शिक्षा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते

ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्

तस्मात्साङ्कमधीत्यैव ब्रह्मलोके महीयते ।।

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ॥
शिक्षा उक्तेषु षड् वेदाङ्गेषु अन्यतमः । शिक्षा इत्यस्य पदस्य अभ्यसनम् इत्यर्थः । अक्षराणां स्थानप्रयत्नोच्चारणान्यधिकृत्य शिक्षायां प्रतिपाद्यते । "शिक्षन्ते=वेदनया उपदिश्यन्ते स्वरवर्णादयो यत्रासौ शिक्षा" इति सायणाचार्याः शिक्षां निब्रुवते ।

येन शास्त्रेण वेदमन्त्राणां शुद्धोच्चारणे सारल्यं साहाय्यं च भवति तच्छास्त्रं शिक्षेति कथ्यते । अर्थात्, स्वरवर्णादीनाम् उच्चारणनियमबोधयित्री विद्या शिक्षेत्यभिधीयते । वेदेषु सर्वत्र स्वरप्राधान्यं भवत्येव, स्वरभेदेनार्थभेद-सम्भवात् । इदं स्वरज्ञानं शिक्षाधीनं भवति । अत एव शिक्षाशास्त्रस्य वेदाङ्गता सुतराम् उपपद्यते, यतः अशुद्धोच्चारणेन महाननर्थः भवति । यथोक्तं पाणिनीयशिक्षायाम्,
मन्त्रो हीनः स्वरतो वर्णतो वा,

मिथ्या प्रयुक्तो न तमर्थमाह ।

स वाग्वज्रो यजमानं हिनस्ति,

यथेन्द्रशत्रुः स्वतोपराधात् ॥

बहुश्रुतमस्ति आख्यायिकेयं यत् विश्वरूपनामके त्वष्टुः पुत्रे इन्द्रेणाहते सति रुष्टस्त्वष्टा इन्द्रस्य हन्तारं पुत्रम् उत्पादयिषुः आभिचारिकं यागं कृतवान् । तत्र ’इन्द्रशत्रुर्वर्धस्व’ इति मन्त्रः ऊहितः, तत्र तत्पुरुषप्रयुक्तान्तोदात्तत्वे कर्तव्ये बहुब्रीहिप्रयुक्तः आद्युदातः, ऋत्विजा प्रयुक्तः इत्यर्थान्तराभिधानाद् इन्द्रेण सोऽपि हतः । अतः मन्त्रेषु स्वरदोषः वर्णदोषः वा कथमपि न भवेदिति उपस्थापयन् महर्षिः पाणिनिः आह, मन्त्रः इति । स्वरतः स्वरेण, वर्णतः वर्णेन अक्षरेण वा हीनः, रहितः मन्त्रः मिथ्याप्रयुक्तः सन् तम् अभीप्सितम् अर्थं न आह । स मन्त्रो वाग्वज्रं भूत्वा यजमानं हिनस्ति घातयति । अनिष्टावाप्तिं करोतीति । यथा स्वरस्य अपराधात् ’इन्द्रशत्रुः’ इन्द्रशत्रुशब्दः यजमानं हिनस्ति हिंसितवान् इत्यर्थः । ननु स्वरादीनां सम्यगुच्चारणाभावे ऋत्विजां दोषः इति ऋत्विगादि कृतहोमाद्यजमाने धर्मोत्पत्तिरिव तत्कृतापशब्दप्रयोगाद् यजमाने प्रत्यवायोत्पत्तिरिति स्वीकारात् । शिक्षा नाम यया मन्त्राणां पदवर्णमात्रास्वरादिज्ञानं वर्णोच्चारणविधिपरिज्ञानपूर्वकस्थानादिपरिचयश्च भवति । तदाहु ऋग्वेदभाष्यभूमिकायाम् सायणाचार्याः,
"शिक्षां व्याख्यास्यामः । वर्णः स्वरः मात्रा बलं साम सन्तान इत्युक्तः शिक्षाध्यायः" इति॥[१] वर्णोऽकारादिः । स च अङ्गभूतशिक्षाग्रन्थे स्पष्टमुदीरितः "त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः सम्भावतो मताः । प्राकृते संस्कृते च अपि स्वयं प्रोक्ताः स्वयम्भुवेत्यादिना । स्वर उदात्तादिः, सोऽपि तत्रोक्तः "उदात्तश्चाऽनुदात्तश्च स्वरितश्च स्वरास्त्रयः" इति । मात्रा ह्रस्वादिः, सापि तत्रोक्ता "ह्रस्वो दीर्घः प्लुत इति । कालतो नियमा अचीति । बलं स्थानप्रयत्नौ, तत्राऽष्टौ स्थानानि वर्णनामित्यादिना स्थानमुक्तम् । "अचोऽस्पृष्टा यणस्त्वीषदित्यादिना प्रयत्न उक्तः । सामशब्देन साम्यमुक्तम्, अतिद्रुतातिविलम्बितगीत्यादिदोषराहित्येन माधुर्यादिगुणयुक्तत्वेनोचारणं साम्यम् । "गीती शीघ्री शिरः कम्पीत्यादिनोपांशु दष्टं त्वरितमित्यादिना दोषाः उक्ताः । "माधुर्यमक्षरव्यक्तिरित्यादिना" गुणाः उक्ताः । सन्तानः संहिता, वायवायाहीत्यत्रावादेशः, इन्द्राग्नी आगतमित्यत्र प्रकृतिभावः, एतच्च व्याकरणेऽभिहितत्वात् शिक्षायाम् उपेक्षितम् । शिक्ष्यमाणवर्णादिवैकल्ये बाधस्तत्रोदाहृतः "मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तः इत्यादिना इति ।
इत्यादिना वेदाऽभ्यासोपकारितया वेदाङ्गत्वं शिक्षादीनामुपपद्यते । तत्र "शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्" - इत्याद्युक्तदिशा शिक्षायाः घ्राणत्वप्रतिपादनेनाऽतीवावश्यकत्वमङ्गीकृतम्, यद्यपि शरीरस्थोच्चस्थानगतं मुखस्थानीयं व्याकरणं तथापि नासिकया मुखोपरि स्थित्या तत्स्थानाऽपन्ना शिक्षैव सर्वोपरिवरीवर्ति, पदसाधुत्वमात्रविधायकं व्याकरणम् उच्चारणादिविधिहीनं सत् नासिकाविरहितं मुखमिव न शोभते इति शिक्षायाः वेदनासिकात्वमाञ्जस्येन सयुक्तिकं सम्पद्यते ।

