शक्तिविशिष्टाद्वैतवेदान्तः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

शक्तिविशिष्टाद्वैतवेदान्तः (Shakti Vishishtadvaita) वेदान्तेषु अन्यतमः । शैवदर्शनानां विकासे एषः वेदान्तः महत्स्थानं प्राप्तः अस्ति । अस्य वेदान्तस्य वेदसम्मताः कामिकादिवातुलान्ताः २८ शिवागमाः मूलभूताः सन्ति । शैवसंस्कृतिः प्रागैतिहासिकसंस्कृतिः इति केशाञ्चन विद्वांसानाम् आशयः । ५००० वर्षेभ्यः पूर्वम् आसीत् इति इतिहासविदानाम् आशयः । शैवदर्शनं शिवागमे उक्तानि ३६ तत्त्वानि साहितम् अस्ति । एषा कल्पना श्री नन्दिकेश्वरशिवाचार्येण रचितायां माहेश्वरसूत्रकारिकायां निरूपिता अस्ति । काश्मिरस्य शैवदार्शनिकाः सोमानन्द-अभिनवगुप्तादयाः आगमाः वेदसमानाः इति अभिप्रयन्ति । आगमाः ईश्वरोक्ताः, नित्याश्च इति । आगमानाम् उगमपरम्परां सोमानन्दः (क्रि.श. ९००) स्वरचिते ’शिवदृष्टि’ नामके ग्रन्थे निरूपितवान् अस्ति ।

इतिहासः[सम्पादयतु]

शैवागमाश्रीतस्य लकुलीशपाशुपतदर्शनप्रवर्तकस्य लकुलीशस्य सम्बद्धाः शिलाभिलेखाः मथुरायां गुजरातराज्यस्य सोमनाथदेवालयेच उपलब्धाः सन्ति । श्रीसिद्धान्तम् अनुसृत्य शैवाद्वैत, शैवद्वैत, शैवद्वैताद्वैतवेदान्ताः प्रकाशिताः सञ्जाताः । एतेषां वेदान्तानां क्रमशः त्र्यम्बकः, अमर्दकः, श्रीनाथः च प्रवर्तकाः भवन्ति । शैवाद्वैतं द्विविधम् एकं पाशुपतदर्शनम्, अपरं सिद्धान्तशैवदर्शनम् । प्रथमदर्शनं बादरायणस्य प्रत्यधिकरणे निराकृतम् अस्ति । कामिकादितवातुलान्ताः २८ शिवागमाः ’सिद्धान्तः’ इति नाम । सिद्धान्तशैवः भोजदेवस्य तत्त्वप्रकाशिकाग्रन्थे प्रतिपादितम् अस्ति । शैवाद्वैतप्रतिपादकं शैवदर्शनं ’प्रत्यभिज्ञादर्शनम्’ इति व्यवहरन्ति । लकुलीश-पाशुपतदर्शनं ’शिवद्वैताद्वैत’ इति प्रथितम् अस्ति । पूर्वोक्तशैवदर्शनानाम् अपेक्षया विभिन्नम् । 'श्रीकण्ठशिवाचार्यस्य' विशिष्टाद्वैतस्य उपरि लकुलीशपाशुपतदर्शनस्य प्रभावः दृश्यते । श्रीकण्ठशिवाचार्यस्य विशिष्टाद्वैतस्य श्रीरामानुजार्यस्य विशिष्टाद्वैतस्य च तात्विकषु विचारेषु साम्यता अस्ति । श्रीपतिपण्डिताराध्यस्य ’विशिष्टाद्वैतम्’ नामकम् वीरशैवदर्शनं प्रमुखं भवति । अस्य दर्शनस्योपरि लकुलीशपाशुपतस्य, श्रीकण्ठस्य, श्रीरामानुजदर्शनस्य च प्रभावः सत्याम् अपि स्वदर्शनवैशिष्टैः सहितम् इदं दर्शनं ’शक्तिविशिष्टाद्वैतम्’ इति प्रख्यातम् अस्ति । श्रीकरभाष्ये प्रारम्भे उक्तौक्त्या अस्य दर्शनस्य वैशिष्ट्यं प्रतिपादितम् । तद्यथा,

श्रुत्यैकदेशप्रामाण्यं द्वैताद्वैतमतादिषु ।
द्वैताद्वैतमते शुद्धे विशेषाद्वैतसंज्ञके ।
वीरशैव्येकसिद्धान्ते सर्वश्रुतिसमन्वयः ॥

