शङ्कर दयाल शर्मा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(शंकर दयाल शर्मा इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
श्रीशङ्कर दयाल शर्मा
Shankar Dayal Sharma
भारतस्य नवमः राष्ट्रपतिः
कार्यालये
२५/७/१९९२ – २५/७/१९९७
प्रधानमन्त्री नरसिंह राव
अटल बिहारी वाजपेयी
देवे गौडा
इन्द्र कुमार गुजराल
उपराष्ट्रपतिः के आर् नारायणन्
पूर्वगमः श्रीवेङ्कटरामन्
पादानुध्यातः के आर् नारायणन्
भारतीयः उपराष्ट्रपतिः
कार्यालये
१९८७/९/१९९८७ – २५/७/१९९२
राष्ट्रपतिः श्रीवेङ्कटरमन
पूर्वगमः श्रीवेङ्कटरमन
पादानुध्यातः के आर नारायणन्
महाराष्ट्रराज्यस्य राज्यपालः
कार्यालये
३/४/१९८६ – २/९/१९८७
मुख्यमन्त्री शङ्कर राव चव्हाण
पूर्वगमः कोना प्रभाकर राव्
पादानुध्यातः कासु ब्रह्मानन्द रेड्डि
पञ्जाबराज्यस्य राज्यपालः (भारतम्)
कार्यालये
२६/११/१९८५ – २/४/१९८६
मुख्यमन्त्री सुरजित सिंह बरनाला
पूर्वगमः होकिशे सेमा
पादानुध्यातः सिद्धार्थ शङ्कर राय
आन्ध्रप्रदेशराज्यस्य राज्यपालः
कार्यालये
२९/८/१९८४ – २६/११/१९८५
मुख्यमन्त्री नादेण्ड्ल भास्कर राव्
एन् टी रामा राव्
पूर्वगमः ठाकुर राम लाल
पादानुध्यातः कुमुदबेन मणिशङ्कर जोशी
व्यक्तिगत विचाराः
जननम् १९/८/१९१८
भोपाल-महानगरं, ब्रिटिशशासितभारतं
(अधुना मध्यप्रदेशराज्यं, भारतम्)
मरणम् २६/१२/१९९९ (८१ वयसि)
देहली-महानगरं, भारतम्
राजनैतिकपक्षः कोङ्ग्रेस-पक्षः
पतिः/पत्नी विमला शर्मा
अपत्यानि द्वौ पुत्रौ
एका पुत्री
मुख्यशिक्षणम् आगरा-विश्वविद्यालयः
आहरा-महाविद्यालयः
पञ्जाब-विश्वविद्यालयः
लखनऊ-विश्वविद्यालयः
फिट्विलियम्-महाविद्यालयः
हार्वर्ड्-विश्वविद्यालयः
धर्मः हिन्दुधर्मः
हस्ताक्षरम्

श्रीशङ्कर दयाल शर्मा (हिन्दी: शङ्कर दयाल शर्मा, आङ्ग्ल: Shankar Dayal Sharma) भारतगणराज्यस्य नवमः राष्ट्रपतिः । श्रीशङ्करः उपराष्ट्रपतित्वेन, राष्ट्रपतित्वेन च कार्यरतो भूत्वा दशवर्षाणि यावत् भारतमातुः सेवाम् अकरोत् । महात्मनः आरभ्य के पी सिंह पर्यन्तं उत्कृटैः नेतृभिः सह तेन कार्यं कृतम् । स्वतन्त्रतान्दोलनं, स्वतन्त्रताप्राप्तिः, देशस्य नवनिर्माणं, देशसेवाधारितराजनीतिः, स्वार्थपूर्तेः राजनीतिः च सर्वं तस्य नेत्रयोः सम्मुखं घटितम् आसीत् । कर्मठता, देशभक्तिः च तस्य शक्तिः आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

