शिवमोग्गामण्डलम्
| शिवमोग्गामण्डलम् | |
|---|---|
| — मण्डलम् — | |
| वर्षाकाले जोगजलपातः | |
| Coordinates: 14°00′N 75°17′E / 14.00°N 75.28°ECoordinates: 14°00′N 75°17′E / 14.00°N 75.28°E | |
| राष्ट्रम् | |
| राज्यम् | कर्णाटकराज्यम् |
| Headquarters | शिवमोग्गा |
| मण्डलानि | भद्रावतीमण्डलम्, होसनगरम्, सागरमण्डलम्, शिकारीपुरम्, सोरबमण्डलम्, शिवमोग्गामण्डलम्, तीर्थहल्लिमण्डलम् |
| सर्वकारः | |
| • Deputy Commissioner | M.V. Vedamurthi[२] |
| विस्तीर्णम् | |
| • Total | ८,४९५ Square km (३,२७९.९ Square mile) |
| जनसङ्ख्या (2011) | |
| • Total | १७,५५,५१२[१] |
| राज्यभाषा | |
| • भाषा | कन्नडभाषा |
| IST (UTC+5:30) | |
| PIN | 577201 to 577205 |
| Telephone code | 08182 |
शिवमोग्गामण्डलस्य मण्डलकेन्द्रस्य च नाम समानम् अस्ति । एतत् बेङ्गलूरुतः २७५कि.मी.दूरे अस्ति । कर्णाटकस्य निसर्गरमणीयं मण्डलम् इदं ’मलेनाडु(पर्वतमयः प्रदेशः) इत्येव ख्यातम् । शिवमुखम् इति पदपुञ्जात् निष्पन्नं पदं शिवमोग्गा इति कथितम् ।अत्र मूलतॄणादि- वनस्पतिभिः रुचिकरं रसम् उत्पादयन्ति स्म( संग्रहं कुर्वन्ति स्म) । अतः सिहिमगे इति नाम, अनन्तरं ’शिवमोग्गे’ इत्यागतम् ।
भौगोळिकतया शिवमोग्गमण्डले शालिक्षेत्राणि सन्ति । राज्ये सर्वाधिक वर्षास्थानम् आगुम्बे अत्र अस्ति । दूर्वासक्षेत्रमित्यपि क्षेत्रस्य नाम आसीत् ।
अन्तर्विषयाः |
उपमण्डलानि-७ [सम्पादयतु]
शिवमोग्ग, सागर, तीर्थहळ्ळी होसनगर सोरब, शिकारीपुर भद्रावती
नद्यः [सम्पादयतु]
तुङ्गभद्रा, कुमुद्वती, शरावती, वेदवती, वरदा, कुशावती एताभिः नदिभिः एतत् मण्डलं जलसमृद्धम् अस्ति ।
विस्तीर्णता [सम्पादयतु]
८४६५ च.कि.मी
भौगोलिकता [सम्पादयतु]
पश्चिमपर्वतप्रदेशः सह्याद्रिपर्वतश्रेणिः मण्डलस्य सौन्दर्यं वर्धितवती अस्ति । विश्वप्रसिद्धः जोगजलपातः इतः ११३कि.मी.दूरे अस्ति । अत्र शरावतीनदी राजा राणी रोरर् राकेट् इति धाराचतुष्टयेन पतति ।
इतिहासः [सम्पादयतु]
क्रि.पू. तृतीयेशतके साम्राडः अशोकस्य मौर्यसाम्राज्यस्य दक्षिणसीमान्त्यः अयं प्रदेशः । चतुर्थशतकस्य काले कदम्बाः षष्ठे शतके चालुक्याः, तेषां सामन्ताः राजानः गङ्गाः, अष्टमे शतके राष्ट्रकूटाः, एकादशे शतके होय्सलाः, पञ्चदशे शतके विजयनगरराजाः एतस्य प्रदेशस्य शासनं कृतवन्तः।
दर्शनीयानि स्थानानि [सम्पादयतु]
जोगजलपातः, श्रीरेणुकाम्बादेवालयः , चन्द्रगुत्तीदुर्गं ,लिङ्गनमक्कि- जलाशयः, वनके अब्बेजलपातः, भद्रायोजना, होसनगरश्रीरामचन्द्रापुरमठः, लक्कवल्लिजलाशयः, आगुम्बेसूर्यास्तः, मण्डगद्दे पक्षिधाम, अम्बुतीर्थम्, कुन्दाद्रिः,कुप्पवल्लिकविशैलः, कोटेसीतारामाञ्जनेयमन्दिरं, तुङ्गभद्रासङ्गमः, कोडचाद्रिः, तावरेकोप्पसिंहधाम, शिवप्पनायकनकोटे, सिगन्धूरुमाता, दब्बेजलपातः ।
प्रसिद्धानि क्षेत्राणि [सम्पादयतु]