एषः एव सिद्धान्तः शिवशरणानां काले बसवेश्वरस्य, चन्नबसवेश्वरस्य, अल्लमप्रभोः, सिद्धरामस्य, तोण्टसिद्धलिङ्गेश्वरस्य च अनुभवेन परिष्कृत्य जनजनितषु वचनशास्त्रेषु प्रतिष्ठितम् अस्ति ।

तत्त्वस्वरूपम्[सम्पादयतु]

शक्तिविशिष्टाद्वैतदर्शने ’पति-पशु-पाश’ इति त्रयः पदार्थाः उक्ताः । पतिः नाम ब्रह्म अर्थः । पतिः केवल निर्गुणः न किन्तु चिदचित् शक्तिविशिष्टः भवति । अतः एनं तत्त्वं सकलम्, सकलनिष्कलम्, निष्कलम् इति च व्यवहरन्ति । पशुः (जीवः) शिवस्य अंशः शक्तिविशिष्टः च भवति । पाशो नाम जगत् । शिवादि पृथिव्यान्तं षड्-त्रिवंशत् तत्त्वात्मकम् इदम् । सत्यञ्च भवति । शिवांशरूपः जीवः षट्-स्थलमार्गात् परशिवः ब्रह्मसामरस्यं प्राप्नोति इति अस्य सिद्धान्तस्य मतम् । अस्य स्थूलस्वरूपं श्रीपतिपण्डितः स्वकृतभाष्ये ’अथ’ शब्दनिर्वचनसमये एवम् उक्तवान् अस्ति ,
निगमागमोभयवेदान्तप्रतिपादितः- भक्तिक्रियाज्ञानकाण्डत्रयविहित-स्थूलसूक्ष्मचिदचित्प्रपञ्चप्रकाशक-षट्स्थलपरशिवसाक्षात्कारकारण- बहुजन्मकृतशिवार्पितयजनयाजनतपोध्यानाद्यनेकपुण्यापूर्वफलक-शरीरत्रयगत-मलत्रयध्वंसक-कारुण्य-कल्याण-कैवल्य-विभूतित्रयक-अष्टावरण-पञ्चाचारसद्गुरु-करुणाकटाक्षलब्ध-शक्तिपाताद्यवच्छिन्नपरशिवेष्टलिङ्गधारणात्मक-पाशुपतदीक्षानन्तर्यामित्याथशब्दार्थो निर्णीयते[१] इति ।

शक्तिविशिष्टाद्वैतपदनिर्वचनम्[सम्पादयतु]

वीरशैवदर्षनेषु ग्रन्थेषु अस्य दर्शनस्य नामानि उक्तानि सन्ति, तानि,

  • शक्तिविशिष्टाद्वैतम्
  • विशेषाद्वैतम्
  • विशिष्टाद्वैतम्
  • शिवाद्वैतम्
  • द्वैताद्वैतम् /भेदाभेदम्
  • शिवयोगः
  • षट्स्थलम्

शक्तिविशिष्टाद्वैतम्[सम्पादयतु]

’शक्तिश्च शक्तिश्च शक्ती, ताभ्यां विशिष्टौ जीवेशौ, तयोरद्वैतम् इति । अत्रः शक्तिः चतुर्धा विभक्ता अस्ति । स्थूलचित्, स्थूल-अचित्, सूक्ष्मचित्, सूक्ष्म-अचित् इति भेदेन चतुर्धा । शक्तिश्च शक्तिश्च शक्ती इत्यत्र प्रथमशक्तिपदस्य स्थूलचिदचिदात्मकशक्तिः इति, द्वितीय शक्तिपदस्य सूक्ष्मचिदचिदात्मकशक्तिः इति अर्थः । स्थूलचित् नाम किञ्चिज्ञत्वम्, स्थूल-अचित् नाम किञ्चित् कर्तृत्वम्, एवं सूक्ष्मचित् नाम सर्वज्ञत्वम्, सूक्ष्म-अचित् नाम सर्वकर्तृत्वम् इत्यादि अर्थाः वर्णिताः । जीवः किञ्चिज्ञत्ववान्, किञ्चित्कर्तृत्वविशिष्टः च भवति । शिवः सर्वज्ञः, सर्वकर्तृत्त्वशक्तिविशिष्टः च भवति । स्थूलचिदचित् शक्तिविशिष्टस्य जीवस्य सूक्ष्मचिदचित् शक्तिविशिष्टस्य शिवस्य च अद्वैतमेव (सामरस्यमेव) शक्तिविशिष्टाद्वैतमिति ।