१९१८ तमस्य वर्षस्य 'अगस्त'-मासस्य एकोनविंशति(१९)तमे दिनाङ्के मध्यप्रदेशस्य भोपाल-महानगरे श्रीशङ्करस्य जन्म अभवत् । तस्य पित्रोः नाम खुशी लाल, सुभद्रा च । प्रथमपत्न्याः मृत्योः अनन्तरं खुशी लाल इत्यनेन पुनर्विवाहः कृतः । प्रथमपत्न्याः गर्भादेव श्रीशङ्करस्य जन्म अभवत् । खुशी लाल इत्यस्य द्वितीयपत्न्त्याः चत्वारः पुत्राः आसन् । तेषां नामानि क्रमेण शम्भु लाल, शिव दयाल, ईश दयाल, सोमेश दयाल च । आहात्य तस्य पञ्चपुत्राः आसन् । श्रीशङ्करस्य पिता शिवभक्तः आसीत्, अतः सः सर्वेषां पुत्राणां नामकरणं शिवनाम्ना अकरोत् । सामान्यतः विमातुः (stepmother) कारणेन बालकस्य बाल्यं सुखेन, आनन्देन च न गच्छति इति श्रूयते । परन्तु श्रीशङ्करस्य विमाता तं बहुना प्रेम्णा अपालयत् । कारणं श्रीशङ्करस्य विमाता सम्पत बाई तस्य मातुः (सुभद्रायाः) पितृव्यपुत्री (Cousin) एव आसीत् । सा श्रीशङ्करं पुत्रवदेव प्रेम अकरोत् । विदेशं गन्तुं यदा श्रीशङ्करः ऐच्छत्, तदा तस्य विमाता स्वसुवर्णाभूषणानि विक्रीय तस्मै धनम् अयच्छत् ।

शिक्षणम्[सम्पादयतु]

श्रीशङ्करस्य प्राथमिकशिक्षणं भोपाल-महानगरे अभूत् । 'इण्टरमीडिएट्'-शिक्षणं समाप्य उच्चशिक्षां प्राप्तुं भोपाल-महानगरात् आगरा-महानगरम् अगच्छत् सः । आगरा-महानगरस्य 'सेण्ट जॉन्स्'-महाविद्यालयात् 'बी ए' उपाधिं प्राप्य इलाहाबाद-महानगरे, लखनऊ-महानगरे च सः 'एम ए' उपाधिं प्रापत् । संस्कृतभाषा, हिन्दीभाषा श्रीशङ्करस्य प्रियभाषे आस्ताम् । तेन तयोः भाषयोः प्रावीण्यमपि प्राप्तमासीत् । लखनऊ-महाविद्यालयात् तेन एल् एल् बी इत्यस्य अध्ययनमपि सामापितम् आसीत् । छात्रकालादेव सः राजनीतिक्षेत्रे सक्रियः आसीत् । ततः एल् एल् बी इत्यस्य अधिकाध्ययनार्थं सः इङ्ग्लैण्ड-देशम् अगच्छत् । 'फिट्ज विलियम्'-महाविद्यालये 'डॉक्टरेट्' इति उपाधिं प्रापत् सः । ततः तेन लोकप्रशानस्य (public management) अध्ययनमपि कृतम् । रतनकुमार इति श्रीशङ्करस्य बालमित्रं स्वजीवन्यां श्रीशङ्करस्य ज्ञानपिपासायाः विषये अलिखत्, “श्रीशङ्करः प्रत्येकस्य विषयस्य गहनाध्ययनं करोति स्म इति तस्य ज्ञानवैशिष्ट्यस्य मूलकारणम् आसीत् । गभीरतया, गहनतया विषयस्य हार्दं ज्ञात्वा सः तद्विषये प्रावीण्यं प्राप्नोति स्म । एतत् सर्वं तस्य कृते सहजकार्यम् आसीत्” इति ।

राजनीतिप्रवेशः[सम्पादयतु]

