शाकाम्भरीजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पीठिका[सम्पादयतु]

पुष्यपूर्णिमायां शाकाम्भरीजयन्तीम् आचरन्ति । बनद हुण्णिमे इत्यत्पि उत्तरप्रदेशम ,कार्णाटाकराज्ये कथयन्ति । शाकाम्भरीपूर्णिमादिने आदिशक्तिरूपधारणायाः तारकरूपस्य लयकारि तत्त्वं ब्रह्माण्डे भ्रमणं कुर्वत् भवति । एतत् तत्त्वं जीवस्य मनःशक्तिरूपि धारणं जागरयन् जीवनस्य विशिष्टम् अध्यात्मध्येयं स्मारयति । इयं पूणिमा प्राणशक्तिदायिनी अपि अतः अनेकेषां रोगाणाम् उपशमनम् अपि करोति । अस्मिन् दिने लयकारिभावस्य तारकशक्तिरूपस्य तत्त्वं देहमूलस्य रजतामात्मकं धारणं नाशयति । जैनमातावलम्बिनः इमां पूर्णिमां विशेषरूपेण आचरन्ति । भारतदेशस्य छत्तीसगढस्य जनाः छेरता इति कञ्चन उत्सवम् अस्मिन् दिने महता वैभवेन आचरन्ति । नवधान्यानां पायसम् इत्यादीनि भक्ष्यानि कृत्वा सामूहिकं भोजनं कुर्वन्ति । बालानां गणः ”बोल छेर छेरता काठी के धान हेर लरिका” इति हिन्दिभाषया वदन् गृहात् गृहम् अटति ।

"https://sa.wikipedia.org/w/index.php?title=शाकाम्भरीजयन्ती&oldid=472980" इत्यस्माद् प्रतिप्राप्तम्