विशेषाद्वैतम्[सम्पादयतु]

विश्व शेषश्च विशेषौ शिवजीवौ, तयोः अद्वैतम्, विःपक्षिपरमात्मनोः, विः= शिवः, शेषः=शिवांशजीवः इति ।

विशिष्टाद्वैतम्[सम्पादयतु]

विशिष्टं च विशिष्टं च विशिष्टे-लिङ्गाङ्गे, तयोरद्वैतम् । अत्र प्रथमविशिष्टपदस्य चिच्छक्तिविशिष्टलिङ्गसंज्ञिकपरशिवः इति । द्वितीय विशिष्टपदस्य चित्तशक्तिविशिष्टशिवांशरूपाङ्गसंज्ञिकजीवः अर्थः । एतयोः उभयविशिष्टशक्योः लिङ्गाङ्गेषु जायमानमद्वैतमेव विशिष्टाद्वैतम् इति ।

शिवाद्वैतम्[सम्पादयतु]

शिवे अद्वैतं, शिवाद्वैतम् उत शिवश्च शिवश्च शिवौ, तयोरद्वैतम् एव शिवाद्वैतम् । शिवाद्वैतं तोण्टमठस्य सिद्धलिङ्गेश्वरश्वामिपादः स्ववचनामृते एवं वर्णितवान् अस्ति, तद्यथा,

ई षडु स्थलमार्गवु द्वैताद्वैतद परिवर्तनेयल्ल ।
अदेनुकारणवेन्दडे इदु शिवाद्वैतमार्गवाद कारण॥ इति (कन्नडभाषायां विद्यते)

अस्मिन् निषेधकृतं द्वैताद्वैतं षटस्थलेतरलकुलीशपाशुपतोक्तम् इति ।

द्वैताद्वैम्[सम्पादयतु]

भक्तादि शरणान्तपञ्चस्थलेषु शिव-जीवयोः, द्वैतसिद्धिः, ऐक्यस्थले "यथा नद्यः, इतिवत् अद्वैतसिद्धिश्च"[२] इति ।

शिवयोगः[सम्पादयतु]

’शिवे योगः शिवयोगः’[३]

षट्स्थलसिद्धान्तः[सम्पादयतु]

शिवदीक्षितः अङ्गः (साधकः) भक्तादि ऐक्यान्तेषु षट्स्थलेषु श्रद्धादि षट्भक्तीनां साधनेन लिङ्गाङ्गसामरस्य प्राप्तिः एव ’षट्स्थलसिद्धान्तः’ ।

मुख्यविषयः[सम्पादयतु]

पशुस्वरूपम्[सम्पादयतु]

अस्मिन् दर्शने पशुः नाम जीवः । पशुः शिवांशः शक्तिविशिष्टः च भवति । अस्य विशये वचनशास्त्रे एवं प्रतिपादितम् अस्ति, "अखण्ड ज्योतिर्मय महालिङ्गवेनिसिद परब्रह्मवु तन्न स्वलीला स्वतन्त्रतेयिन्द तन्न तानर्चिसि कोळ्ळुव ओन्दु लीला विलासदिन्द तन्न अखण्ड चिच्छक्तिय सहस्रांशदोळगोन्दु अंशवन्नु बेर्पडिसितु अदे आत्मवायितु "(कन्नडभाषायां विद्यते) इति । अखण्डज्योतिर्मयः महालिङ्गपरशिवब्रह्म स्व लीलया स्वतन्त्रेण लीलाविलासेन स्व अखण्डचिच्छक्त्या सहस्रांशेषु अंशतया विभक्तः । सः एव आत्मा इति वचनशास्त्रे प्रतिपादितम् । अस्य प्रतिपादकाः उक्तयः भवन्ति,

  • "यथा सन्दीप्तात् पावकात् विश्फुलिङ्गाः सहस्रशः प्रभवन्ते (सरूपाः) ।
तथाक्षरात् विविधाः सौम्यभावाः प्रजायन्ते तत्रचैवापियन्ति ॥[४]
  • ’अंशो नाना व्यपदेशात्’ [५]
  • ’अनाद्यविद्या सम्बन्धात् तदंशो जीवनामक:’

