शिग्रुः
- "Drumstick Tree" and variants thereof redirect here. This name is also used for the Golden Shower Tree (Cassia fistulosa).
| शिग्रुः | ||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| वैज्ञानिक वर्गीकरण | ||||||||||||||
|
||||||||||||||
| द्विपद नाम | ||||||||||||||
| Moringa oleifera Lam. |
||||||||||||||
एषः शिग्रुः अपि भारते वर्धमानः कश्चन शाकविशेषः मुरुङ्गी इति अस्य नामान्तरम् । अयम् अपि सस्यजन्यः आहारपादार्थः । एषः शिग्रुः आङ्ग्लभाषया Drumstick इति उच्यते । तस्य सस्यशास्त्रीयं नाम अस्ति Moringa oleifera इति । एषः शिग्रुः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एषः वृक्षः भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अयं वृक्षः २० – २५ पादमितः उन्नतः भवति । अयं बहुशीघ्रं वर्धते । अस्य शिग्रुवृक्षस्य शाखाः पर्णानि च अत्यन्तं मृदु भवन्ति । अस्य पर्णानि १ – २ पादमितं दीर्घाणि भवन्ति । तत्र ६ – ९ पत्रकाणि भवन्ति । अस्य पर्णानि दूरे दूरे भवन्ति इत्यस्मात् तस्य वृक्षस्य अधः छाया न भवति । अस्मिन् वृक्षे जनवरितः एप्रिल्-मासाभ्यन्तरे पुष्पाणि भवन्ति । अस्य वृक्षस्य पुष्पाणि नीलवर्णयुक्तश्वेतवर्णीयानि । अस्य फलं ६ – १७ अङ्गुलं यावत् दीर्घं भवति । अस्य फलं, पर्णं, पुष्पं च यथा औषधत्वेन उपयुज्यते तथैव आहारत्वेन अपि उपयुज्यते । अस्य वृक्षस्य संस्कृतेन “शोभाञ्जनः” “मोचकः” इत्यपि नामानि सन्ति । अस्य फलेभ्यः अवलेहः अपि निर्मीयते । कटुरसयुक्तम् अस्य मूलं यूरोप्-देशेषु सर्षपस्य स्थाने उपयुज्यते । अस्य वृक्षस्य पल्लवानि पर्णानि च धेनूनाम् आहारत्वेन अपि उपयुज्यन्ते । अस्य त्वचा वल्कलं निष्कास्य रज्जुः अपि निर्मीयते ।
[सम्पादयतु] इतरभाषाभिः अस्य शिग्रुवृक्षस्य नामानि
अयं शिग्रुवृक्षः आङ्ग्लभाषया“हार्स् रेडप् ट्रेस्” (Drumstick Tree) इति उच्यते । तस्य सस्यशास्त्रीयं नाम अस्ति Moringa olifera इति । सः हिन्दीभाषया“सहिञ्जर” इति, तेलुगुभाषया“मुनगा” इति, तमिळ्भाषया “मुरुङ्गाय्” इति, मलयाळभाषया“मुरिगा” इति, मराठीभाषया“शेवणा” इति, गुजरातीभाषया“सरगपो” इति, बेङ्गालीभाषया“शिजिना” इति, कन्नडभाषया“नुग्गे मर” इति च उच्यते ।
[सम्पादयतु] आयुर्वेदस्य अनुसारम् अस्य शिग्रुवृक्षस्य प्रयोजनानि
