १८६३ – १८७७ – राज्ञी कादमनाच्चियार् बोधगुरुसामि 11. १८७७ – मुत्तुवडुगनाथत्तेवर् 12. १८७८ -१८८३ – दुरैसिङ्गराजा 13. १८८३ – १८९८ – तु . उडैयणराजा १८९२ तमे वर्षे भूस्वामित्वपद्धतिं त्यक्त्वा ब्रिटिषजिल्लाधिकारी नियुक्तः । जे . एफ् . ब्रैयण्ट् प्रथमः जिल्लाधिकारी आसीत् । • १९१० तमे वर्षे रामनाथपुरप्रदेशं मधुरै तथा तिरुनेल्वेली प्रदेशस्य कांश्चन भागान् योजयित्वा निर्मितम् । आङ्ग्लेयानां काले राम्नाड् इति निर्दिष्टवन्तः । • स्वातन्त्र्यप्राप्तेः अनन्तरं १९८५ तमे वर्षे मार्चमासस्य १५ दिनाङ्के रामनाथपुरं त्रिधा विभक्तम् ।

"http://sa.wikipedia.org/w/index.php?title=वेलु_नाच्चियार्&oldid=238194" इत्यस्माद् पुनः प्राप्तिः