शतभिषा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते शतभिषानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् शतभिषानक्षत्रं भवति चतुर्विंशतितमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

शतभिषानक्षत्रम्

आकृतिः[सम्पादयतु]

शतभिषक्छतं ताराः - शतं ताराणां समूहः ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

गो सा सी सू - शतभिषानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

क्षत्रस्य राजा वरुणो वसिष्ठः शतभिषक् ।
तौ देवेभ्यः कृणुतो दीर्घमायुः शतं सहस्र भेषजानि धत्तः ।

तैत्तिरीयसंहितायां शतभिषङ्नक्षत्रमिन्द्रो देवताः इति उल्लिखितम् अस्ति । तन्नाम शतभिषानक्षत्रस्य स्वामी इन्द्रः । किन्तु तैत्तरीयब्राह्मणे शतभिषानक्षत्रस्य स्वामी वरुणः इति निर्दिष्टमस्ति । शतभिषनक्षत्रे शतं ताराः विद्यन्ते । अतः एव अस्य नक्षत्रस्य नाम सङ्ख्यायाः आधारेण निर्दिष्टमस्ति । तैत्तिरीयब्राह्मणे लिखितं यत् वरुणः क्षत्रियाणां राजा शतभिषा तस्य निवासस्थानम् इति । एतौ सज्जनेभ्यः दीर्घायुं प्रददाति ।

आश्रिताः पदार्थाः[सम्पादयतु]

वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः ।
सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥

पाशिकाः । पाशा बन्धनरज्जवः । पाशैः प्राणिनो बध्नन्तीति पाशिकाः । मत्स्यबन्धो मत्स्यान् मीनान् बध्नाति यः । जलजानि जलोद्भवानि सर्वद्रव्याणि मुक्ताफलादीनि । जलचराजीवाः । जलचरैर्मत्स्यादिभिर्ये आजीवन्ति । सौकरिकाः । सूकरान् वराहान् ये बध्नन्ति । रजका वस्त्ररागकर्तारः । शौण्डिकाः पानसक्ताः । शाकुनिकाः शकुनीन् घ्नन्तीति शाकुनिकाः पक्षिघातिनः । एते सर्व एवास्मिन् वर्गे वरुणेशे शतभिषजि ।

स्वरूपम्[सम्पादयतु]

समरारम्भविभूषणगजबलतुरगोष्ट्र्शस्त्रनावाद्यम् ।
मुक्ताफलरजतमयं वरुणर्क्ष्ये वास्तुकर्माद्यम् ॥

शतभिषानक्षत्रे युद्धस्य आरम्भः, आभूषणम्, गजः, सेना, अश्वः, उष्ट्रः, शस्त्रम्, नौका, मौक्तिकम्, रजतम्, वास्तु इत्यादिसम्बद्धानि कार्याणि कर्तुं शक्यन्ते ।

चरसंज्ञकनक्षत्राणि[सम्पादयतु]

श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥ श्रवणत्रयं [[श्रवणा|] धनिष्ठा शतभिषगिति । आदित्यं पुनर्वसुः । आनिलं स्वातिः । ते आदियानिले च । एतानि पञ्च नक्षत्राणि । तानि च चरकर्मण्यस्थिरे कर्मणि हितानि प्रशस्तानि ।

पश्य[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=शतभिषा&oldid=244023" इत्यस्माद् पुनः प्राप्तिः