ममैवांशो जीवलोके जीवभूतस्सनातनः ॥ [६]
श्रीकरभाष्ये जीवस्वरूपम् एवं नीरूपितम् अस्ति । तद्यथा,
अनादि स्वाभाविकमायापाशबद्ध-घोरापारनिस्सारसंसार-व्यापारतापत्रयानलदन्दह्यमान-नानाशरीरप्रवेशनिर्गमनवर्णाश्रमाभिमान-विशिष्टकामक्रोधाद्यनुस्यूत-सुखदुःखाद्याश्रयत्वं जीवत्वम् इति ।
एनं विषयं वचनाश्त्रे एवं प्रतिपादितम् अस्ति ,
नीवु निम्मस्वलीलेयिन्द जगद लीलावैभवङ्गळ नटिसबेकेन्दु निम्मल्लि नेनहु दोरलु आ नेनहु निर्धरिसि चित्तेनिसितु इति

पतिस्वरूपम्[सम्पादयतु]

अस्मिन् दर्शने पतिः नाम प्ररब्रह्म भवति । अस्य पर्यायवाचकानि लिङ्गम्, स्थलम्, अकाशः, सहजम्, शून्यमिति च भवन्ति । एकमेवाद्वितीयसच्चिदानन्दलक्षणेन मिलितं शिवतत्त्वं ’स्थल(म्)’ इति संबोधयन्ति । शिवतत्त्वं सर्वेषां तत्त्वानां स्थितिलयानां स्थानभूतम् इत्यतः ’स्थल(म्)’ इति प्रथितम् अस्ति । उक्तञ्च आगमे,

स्थीयते लीयते यत्र जगदेतच्चराचरम् ।
तद्ब्रह्मस्थलमित्युक्तं स्थलतत्त्वविशारदैः ॥

शेरते अस्मिन् भुवनानि इति शिवः इत्युत्पत्या सकललोकानां आधारभूतवस्तुः इति अर्थं सूचयति । एनम् एव ब्रह्माणम् आगमाः ’लिङ्गम्’ इति प्रतिपादयन्ति ।

पाशस्वरूपम्[सम्पादयतु]

पाशः नाम जगत् । एतत् शक्तिविशिष्टः ब्रह्मणः परिणामश्च । परिणामः द्विवुधः, विकृतपरिणामः अविकृतपरिणामः च । पूर्वरूपपरित्यागपूर्वकरूपान्तरप्राप्तिः एव विकृतपरिणाम् । अधिष्ठानवस्तुनः अन्यथाभिव्यक्तिः एव विवर्तः इति नाम । अविद्या एव जगद्रूपं भवति । अत्र जगत् अविद्यायाः परिणामः भवति । ब्रह्मणः विवर्तः इति तु आद्वैतिनां सिद्धान्तः । अतः अविद्या जगच्च मिथ्या भवतः । किन्तु शिवाद्वैते शिवस्य शिवतत्त्वस्य च्युतिः नास्ति । शिवेणैव जगदुत्पत्तिः इत्यङ्गीकरणेन जगत् सत्यं भवति । घटं प्रति मृत् उपादनकारणं, कुलालः निमित्तकारणः भवति । ’स्वेच्छया स्वचित्ते विश्वमुन्मीलयति’ इति शक्तिसूत्रं, ’स्वशक्ति प्रचयोऽस्य विश्वम्’ इति शिवसूत्रं च जगत् शिवस्य परिणामः इति समर्थयतः । ’शक्त्या प्रपञ्चसृष्टिः स्यात्’ इति अनुभवसूत्रं परिणामवादम् एव पुष्टीकरोति । तद्यथा,

आत्मशक्तिविकासेन शिवो विश्वात्मना स्थितः ।
कुटिभावाद्यथा भाति पटः स्वस्य प्रसारणात् ॥[७]

शक्तिविशिष्टाद्वैतस्य भेदाभेदवादः[सम्पादयतु]