छात्रकालादेव सः राजनीतिक्षेत्रे सक्रियः आसीत् । अतः विदेशात् भारतं पुनरागत्य सः राजनीतिक्षेत्रे पुनः सक्रियः अभवत् । विदेशात् आगमनानन्तरं बहुकालं यावत् लखनऊ-महानगरस्य महाविद्यालये डॉ. शर्मा अध्यापयति स्म । परन्तु भोपाल-महानगरस्य तस्य राजनैतिककेन्द्रत्वात् सः वारं वारं तत्र गच्छति स्म । राजनैतिकक्षेत्रे स्वस्य कृते अधिकाः अवसराः सन्ति इति विचिन्त्य १९४२ तमे वर्षे सः भारतस्वतन्त्रतान्दोलनाय योगदानम् अकरोत् । महात्मना उद्घोषिते “भारत छोडो”-आन्दोलने श्रीशङ्करः स्वयोगदानम् अयच्छत् । तस्मिन् आन्दोलने भागगृहीतॄन् अनेकान् क्रान्तिकारिणः आङ्ग्लाः कारागारं प्रैषयन् । तेषु क्रान्तिकारिषु श्रीशङ्करः अन्यतमः आसीत् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चविंशतिदिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभूत् । तत्कालीनः उपप्रधानमन्त्री सरदार वल्लभभाई पटेल "लघुराज्याणि भारते अन्तर्भवन्तु" इति न्यवेदयत् । परन्तु भोपालराज्यस्य राजा भारते अन्तर्भवितुं सिद्धः नासीत् । अतः लोहपुरुषस्य नेतृत्वे भोपालराज्ये विरोधसभा अभवत् । तस्यां सभायां श्रीशङ्करः अपि आसीत् । ततः विरोधं प्रदर्शयितुं श्रीशङ्करः एकस्याः पदयात्रायाः आयोजनम् अकरोत् । तेन कुपितः राजा तं कारागारं प्रैषयत् । जनसहयोगेन, लोहपुरुषस्य परिश्रमेण च १९४९ तमस्य वर्षस्य 'जून'-मासस्य प्रथमे दिनाङ्के भोपालराज्यं भारतदेशे अन्तरभवत् । १९५० तमे वर्षे कोङ्ग्रेस-पक्षस्य विधिवत् सदस्यता श्रीशङ्करेण प्राप्ता ।

१९७१ तमे वर्षे सः प्रथमवारं लोकसभायाः सदस्यः अभवत् । १९७२ तमे वर्षे सः कोङ्ग्रेस-पक्षस्य अध्यक्षपदं व्यभूषयत् । १९७४ तमे वर्षे इन्दिरा गान्धी द्वारा रचिते मन्त्रिमण्डले सञ्चारविभागस्य दायित्वम् अवहत् । १९८४ तमे वर्षे श्रीशङ्करः आन्ध्रप्रदेशराज्यस्य राज्यपालः अभवत् । तस्मिन् वर्षे पञ्जाबराज्ये भिण्डरवाला इत्यस्य आतङ्कः आसीत् । तस्य आतङ्कस्य दमनं कर्तुं इन्दिरा गान्धी इत्यनया ऑपरेशन् ब्लू स्टार् इत्यस्याः योजनायाः घोषणा कृता । तस्यां योजनायां सिक्खजनानां पवित्रतमं सुवर्णमन्दिरं ध्वस्तमभूत् । सुवर्णमन्दिरस्य ध्वस्तेन दुःखितौ इन्दिरा गान्धी इत्यस्याः सिक्ख-अङ्गरक्षकौ तस्याः हत्याम् अकुरुताम् । ततः राजीव गान्धी भारतस्य प्रधानमन्त्री अभवत् । तेन पञ्जाबराज्यस्य स्थितिः अवलोक्य आन्ध्रप्रदेशात् श्रीशङ्करः आहूतः । सः श्रीशङ्करं पञ्जाबराज्यस्य राज्यपालत्वेन अघोयत् । ततः महाराष्ट्रराज्यस्य राज्यपालत्वेनापि तस्य नियुक्तिः अभवत् ।

उपराष्ट्रपतित्वेन श्रीशङ्करः[सम्पादयतु]