१.शिवमोग्गानगरम् - (०८२९२) दूर्वासमहर्षिः अत्र तपः आचरितवान् । शिवलिङ्गं बालहनुमन्यंत्रं च पूजितवान् । तदेव अत्र कोटेसीतारामाञ्जनेयः, भीमेश्वर- देवालयरुपेण अस्ति । जनमेजयस्य सर्पयागः अत्रैव कृतः इति विश्वासः अस्ति । मार्गः -बेङ्गळूरुतः २७४ कि.मी । मङ्गलूरुतः २०६ कि.मी. राष्ट्रियराजमार्गः -१३। रेलयानस्य सौलभ्यमस्ति ।
२.बळ्ळिगावे-द्वादशे शतके बनवासीराज्यस्य राजधानी । एतत् क्षेत्रं बलिपुर- अग्रहारः इति प्रसिद्धम् आसीत् । इन्द्रस्य अमरावती कुबेरस्य अलकावतीव सुन्दरं ‘वैभवोपेतं च आसीत्। ’दक्षिणकेदारमरिकल्याण’ इत्यपि जनाः कथयन्ति स्म । शासनानुसारम् अत्र १३ विद्यासंस्थाः, त्रयः बौद्धविहाराः , द्वादश जैनबसदयः (जैनमन्दिराणि), वाणिज्यकेन्द्राणि च आसन् । केदारेश्वरदेवालयः चालुक्यशैल्या रचितः त्रिकूटाचलरुपः अस्ति । कृष्णाशिलाशिवलिङ्गः अत्र अस्ति । काशीविश्वेश्वरमन्दिरं (१०६० कि.श) त्रिपुरान्तकेश्वरमन्दिरं , दुण्डिराजगणपतिमन्दिरं च अत्र सन्ति । इतिहासप्रसिद्धायाः नाट्यराज्ञ्याः शान्तलायाः जन्मस्थलम् । महामहिमस्य परशिवस्वरुपस्य अल्लमप्रभोः जन्मस्थानं च । मार्गः -शिकारीपुरतः २० कि.मी । शिवामोग्गतः ८० कि.मी. शिराळकोप्पतः २ कि.मी.
३.भद्रावती भद्रानदीतीरे स्थितस्य अस्य क्षेत्रस्य बङ्किपुरं बेङ्किपुरम् इति कथयन्ति स्म । अत्र वङ्किमहर्षेः आश्रमः आसीत् । भद्रानदीतीरे श्री लक्ष्मीनरसिंहस्वामीदेवालयः अस्ति । देवः शङ्खचक्रगदापद्मधारी लक्ष्मीसमेतः च अस्ति। देवालयः होय्सलवास्तुशिल्पशैल्या अस्ति । नक्षत्राकारके मण्डपे त्रिकूटाचलरुपेण त्रीणि गर्भगृहाणि निर्मितानि । पुरुषोत्तमः लक्ष्मीनरसिंहः वेणुगोपालः च अत्र सन्ति । आञ्जनेयदेवालयोऽपि अस्ति । मार्गः -बेङ्गलूरु-शिवमोग्गरेल् मार्गे भद्रावती निस्थानकम् अस्ति । शिवमोग्गतः २६ कि.मी. बेङ्गळूरुतः २५६ कि.मी. मैसूरुतः २२५ कि.मी. । लोकयानानि यथेष्टं सन्ति ।
४. कूडली -एतत् क्षेत्रं तुङ्गाभद्रानद्योः सङ्गमस्थानम् । पुराणानुसारं भक्तस्य प्रह्लादस्य हरिः नरसिंहरुपेण प्रत्यक्षः अभवत् । स एव नरसिंहः अत्र सालिग्रामरुपे स्थितवान् । चिन्तामणिनरसिंहः पवित्राश्वत्थवृक्षः च अत्र स्तः । रामेश्वर-ब्रह्मेश्वरदेवालयौ शङ्कराचार्यमध्य्वाचार्ययोः मठाः च सन्ति । मार्गः -शिवमोग्गतः २६ .कि.मी । भद्रावतीतः २४ कि.मी वासार्थं मठाः सन्ति ।
५ वरदपुर वरदहळ्ळी (सागर)- श्रीरामदासवर्यस्य अनुग्रहं प्राप्तवतः श्रीधरस्वामिनः आश्रयः समाधिस्थलं च अत्र स्तः । श्रीधरस्वामी धर्मजागृतिकारणात् यात्रां कुर्वन् अन्ते अत्रत्ये प्रशान्ते रमणीये एकान्ते च स्थले वासम् आरब्धवान् । अत्र प्रतिवर्षं श्रीधरस्वामिजयन्तिः , आराधना, श्रीगुरुपूर्णिमा, विजयदशमीसमये विशेषोत्सवाः च भवन्ति । मार्गः -सागर- शिवमोग्गमार्गे ८ कि.मी
६. उडुतडी -(शिकारीपुर) द्वादशशतके सुप्रसिद्धायाः शिवभक्तायाः अक्कमहादेव्याः जनस्थलम् एतत् । शिवः एव स्वपतिः सः एव चेन्नमाल्लिकार्जुनः इति ध्यायन्ती अक्कमहादेवी वस्त्ररहिता कल्याणनगरं गतवती। अन्ते वचनानि रचयन्ती वदन्ती श्रीशैले कदलीवने चेन्नमल्लिकार्जुने ऐक्या अभवत् । मार्गः -शिकारीपुरतः २५ कि.मी