अस्मिन् सिद्धान्ते भेदाऽभेदवादं द्वैताद्वैतवादं च अङ्गीकृतम् अस्ति । अस्मिन् शिवशक्त्योः शिवजीवयोः च भेदाभेदं समर्थितम् अस्ति । तद्यथा,
एषा शक्तिः शिवा ह्येतच्छक्तिमानुच्यते शिवः ।
:शक्ति शक्तिमितोर्भेदं वदन्ति परमार्थतः ॥
अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥
शिवशक्त्योः भेदाभेदः पारमार्थिकः ।
सा ममेच्छा पराशक्तिरवियुक्ता स्वभावजा ।
वह्नेरूष्मेव विज्ञेया रश्मिरूपारवेरिव ॥
सर्वस्य जगतोर्वापि सा शक्तिः कारणात्मिका॥

  • शिवजीवयोः भेदाभेदसमर्थनम्-

शिवशक्त्योः भेदाभेदाः स्वाभाविकः तथैव शिवजीवयोः भेदाभेदः पारमार्थिकः भवति ।
यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाक्षराद्विविधाः साम्यभावाः प्रजायन्ते तत्रचैवापियन्ति ॥[८]

तत्त्वानि[सम्पादयतु]

  • शुद्धतत्त्वानि पञ्च- शिवः, शक्तिः, सदाशिवः, ईश्वरः, शुद्धविद्या च
  • मिश्रतत्त्वानि सप्त - माया, कला, विद्या, रागः, कालः, नियति, पुरुषः च
  • अशुद्धतत्त्वानि चतुर्विंशति भवन्ति ।
  • पकृति
  • बुद्धिः,अहङ्कारः, मनः च -अन्तःकरणत्रयम् ।
  • श्रोत्रम्, त्वक्, जिह्वा,नेत्रम्, घ्राणः च - ज्ञानेन्द्रियाणि ।
  • वाक्-पाणि-पाद-पायु-उपस्था च - कर्मेन्द्रियाणि ।
  • शब्द-स्पर्श-रूप-रस-गन्धः च -पञ्चतन्मात्राणि ।
  • आकाश-वायु-वन्हि-जल-पृथिवी च -पञ्चभूतानि ।

सृष्टिक्रमः[सम्पादयतु]

परशिवब्रह्म षट्त्रिंशत् तत्त्वात्मकतया परिणामो यथा भवति तत् निरूप्यते ।
शिवस्य इच्छाशक्त्येः ज्ञानशक्तिः अन्तरङ्गः भवति, क्रियाशक्तिः बहिरङ्गः भवति । ब्रह्म यदा इच्छाशक्तेः अन्तरङ्गस्य ज्ञानशक्तिं प्रविश्य ’सर्वज्ञोऽहम्’ इति अभिमानं प्राप्नोति तत् ’शिवतत्त्वं’ भवति । एषः एव यदा इच्छाशक्तेः बहिरङ्गस्य क्रियाशक्तिं प्रविश्य ’सर्वकर्ताहम्’ इति अभिमानं प्राप्नोति तत् शक्तितत्त्वं भवति । शक्तितत्त्वं इच्छाशक्तेः अन्तरङ्गज्ञानशक्तिं प्रविश्य ’अहमिदम्’ इति अभिमानं सम्प्राप्य तत् सदाशिवतत्त्वं भवति । इच्छाशक्तेः बहिरङ्गक्रियाशक्तिं प्रविश्य ’अहमिदम्’ इति अभिमानं सम्प्राप्य तत् ईश्वरतत्त्वरूपे परिणमति । पुनः शक्तितत्त्वं सागरतरङ्गन्यायानुसारं अभेदं प्राप्य, ’अहमिदम्’ इत्यत्र अहं इत्यस्य अहङ्कारस्य, इदं नामक प्रपञ्चस्य च अभेदज्ञानं सम्प्राप्य शुद्धविद्यातत्त्वं भवति । शुद्धविद्यातत्त्वं मयूराण्डरसन्यायेन भाविप्रपञ्चस्य निर्माणार्थं कारणीभूते सूक्ष्मपदार्थे अन्योन्याभावरूपभेदबुद्धिं प्राप्य ’मायातत्त्वं’ भवति । कला-अविद्यादि पञ्चतत्त्वानि पुरुषतत्त्वस्य आवरकाः भवन्ति । एतैः आवृतः पुरुषः ’कञ्चुकि’ भवति । परशिवस्य इच्छाशक्तियोगात् आविर्भूतः शिवांशः एव मायाशक्तौ प्रविश्य पुरुषतत्त्वो भवति । अस्य पुरुषतत्त्वस्य ’मायामल’ सम्बन्धात् अज्ञानं प्राप्य जीवः भवति ।

