शारदा देवी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
शारदा देवी
সারদা দেবী

पवित्रमाता शारदा देवी
जन्मतिथिः क्रि.श. १८५३तमवर्षे डिसेम्बर् मासस्य २२तमे दिनम् ।
जन्मस्थानम् जयरामवटी, बङ्गालराज्यम्, भारतम्
पूर्वाश्रमनाम शारदामणि मुख्योपाध्याय
मृत्युतिथिः क्रि.श. १८२०तमवर्षे जुलैमासस्य २१तमे दिनम् ।
मृत्युस्थानम् कोलकतायां उद्बोधनकार्यालयः ।
गुरुः/गुरवः रामकृष्णपरमहंसः
तत्त्वचिन्तनम् वेदान्तः
उक्तिः यत्र अस्ति तत्रैव यदि मनः शान्तं भवति तर्हि तीर्थयात्रायाः आवश्यकता नास्ति ।

जीवनम्[सम्पादयतु]

श्रीमाता शारदा देवी भारतदेशस्य बङ्गालराज्यस्य जयरामवटि इति ग्रामे क्रि.श. १८५३तमवर्षे डिसेम्बर् मासस्य २२तमे दिने अजायत । पिता सम्प्रदाययुतः विप्रः रामचन्द्र मुख्योपाध्यायः माता श्यामासुन्दरी च । पञ्चवर्षीयायाः शारदायाः विवाहः २३वर्षस्य यूना रामकृष्णेन सह अभवत् । (तदानीन्तबाल्यविवाहः अद्यतनस्य विवाहनिश्चयेन समः इति स्मार्यताम्) तस्मिन् काले श्रीरामकृष्णः आध्यात्मिकसाधनायां निमग्नः आसीत् । स्वस्य अष्टादशमे वयसि शारदादेवी दक्षिणेश्वरस्य कालिकामन्दिरम् आगच्छत् श्रीरामकृष्णः यत्र अर्चकः असीत् । एतां प्रीत्यादरपूर्वकम् अभ्युद्यतः श्रीरामकृष्णः तस्यै लौकिकम् आध्यात्मिकं च शिक्षां दत्तवान् । श्रीरामकृष्णः शारदादेवीं मातृभावेन पश्यति स्म । किन्तु शारदा देवी तस्य आध्यात्मिकोपलब्धये अवरोधं न कृतवती । तस्य उपलब्धेः साहय्यरूपेण स्वजीवनपथं निरूपितवती । रामकृष्णः फलहारिण्याः कालिकायाः पूजायाः अवसरे पत्नीं शारदादेवीं श्रीदुर्गा इति भावनया अपूजयत् ।

जनसेवा[सम्पादयतु]

श्रीरामकृष्णस्य दर्शनार्थम् आगन्तॄणाम् आशनवासादिव्यवस्थां कुर्वती, जपतपादिभिः शारदायाः जीवनं चलति स्म । जीवने अनुभूतदुःखानां महिलानां सान्त्वनं कुर्वती सर्वासां मात एव अभवत् । रामकृष्णपरमहंसस्य कैवल्योत्तरं तेन निर्मितस्य अध्यात्मसाम्राज्यस्य संरक्षणम् सञ्चालनम् , भक्तानां साधकानां च मार्गदर्शनम् इत्यादीनि दायित्वं निरवहत् । सन्न्यासी, गृहस्थः, दीनः, धनिकः, वृद्धः, पतितः, पावनः, इति भेदम् अपरिगणय्य सर्वेषु वात्सल्यम् असिञ्चत् । क्रि.श.१९११तमे वर्षे दक्षिणभारतस्य तीर्थयात्रां कुर्वती बेङ्गळूरुमहानगरम् आगत्य बसवनगुडि श्रीमकृष्णमठं सन्दृष्टवती । यत्र उपविश्य एषा भक्तानाम् आशीर्वचनं कृतवती । शारदादेव्याः ध्यानस्य शिलासनम् इदानीं भक्तानां पुण्यस्थानम् अस्ति । एषा क्रि.श. १९२०तमे वर्षे जुलैमासस्य २१तमे दिने स्वशरीरम् अत्यजत् ।

जीवनादर्शः[सम्पादयतु]

शारदामातुः सामान्यं जीवनं तु कर्मयोगस्य श्रेष्टं व्याख्यानम् इव अस्ति । तदानीन्तनकाले जातिपद्धतिः, अस्पृश्यता, डम्भाचारः इत्यादिनां सामजिकमालिन्यानां मध्ये स्वस्य मातृप्रेम्णा असङ्ख्यभक्तानां सान्त्वनं कृतवती । स्वामी विवेकानन्दः, महर्षिः अरविन्द घोषः, आचार्यः रजनीशः इत्यादयः चिन्तकाः शारदायाः जीवनं तु आधुनिकमहिलाभिः अपि अनुसरणयोग्यम् इति अवदन् । पत्रसञ्छन्नपुष्पम् इव अध्यात्मिकं सौरभं प्रसारितवत्याः नाम्नि श्रीशारदामठः इति सन्न्यासिनीनां कश्चन सङ्घः लोकमुखे उद्भूतः ।

अस्याः विषये ग्रन्थाः[सम्पादयतु]

शारदोक्तयः[सम्पादयतु]

  • यदि मनसः शान्तिम् इच्छति कस्मिंश्चिदपि दोषं नान्विषतु । जगति कोऽपि अन्यः नास्ति सर्वे भवदीयाः एव ।
  • भवान् यं स्निह्यति तस्मात् किमपि न निरीक्षतु । यदि इच्छाति केचन अधिकं यच्छन्ति । केचन अल्पम् । तदा भवतः प्रीतिः अपि तेषां दानानुगुणं भवति । तदा सर्वान् समानदृष्ट्या वीक्षितुं नैव शक्नोति ।
  • यदि यत्रास्ति तत्रैव शान्ता तर्हि तीर्थयात्रायाः आवश्यक्ता एव नास्ति ।
  • मनः सर्वपीडानां कारणम् इति चिन्तयति वा मनसः साहाय्यं सर्वदा आवश्यकं भवति । शुद्धं मनः एव सन्मार्गदर्शकं भवति ।
  • भगवन्तं न दृष्टवान् चेदपि सः अस्मदीयः इति वक्तुं शक्नोति चेत् तदे तस्य कृपा भवति ।
  • प्रामाणिकप्रीत्या विना भगवतः दर्शनं न शक्यते । भगवन्तं प्रीत्या स्निह्यतु । तत् अन्यदृग्गोचरः भवेदिति नास्ति ।
  • सत्कार्ये यशः निरीक्षयते चेत् कार्यबद्धता निरन्तरपरिश्रमः च आवश्यकः ।
  • श्रद्धा निष्ठा चेत्यादयः अद्याः, यदि शुद्धं मनः भवति तर्हि धारणा, तपः ध्यानं कोतो न सिध्यति ?

"

"http://sa.wikipedia.org/w/index.php?title=शारदा_देवी&oldid=262691" इत्यस्माद् पुनः प्राप्तिः