शिखरिणीछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(शिखरिणी इत्यस्मात् पुनर्निर्दिष्टम्)

शिखरिणी।

लक्षणम्[सम्पादयतु]

रसै रुद्रैश्छिन्ना यमनसभला ग: शिखरिणी।केदारभट्टकृत- त्तरत्नाकर:३. ९०

।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।। । ऽ

य म न स भ ल ग।

यति: षड्भि: एकादशभि:च।

अस्मिन् छन्दसि सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः यगणः¸

एकः मगणः, एकः नगणः, एकः सगणः एकः भगणः एकः लघुः एकः गुरुश्च भवति तदेव शिखरिणीति वृत्तं कथ्यते ।

यतिस्तु षष्ठे द्वादशे च भविष्यति ।

उदाहरणम्[सम्पादयतु]

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः।
यदा किञ्चित् किञ्चित् बुधजनसकाशाद् अवगतम्

"तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।।

अर्थः[सम्पादयतु]

यदा अहम् अत्यल्पज्ञः आसम्, तदा मदेन उन्मत्तः गजः इव अहङ्कारेण अहमेव सर्वज्ञः इत्यविचारयम् ।

किन्तु विद्वत्सङ्गमात् यदा किञ्चित् किञ्चित् अवगतम्, तदा ज्ञातं यद् अहं तु मूर्खः अस्मीति ।

तथा च मम अहङ्कारः ज्वरः इव विनष्टः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शिखरिणीछन्दः&oldid=449415" इत्यस्माद् प्रतिप्राप्तम्