मालावरण[सम्पादयतु]

शिवांशः एव जीवः । अतः जीवस्य शिवे विद्यमनपूर्णत्वम् अज्ञानात् अपगत्य (आवृतो भूत्वा) ’अपूर्णोऽहम्’ इति अनुभवः भवति । तेन ’आणमल’ भवति । सर्वज्ञत्त्वम् अपगत्य ’किञ्चिज्ञोऽहम्’ इति अनुभवं प्राप्य ’मायामल’ भवति । सर्वकर्तृत्वम् अपगत्य ’किञ्चित्कर्ताऽहम्’ इति अनुभवं प्राप्य ’कार्ममल’ आवृतो भवति । पुरुषस्य किञ्चित्कर्तृत्वस्वरूपशक्तिः एव ’कलातत्त्वं’ भवति । किञ्चिज्ञत्वरूपशक्तिः एव अविद्यातत्त्वम्, अपूर्णत्वशक्तिः एव रागतत्त्वम्, अनित्यत्वरूपशक्तिः एव कालतत्त्वम्, अव्यापकशक्तिः एव नियतितत्त्वं च भवति । कार्योन्मुख्यगर्भिता इच्छाशक्तिः स्वगतज्ञानशक्ति क्रियाशक्तिषु च अन्योन्यभावरूपेण भेदबुद्धिप्रधानमायातत्त्वे प्रतिस्फुरति तदा प्रकृतितत्त्वं भवति । प्रकृतितत्त्वमेव सुख-दुख-मोहानां च कारणीभूतं भवति । सत्वरजस्तमोगुणानां साम्यावस्थां प्राप्य प्रकृतितत्त्वं भवति । एतत् बुद्धिदि अहङ्कारतत्त्वादारभ्य पृथिवीतत्त्व पर्यन्तं विद्यमानानां २३ तत्त्वानां कारणं भवति । चराचरात्मकसृष्टिरचना एवं भवति । एनं क्रमं अभियुक्तोक्तौ एवं प्रतिपादितम् अस्ति,
शक्त्यण्डमृत्पिण्डमुपाददानो मायाण्डचक्रभ्रमणक्रमेण ।

मूलाण्डदण्डेन मुहुर्विधत्ते ब्रह्माण्डभाण्डं भगवान् कुलालः ॥ इति ॥

प्रमाणानि[सम्पादयतु]

अस्मिन् सिद्धान्ते त्रीणि प्रमेयानि स्वीकृतानि । प्रत्यक्षम्, अनुमानम्, शब्दम् प्रमाणानि । एतानि विहाय अर्थापत्तिप्रमाणं स्वीकृतवन्तः इति ज्ञातम् अस्ति । वातूलतन्त्रस्य व्याख्याने गुब्बिमल्लणाचार्यः एनम् अंशं सूचितवान् अस्ति [९]। तद्यथा,
चत्वारि तानि मानानि प्रत्यक्षादीनि हे द्विजाः ।

प्रत्यक्षमनुमानं च शब्दार्थापत्तिरेव च ॥

संशयादिविनिर्मुक्ताचिच्छक्तिर्मानमुच्यते इति । संशयविपरीतज्ञानरहितां ज्ञानशक्तिं प्रत्यक्षमिति उपदिशन्ति । ’अनुमानां दृढव्याप्तौ परोक्षार्थावबोधकम्’ इति अनुमानं निर्दिशन्ति । आगमस्य अर्थं ज्ञातुम् आप्तः कः इति विवृतम् अस्ति । प्रत्यक्षादि प्रमाणैः सुनिश्चितार्थं यः ज्ञापयति सः एव परशिवः परमात्मेति । अस्मिन् परशिवस्य वाक्यानि नाम वेदागमेभ्यः परमप्रामाण्यम् अङ्गीकृतम् अस्ति । शिवः सर्वज्ञः चेत् दृश्यमानसृष्टिः असर्वज्ञा इति अर्थः भवति[१०] । एतदेव अर्थापत्तिप्रमाणमिति वदन्ति । एतेषु प्रमाणेषु उक्तेषु आगमस्य प्राधान्यम् अस्ति ।

मोक्षस्वरूपम्[सम्पादयतु]

