शत्रुञ्जयपर्वतः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
शत्रुञ्जयपर्वतः
शत्रुञ्जयपर्वतः
Satrunjaya Stairway.jpg
शत्रुञ्जयपर्वतस्य सोपानानि
स्थानम्
स्थानम् पालिताणा, भावनगरमण्डलम्, गुजरातराज्यम्

शत्रुञ्जयपर्वतः (गुजराती: શત્રંજય, आङ्ग्ल: Shatrunjaya) गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे भावनगरमण्डले पालिताणा इत्यस्मात् पत्तनात् ७.८ कि.मी. दूरे अस्ति । अस्य दक्षिणे खम्भातस्य समुद्रकुक्षिः (Gulf of Khambhat) (ખંભાતનો અખાત), उत्तरे भावनगरम् अस्ति । एषः पर्वतः शत्रुञ्जीनदीतीरे अस्ति । समुद्रतलात् ६४६ मी. उन्नतः एषः पर्वतः । अस्मिन् पर्वते निर्मितानां मन्दिराणां, तथा बिहार, ग्वालियर्, मौण्ट् अबु एवं गिरनारपर्वते विद्यमानानां मन्दिराणां निर्माणशैली समाना अस्ति । एषः पर्वतः प्रप्रथमजैनतीर्थङ्करेण भगवता ऋषभदेवेन पवित्रीकृतः । अस्य पर्वतस्य शिखरे स्थिते मन्दिरे एव ऋषभदेवेन प्रप्रथमं प्रवचनं दत्तम् आसीत् । शत्रुञ्जयपर्वतस्य पुण्डरीकगिरिः, सिद्धक्षेत्रम् इत्येते नामान्तरे प्रचलिते स्तः ।

शत्रुञ्जयः जैनतीर्थक्षेत्रम्[सम्पादयतु]

शत्रुञ्जयपर्वते मन्दिरसमूहोSस्ति । अत्र जैनमन्दिराणि प्रायः सङ्गमर्मराख्यप्रस्तरैः (white marble stone) निर्मितानि सन्ति । अपि च तेषु कुशलशिल्पिभिः देवादीनां, हस्त्यादिपशूनाम्, अप्सरसादीनां विविधाकृतीनां शिल्पकलाः रचिताः भवन्ति । प्रप्रथममन्दिरस्य स्थापना कदा जाता इत्यस्य निश्चयः तु नास्ति । परन्तु तत् ११ तमशताब्द्यां निर्मितं स्यात् इति शोधकर्तॄणाम् अनुमानम् । आक्रमणे ध्वस्तानां मन्दिराणां पुनर्निर्माणकार्यम् अपि काले-काले जातम् अस्ति, यत् कार्यं १६ शताबद्यां स्यादिति अनुमानम् । विविधाक्रमणेषु सत्स्वपि मन्दिरणां स्थापत्यकला, शिल्पकला विशिष्टतया अद्यापि सुरक्षिता वर्तते । विद्यमानेषु प्रमुखमन्दिरेषु आदीश्वर-चतुर्मुख(चौमुख)-विमलशाहमन्दिराणां समावेशो भवति । सर्वाणि मन्दिराणि शिल्पस्तम्भैः, स्थरत्यपूर्णसुन्दरप्रस्तरनिर्मिततोरणैः तथा विशिष्टकलाभिः शोभन्ते ।

विमानमार्गः[सम्पादयतु]

अत्र समीपस्थं विमानस्थानं ५६ कि.मी. दूरे भावनगरे अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

भावनगरात्, अहमदाबाद्नगरात् चात्र साक्षात् धूमशकटयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

अयं पर्वतः भावनगरात् ५६ कि.मी., अहमदाबाद-तः २१५ कि.मी., मुम्बई-तः ६४० कि.मी. दूरे अस्ति । एतेभ्यः नगरेभ्यः पर्वतं प्राप्तुं 'बस्'यानानि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

ऋषभदेवः तीर्थङ्करः

जैनमतम्

शिल्पकला

स्थापत्यकला

"http://sa.wikipedia.org/w/index.php?title=शत्रुञ्जयपर्वतः&oldid=278055" इत्यस्माद् पुनः प्राप्तिः