अस्य वृक्षस्य मूलस्य त्वचि “मोरिञ्जिन्” नामकः उपयोगयोग्यः अंशः अस्ति । मूले “तेरिगोस्टर्मिन्” नामकः अंशः अस्ति । अस्य शिग्रोः रसः कटुः, तिक्तः च । अयं गुणेषु लघुः, रूक्षः, तीक्ष्णः चापि । विपाके कटुः एव भवति । उष्णवीर्ययुक्तः अयम् । अस्य वृक्षस्य मूलं, त्वक्, बीजं चापि औषधत्वेन उपयुज्यते । १. अस्य शिग्रुवृक्षस्य बाह्या त्वक्, पर्णं च निदाहि । शोथं निवारयतः, विदधिपाचिकं चापि । २. अस्य बीजात् निर्मितं चूर्णं सस्यशिरोविरेचं करोति । ३. अयं व्रणशोधं, अर्धितं (मुखस्य अर्धभागस्य पार्श्ववायुरोगः) च परिहरति । ४. शिग्रोः उपयोगेन अग्निमान्द्यम्, अरुचिः, उदरसम्बद्धाः रोगाः च अपगच्छन्ति । ५. अयं गुल्मं, कासं, कष्टार्तवं, रजोरोधं, मेदोरोगं च निवारयति । ६. शिग्रुः शीतज्वरम् अपि परिहरति । ७. अस्य मूलस्य त्वचः स्वरसः १० – २० मी.ली यावत्, बीजस्य चूर्णं १ – ३ ग्रां यावत् च सेवितुं शक्यते । ८. अयं शिग्रुः रक्तपित्तेन पीडितानां, पित्तप्रकृतियुक्तानाम्, अहितप्रभावविदाहिनां च न हितकरः । ९. अनेन शिग्रुणा निर्मितानि “शोभाञ्जनासिलेपः”, “श्यामादिचूर्णम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु लभ्यन्ते । १०. शिरोभ्रमणं जायते चेत् शिग्रुपर्णं पच्चहरितेन सह पक्त्वा सेवते चेत् शिरोभ्रमणम् अपगच्छति । ११. कामलारोगेण पीडिताः भोजने अस्य त्वचा, पर्णैः वा निर्मितस्य व्यञ्जनस्य उपयोगं कुर्युः । १२. सद्यः प्रसूतानां महिलानां पादस्य अङ्गुष्ठयोः अस्य वृक्षस्य त्वक्, सर्षपं, लशुनं च संयोज्य निर्मितं पिष्टं लेपयित्वा वस्त्रबन्धनं क्रियते चेत् विषं शरीरं न प्रविशति । १३. उष्णसम्बद्धेषु रोगेषु अस्य निर्यासः हितकरः । १४. सुरक्षिततया प्रसवार्थम् अपि शिग्रुः उत्तमः । १५. रात्रौ नेत्रयोः दृष्टिः न्यूना भवति चेत् अस्य मुष्टिद्वयमितं पर्णानि, किञ्चित् प्रमाणेन दालम्, एकं गृञ्जनकं, रागीधान्यं, गुडं च योजयित्वा पक्त्वा सेवनीयम् । एवं १५ दिनानि यावत् निरन्तरं करणीयम् । १६. मूलव्याधिना पीडिताः अस्य शिग्रोः मुष्टिमितं पर्णानि अर्कक्षीरेण सह सम्पेष्य मधु योजयित्वा रात्रौ लेपयेयुः । क्रमेण मूलव्याधेः अङ्कुरः नश्यति । १७. कर्णस्रावे अस्य पुष्पस्य रसः हितकरः । १८. अस्मिन् “विटमिन् ए” नामकः अंशः अत्यधिकः अस्ति । तस्मात् गर्भिण्यः, अशक्ताः च अधिकतया अस्य उपयोगं कुर्युः ।
| कारवेल्लम् | शिघ्रुः | कूष्माण्डम् | कोशातकी | वार्तकी | वृन्ताकः | भिण्डिः | बिम्बफलम् | पुष्पशाकम्
पर्णशाकम् | निष्पावप्रभेदः (बीन्स्) | उर्वारुकम् | महामरीचिका | कदलीकाण्डम् | पटोलः | आम्रातकम् अलाबु | निम्बूकम् | आमलकम् | मधुरकूष्माण्डम् | गोराणी | कदलीकुसुमम् | वर्तुलकम् | छत्राकम् | राजमाषशाकम् | पालङ्कः विदारी (नेलगुम्बळ) | जालकम् (होम्बाळे) |