७. शिगन्दूरु (सागर) -एतत नदीजलमध्यस्थं विशालः द्वीपः । मलेनाडुप्रदेशः(पर्वतप्रदेशः) शक्तिदेवता ’चौडेश्वरी’ ’शिगन्देश्वरी’ इति देवीं कथयन्ति । सहस्रशः भक्ताः दूरतः अत्र आगच्छन्ति । उत्तमम् नैसर्गिकदृश्यवैभवम् अत्र पश्यामः । मार्गः सागरतः लोकयानम् । जोग-कोगरहळ्ळि-भट्कळ् वाहनमार्गे ४५ कि.मी
८.होम्बुज- (होसनगर) अस्य हुञ्च पोम्बुर्च इति नामनि स्तः । जैनकाशीति प्रसिद्धे क्षेत्रे पञ्चबसदिदेवालयस्य अग्रे मानस्तम्भः , मुत्तिनकोळ, तपस्थितभङ्ग्यां पञ्चतीर्थङ्कराणां प्रत्येकगर्भगृहाणां दर्शनं विशेषाः । पद्मावती देवालयोऽप्यस्ति । जिनदत्तरायः करिलक्किनामकस्य वृक्षस्य अधः विश्रामं स्वीक्रुतवान् इति विश्वासः ।सः वृक्षः अद्यापि अस्ति । मार्गः -शिवमोग्गतः ५४ कि.मी । सागरतः तीर्थहळ्ळिमार्गे रिप्पन् पेटे निस्थानतः समीपे
९.केळदी (सागर)- एषः प्रदेशः केळदिनायकानां पूर्वतनराजधानी । अत्रत्याः २० नायकाः क्रिस्ताब्द १४९९ तः २७५ वर्षाणि यावत् प्रशासनम् कृतवन्तः । ते शूराः दानशूराः धर्मभीरवः देवालयनिर्माणकर्तारः च । १८ देवालयानां निर्माणं कृतवन्तः । तेषु अघोरेश्वरः शिवस्य पञ्चमुखेषु अन्यतमः (१५४०) । अत्र देवालये जालन्ध्राः, नन्दीमण्टपः, शुकनासी इत्यादयः भागाः शिल्पदृष्ट्या अपूर्वाः सन्ति । होय्सलद्राविडयोः साम्मिश्रशैलीम् अत्र पश्यामः । वीरभद्रदेवालये देवस्य ३२ हस्ताः लोहमये मूर्तिविशेषे द्रष्टुं शक्याः सन्ति । मार्गः शिवमोग्गतः ६२ कि.मी । सागरतः ९ कि.मि. जोगजलपाततः ३३ कि.मी.
१०.कोडचाद्रिः (सागर) कोडचाद्रिपर्वतश्रेण्याम् उन्नतः (२३४३ मीटर्) दुर्गमः पर्वत प्रदेशः एषः । उडुपी शिवमोग्गमण्डलयोः सीमाप्रदेशेऽस्ति । अत्र ३२हस्तयुक्तस्य व्याघ्रस्य शिलामूर्तिः कालभैरवदेवालयः, उमामहेश्वरदेवालयः, प्रेक्षणीयाः सन्ति । मार्गः- जोगतः ६२ कि.मी (शिवमोग्गतः २२५ कि.मी सागरतः ७ कि.मी होसनगरतः २६ कि.मी (पादचारणम् अनिवार्यम् अस्ति । स्वकीयं वाहनं भवति चेदुत्तमम् ।
११.चन्द्रगुत्ती-(सोरब) एतस्य पर्वतस्य मूले श्रीरेणुकाम्बादेवालयः आस्ति । एतां गुत्यम्म इति च कथयन्ति । देवालये ६० से.मी उन्नतः परशुरामस्य विग्रहः अस्ति । भवानीतीर्थ-शङ्करतीर्थे अत्र प्रसिद्धे । शूलप्पगुडि, भैरवगुडि च अत्र स्तः। भक्ताः अत्र त्रिशूलं भक्त्या अर्पयन्ति । मार्गः -सोरबतः २६ कि.मी
प्रसिद्धाः व्यक्तयः [सम्पादयतु]
केलदी चेन्नम्मा अल्लमप्रभुः शिवप्पनायकः अक्कमहादेवी प्रफुल्लचन्द्रः कडिदाळ मञ्जप्पः शान्तवेरी गोपालगौडः एस्.बङ्गारप्पः बि.एस्.यडियूरप्पः के.एस्.ईश्वरप्पः कागोडु तिम्मप्पः यु.आर्.अनन्तमूर्तिः पि.लङ्केशः ना.डिसोजः एम्.के.इन्दिरा के.वि.सुब्बण्णः एन्.एस्.लक्ष्मीनारयणभट्टः गिरिशकासरवल्ली डा.टि.एम्.शिवानन्दय्य ।
- ↑ Shimoga:Census2011. census2011.co.in.
- ↑ Who's Who. National informatics centre.