महाराष्ट्रराज्ये यदा श्रीशङ्करः राज्यपालः आसीत्, तदा उपराष्ट्रतिपदं रिक्तम् अभूत् । सर्वैः नेतृभिः श्रीशङ्करः उपराष्ट्रपतित्वेन चितः । १९८७ तमस्य वर्षस्य 'सितम्बर'-मासस्य तृतीये दिनाङ्के उपराष्ट्रपतित्वेन श्रीशङ्करः शपथम् अकरोत् । उपराष्ट्रपतिः राज्यसभायाः अध्यक्षोऽपि भवति । स्वस्य वाक्पटुता-योग्यता-अनुभवैः राज्यसभायाः दायित्वम् ऊढं तेन । श्रीशङ्करः यदा उपराष्ट्रपतिः आसीत्, तदा चत्वारः प्रधानमन्त्रिणः तेन दृष्टाः । १९८७ तः १९९२ पर्यन्तं राज्यसभाध्यक्षत्वेन श्रीशङ्करस्य कार्यकालः राज्यसभायाः सुवर्णकालत्वेन परिगण्यते ।

राष्ट्रपतित्वेन श्रीशङ्करः[सम्पादयतु]

नरसिंह राव यदा प्रधानमन्त्री आसीत्, तदा राष्ट्रपतित्वेन श्रीवेङ्कटरामन् इत्यस्य कार्यकालः समाप्तः अभवत् । अतः १९९२ तमस्य वर्षस्य 'जून'-मासस्य अष्टादशे (१८) दिनाङ्के नरसिंह राव श्रीशङ्करस्य नाम राष्ट्रपतिप्रत्याशित्वेन अघोषयत् । परन्तु श्रीशङ्करस्य विरोधे अन्येषां प्रत्याशिनां नामानि विपक्षेण उद्घोषितानि । मेघालयराज्यस्य जी.जी. स्वैल इत्यस्य नाम 'मार्क्सवादी कम्युनिस्ट्'-पक्षेण उद्घोषितम् । तस्मिन् राष्ट्रपतिनिर्वाचने श्रीशङ्करस्य विजयः अभवत् । १९९२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः श्रीशङ्करेण राष्ट्रपतिपदस्य, भारतीयसंविधानस्य च गौरवरक्षणाय शपथम् अकारयत् ।

राष्ट्रपतित्वेन प्रप्रथमं भाषणं कुर्वन् श्रीशङ्करः अवदत्, “मम प्रियदेशवासिनः ! भारतगणराज्यस्य सर्वोच्चपदाय मम चयनं कृत्वा मह्यं बहुसम्मानः दत्तः भवद्भिः । अस्य पदस्य गौरवं डॉ. राजेन्द्र प्रसाद, सर्वपल्ले राधाकृष्णन्, जाकिर हुसैन सदृशाः महान्तः व्यक्तयः अवर्धयन् । अहं पूर्णबलेन अस्य पदस्य गौरवं रक्षितुं प्रयासं करिष्ये” इति । श्रीशङ्करः वारं वारम् एकं वाक्यं सर्वैभ्यः वदति स्म । सः वदति स्म यत्, “एषः देशः युवकेभ्यः, युवतीभ्यः, सर्वेभ्यः च विकासाय अवसरं यच्छति । भाटकस्य गृहे निवसितः मत्सदृशः जनः अपि भारतगणराज्यस्य सर्वोच्चपदे आरूढोऽभवत् इत्येव प्रमाणम्, इत्येव वैशिष्ट्यं च” इति ।

राष्ट्रपतित्वेन कार्यभारः[सम्पादयतु]