अस्मिन् सिद्धान्ते परब्रह्मवस्तु लिङ्ग-अङ्गभेदेन विभक्तः अस्ति । ’अङ्ग(म्)’ इतिचेत् जीवात्मा .लिङ्ग(म्) इति चेत् परशिवः अर्थः। लिङ्गम् इति चेत् परशिवः । लिङ्गगतवादशक्तिकला अङ्गे भक्तिरूपेण तिष्ठति । शक्तिभक्त्योः समरसप्राप्तिः एव लिङ्गाङ्गसामरस्यम् इति प्रतिपादयन्ति । एतदैव मोक्षस्वरूपम् अस्मिन् सिद्धान्ते । मोक्षसाधनार्थं षट्स्थलसोपानानि प्रतिपादितानि सन्ति । जीवात्मा परामात्मरूपप्राप्तिः एव एषः साधनामार्गः भवति । अङ्गम् लिङ्गाय यत् अर्पयति सा एव भक्तिः । एषा एव मुक्तिः । मुक्तेः स्वरूपमेव महाघनलिङ्गम् । महाघनलिङ्गमेव अखण्डपरिपूर्णचैतन्यचित्स्वरूपम् । अङ्गस्य सच्चिदानन्दनित्यपरिपूर्णस्थितिः एव मुक्तिः । स्वप्राप्तिः भक्तिः एव स्वलीलानन्दविलासः । अतः वीरशैवसिद्धान्ते मोक्षस्वरूपो नाम सहजम्, शून्यम्, आकाशः(बयलु), निश्यून्यम् इति वर्णयन्ति । अस्मिन् आत्मा स्वलीलानन्दविलासे भवति । स्वलीलानन्दविलासक्रिया एव भक्तिः । स्वलीलानन्दक्रिया नाम ज्ञानम् । अनेन ज्ञायते भक्तिः नाम ज्ञानम् इति । एतदेव क्रियाज्ञानसामरस्यम् इति वर्णयन्ति । एतदेव मोक्षस्वरूपम् । एनां भक्तिं वीरशैवाः पञ्चमपुरुषार्थः इति वर्णयन्ति । मग्गमायिदेवाचार्यः भक्तेः स्वरूपम् एव निरूपितवान् अस्ति । तद्यथा,
(कन्नडभाषायां विद्यते पद्यम्)
भक्तिश्येशिवप्रसादजननीभवनं शिवन प्रसादवा

भक्तिगे जन्मभूमिविमलाङ्कुर बीजदवोल् परस्परु

व्यक्तमिदिन्तु नोळ्पोडदु ताने निरन्तरमप्प मुक्तिया

मुक्तिये शुद्धनिष्कळनिजैक्यपदम् ॥

मोक्षोपायः[सम्पादयतु]

अस्मिन् सिद्धान्ते बुध, बन्धकारणम्, मोक्षः, मोक्षोपायश्च चतुर्व्यूहान् प्रतिदितवन्तः । षट्स्थलमार्गः उपासनाप्रधानः सिद्धान्तः तथापि तत्त्वबद्धतया निरूपितम् अस्ति । अस्मिन् षट्स्थलमार्गे वीरशैवाः लिङ्गाङ्गानाम्, जगत्स्वरूपस्य च विषये प्रतिपादितवन्तः सन्ति । षट्स्थलसिद्धान्तदृष्ट्या आणवादिमलत्रयैः जीवः बन्धितः भवति । एषः एव बन्धः इति व्यवहारः अस्मिन् सिद्धान्ते । मलत्रयाणाम् एव बन्धकारणत्वम् अस्ति । जीवस्य लिङ्गाङ्गसामरस्यप्राप्तिः एव मोक्षः । जीवः लिङ्गधारणात्मकशिवदीक्षया मलत्रयैः विमुक्तोभूत्वा षट्स्थलमार्गे गमनमेव मोक्षोपायः ।

शक्तिपातः[सम्पादयतु]