प्रातिशाख्यानि[सम्पादयतु]

प्रातिशाख्यानि शिक्षाणां पूर्वरूपाणि । किन्तु तानि वेदाङ्गसंज्ञया न व्यवह्नियन्ते । शैनकेन विरचितं ऋग्वेदप्रातिशाख्यं प्रातिशाख्येषु विशिष्यते । एतत् जर्मनीयैः पण्डितैः मुद्रयित्वा प्रकाशितम् अस्ति । पदप्रकृतानिप्रातिशाख्यानि, एतदतिरिक्तं प्रातिशाख्यग्रन्थेषु, शिक्षा-व्याकरण-छन्दसां नियमाः विवेचिताः सन्ति । कस्याः शाखायाः नियमविशेषः कः, इति प्रदर्शनम् एव प्रातिशाख्यग्रन्थानां प्रयोजनमस्ति । अर्थात् शिक्षा-व्याकरण-छन्दसां समाहारः एव प्रातिशाख्यग्रन्थः । इमे प्रातिशाख्याः संहिताभेदेन शाखाभेदेन वा विभिन्नाः वर्तन्ते । यथा ऋग्वेदस्य ऋक्प्रातिशाख्यम्, यजुर्वेदस्य वाजसनेयिप्रातिशाख्यम्, तैत्तिरीयप्रातिशाख्यम्, सामवेदस्य ऋक्तन्त्रम्, पुष्यसूत्रप्रातिशाख्यं तथा अथर्ववेदस्य शौनकीयाप्रातिशाख्यम्, अथर्ववेदप्रातिशाख्यञ्च सुप्रसिद्धाः प्रातिशाख्यग्रन्थाः सन्ति ।


शिक्षा ग्रन्थाः[सम्पादयतु]

शिक्षायाः प्राचीनाः ग्रन्थाः प्रातिशाख्यरूपेण समुपलभ्यन्ते । सर्वेषां वेदानां प्रातिशाख्यग्रन्थाः भिन्नाः सन्ति । तैत्तिरीयोपनिषदः शिक्षावल्ल्यां शिक्षाशास्त्रस्य प्रयोजनमुल्लिखितमस्ति, "अथ शिक्षां व्याख्यास्यामः, वर्णः, स्वरः, मात्रा, बलम्,साम,सन्तान, इत्युक्तः शिक्षाध्यायः ।" अत्र वर्णः अकारादिः, स्वरस्तु उदात्तादिः, मात्रा ह्रस्वादिकाः बलमुच्चारणस्थानं ताल्वादिकम् । साम निषादादिः, सन्तानो विकर्षणादिः ।

  1. अमोघनन्दिनी शिक्षा
  2. अपिसाली शिक्षा
  3. अरण्य शिक्षा
  4. आत्रेय शिक्षा
  5. भारद्वाज शिक्षा
  6. चन्द्रशिक्षा
  7. कालनिर्णय शिक्षा
  8. कात्यायनी शिक्षा
  9. केशवी शिक्षा
  10. लघुमोघनन्दिनी शिक्षा
  11. लक्ष्मीकान्त शिक्षा
  12. नारदीय शिक्षा
  13. पाराशरी शिक्षा
  14. प्रतिशाख्यप्रदीप शिक्षा
  15. सर्वसम्मत शिक्षा
  16. शम्भु शिक्षा
  17. षोडषाश्लोकी शिक्षा
  18. शिक्षासंग्रह
  19. सिद्धान्त शिक्षा
  20. स्वराष्टक शिक्षा
  21. स्वरव्यञजन शिक्षा
  22. वशिष्ठ शिक्षा
  23. वर्णरत्नप्रदीप शिक्षा
  24. व्यास शिक्षा
  25. याज्ञवल्क्य शिक्षा
  26. गौतमीशिक्षा
  27. लोमशी शिक्षा (सामवेदः)
  28. माण्डूकी शिक्षा (अथर्ववेदः)

याज्ञवल्क्य शिक्षा[सम्पादयतु]

यद्यपि पाणिनीयाद्या अनेके शिक्षाग्रन्थाः सन्ति तथाऽपि तेषामपूर्णत्वादन्यान्यशाखाविशयत्वाच्च सर्वेषां विशेषतो वाजसनेयिनां परमोपकाराय योगियाज्ञवल्क्यमहर्षिभिः प्रणीतैवेयं शिक्षा सर्वाङ्गपूर्णा वरीवर्ति । अस्मिन् ग्रन्थे आदौ मङ्गलाचरणम्, अध्ययनविधिः, हस्तचालनविधिः, स्वरसंहिताविधिः, वर्णप्रकरणम् इत्यादयाः विभागाः ग्रथिताः ।

आधाराः[सम्पादयतु]

  1. तैत्तरीय उपनिषत्
"http://sa.wikipedia.org/w/index.php?title=शिक्षा&oldid=283623" इत्यस्माद् पुनः प्राप्तिः