श्रीशङ्करस्य राष्ट्रपतित्वेन कार्यकालः बहु अस्तव्यस्तः आसीत् । तस्य कार्यकालस्य प्रथमे वर्षे एव १९९२ तमस्य वर्षस्य 'दिसम्बर'-मासस्य षष्ठे दिनाङ्के अयोध्यायां स्थितं बाबरी मस्जिद इति मुस्लिमजनानां प्रार्थनास्थानं ध्वस्तम् अभूत् । ततः आभारते साम्प्रदायिकहिंसा अभवत् । साम्प्रदायिकहिंसां स्थगयितुं श्रीशङ्करेण योग्यनिर्णयाः कृताः । ते निर्णयाः सफलाः अपि अभूवन् । राष्ट्रपतित्वेन श्रीशङ्करस्य कार्यकालस्य अन्तिमे वर्षे अर्थात् १९९६ तमे वर्षे भारतीयराजनीतेः अस्तव्यस्ततायाः स्थितिः आसीत् । १९९६ तमे वर्षे यत् निर्वाचनम् अभवत्, तस्मिन् कस्यापि पक्षस्य बहुमतं नासीत् । तस्मिन् निर्वाचने भारतीयजनतापक्षस्य संसदसदस्याः अधिकाः आसन् । अतः सः अटल बिहारी वाजपेयी इत्येनं मन्त्रिमण्डलं रचितुम् आह्वयत् । परन्तु दुर्भाग्यवशात् संसदि बहुमतं सिद्धे न जाते सति त्रयोदशदिनेषु एव [[[अटल बिहारी वाजपेयी|वाजपेयी]] द्वारा रचितस्य मन्त्रिमण्डलस्य विर्जनम् अभूत् । ततः देवे गौड अपि दशमासं (१/६/१९९६ तः ३०/३/१९९७ पर्यन्तं) यावत् प्रधानमन्त्रित्वेन कार्यम् अकरोत् । परन्तु ततः इन्द्र कुमार गुजराल प्रधानमन्त्री अभवत् । एवं स्वस्य कार्यकालस्य अन्तिमे वर्षे श्रीशङ्करः त्रिभिः संसद्सदस्यैः प्रधानमन्त्रिशपथम् अकारयत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य चतुर्विंशतितमे दिनाङ्के श्रीशङ्करस्य राष्ट्रपतित्वेन कार्यकालः पूर्णः अभवत् ।

श्रीशङ्करस्य जीवनं देशसेवायै एव आसीत् । तस्य व्यक्तित्वं सर्वदा देशयूनां मार्गदर्शनं करोति । श्रीरामस्वामी वेङ्कटरामन्-महोदयेन स्वस्य कार्यकालसमाप्त्यवसरे श्रीशङ्करस्य विषये यत् उक्तमासीत्, तेन श्रीशङ्करस्य व्यक्तित्वस्य बोधः भवति । १९९२ तमे वर्षे स्वस्य कार्यकालसमाप्त्यवसरे श्रीरामस्वामी वेङ्कटरामन् अवदत् ,

“It is a matter of deep personal satisfaction to me that Dr. Shankar Dayal Sharma has been elected the next President of India. An eminent scholar well versed in Sanskrit, an erudite jurist not only by learning but by his vast experience, a tried and tested veteran in the cause of nation integrity and unity and above all, a dedicated worked devoted to the welfare of weaker sections of society, Dr. Sharma brings to bear on the high office of the President all the qualities that would go to make his tenure an unequal success.”


मृत्युः[सम्पादयतु]

जीवनस्य अन्तिमेषु दिनेषु श्रीशङ्करः सन्धिरोगेण (Arthritis) ग्रस्तः अभवत् । तेन रोगेण तस्य मृत्युः तु नाभवत् । परन्तु तस्मात् रोगात् बहुपीडा सोढिता श्रीशङ्करेण । १९९९ तमे वर्षे एकाशीति-वर्षीयः श्रीशङ्करः देहम् अत्यजत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

राष्ट्रपतिः

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्

बाह्यानुबन्धः[सम्पादयतु]

http://rajbhavan.maharashtra.gov.in/previous/shankardayalsharma.htm

http://www.britannica.com/EBchecked/topic/538883/Shankar-Dayal-Sharma

http://pastpresidentsofindia.indiapress.org/sharma.html

http://www.madhyaindia.com/dr-shankar-dayal-sharma-ninth-president-of-india/

http://vicepresidentofindia.nic.in/sdsharma.asp

http://www.nehu.ac.in/Acts%20&%20Ordinances/OB.14.pdf

http://politics.jagranjunction.com/2011/08/19/former-president-dr-shankar-dayal-sharma-profile/

"http://sa.wikipedia.org/w/index.php?title=शङ्कर_दयाल_शर्मा&oldid=278178" इत्यस्माद् पुनः प्राप्तिः