संसारे हेयभावनया अत्मोपरि शिवकृपारूपः ’शक्तिपातः’ भवति । यस्य उपरि शक्तिपातः भवति तस्य मुक्तौ औत्सुक्यं भवति । एवं भवस्थितौ द्वैषः, शिवभक्तेषु, शिवशास्त्रेषु च भक्तिश्रद्धे उत्पत्स्येते । अस्याः प्रक्रियाः एव नाम ’शक्तिपातः’ इति । अविच्छिन् इदृशलक्षणान् गुरुः दृष्ट्वा जीवाय शिवदीक्षां ददाति[११] । दीक्षायाः विषये एवम् उक्तम्,
दीयते च शिवज्ञानं क्षीयते पाशबन्धनु ।
यस्मादतः समाख्याता दीक्षेतीयं विचक्षणैः ॥[१२]
पाशबन्धं विच्छेद्य शिवज्ञानदानम् एव दीक्षा ।

षट्स्थलसोपान-लिङ्गाङ्गसामरस्यम्[सम्पादयतु]

भक्तोद्धारिका भक्तिः । सा अङ्गम् आश्रित्य श्रद्धा, निष्ठा, अवधान-अनुभव-सामरस्य च प्रभेदान् सम्प्राप्य क्रमशः भक्त-महेश-प्रसादि-प्राणलिङ्गिशरण- एक्यनामेकेषु स्थलेषु अङ्गम् अग्रेसारयित्वा लिङ्गसामरस्यं प्राप्नोति । भक्तादि षट्स्थलानि अवान्तरैः भेदैः ४४ प्रभेदान् प्राप्नुवन्ति । अचारादीनि लिङ्गस्थलानि ५७ स्थलानि भूत्वा एकोत्तरशतस्थलानि (१०१) भवन्ति । पिण्ड्, पिण्डज्ञानादि ज्ञानशून्यान्तेषु एकोत्तरशतेषु स्थलेषु अनुभवानुष्ठाने कृत्वा अङ्गः अन्तिमे नदी समुद्रन्यायानुसारं लिङ्गाङ्गसामरस्यरूपां मुक्तिं प्राप्य अखण्डानन्दम् अनुभवति । अत्र श्रुतिरेव अमुं विषयम् एवं प्रतिपादयति,
यथा नद्यः स्यन्दमानाः समुद्रे अस्तङ्गच्छन्ति नामरूपे विहाय ।

तथा विद्यान्नामरूपाद्विमुक्तः परात्परम्पुरुषमुपैति दिव्यम् ॥

मुक्तिसाधनार्थं अष्टावरणनि, पञ्चाचाराः च अस्मिन् सिद्धान्ते उक्ताः सन्ति । वीरशैवानाम् सिद्धान्ते अष्टावरणमेव अङ्गम्, पञ्चाचाराः एव प्राणम् , षट्स्थलमेव आत्मा भवति । अनुभवोक्तिः एवं वर्णयति,
अष्टावरणविज्ञानी पञ्चाचारपरायणः ।

वैदिकं कर्म कुर्वीत ज्ञानैकफलसाधनम् ॥ इति ॥[१३]

अधाराः[सम्पादयतु]

  1. श्रीकरभाष्यम्, अ.१,सू.१
  2. श्रीकरभाष्यम् पु.सं.१७७,स.२
  3. शिवाद्वैतपरिभाषा
  4. मु.२.१.१
  5. ब्र.सू.२.३.४०
  6. भगवद्गीता १८.७
  7. सि.शि.परि.२०
  8. मुण्डकोपनिषत्
  9. प्रमाणचतुष्टयाणाम् आगमप्रमाणमेव च ।
    अतिशयप्रमाणमिति उदाहृतम् ॥ ’वातूलतन्त्रटीका’
  10. दृश्यमानमसर्वज्ञं कल्पयेत् सोपपादकम् ।
    पशुष्वेव पशुत्वाख्यं सर्वज्ञे शास्त्रतः स्थिते ॥
  11. शक्तिपातं समालोक्य दीक्षाया योजयेदमुम्, क्रियासारः, १.१४
    येषां शरीरिणां शक्तिः पतत्येव निवृत्तये ।
    तेषां तल्लिङ्गम्,औत्सुक्यं मुक्तौ, द्वेषो भवस्थिता ॥
    भक्तिश्च शिवभक्तेषु, श्रद्धातच्छासके शिवे ।
    एभिर्लक्ष्यैरविच्छिन्नैः शक्तिपातो महात्मभिः।
    अनुमेयः सदीक्षैश्च शक्तिपातानुसारतः।
  12. सि.श, ६-११
  13. क्रियासारः, ३,२६४

बाह्यानुबन्धाः[सम्पादयतु]