शिवकुमारस्वामी
| शिवकुमारस्वामी ಶಿವಕುಮಾರ ಸ್ವಾಮಿಗಳು |
|
|---|---|
शिवकुमारस्वामी भारतस्य पूर्वतनराष्ट्रपतिना डा अब्दुल् कलामवर्येण सह। |
|
| जननम् | एप्रिल् १, १९०७ भारतम् |
| वृत्तिः | श्री सिद्धगङ्गा ऎजुकेशन् सोसैटी ( Sree Siddhaganga Education Society) सम्स्थायाः संस्थापकः |
कर्नाटकरत्नः डा. शिवकुमारस्वामी (कन्नड: ಶಿವಕುಮಾರ ಸ್ವಾಮಿಗಳು) तुमकूरुमण्डलस्य सिद्धगङ्गामठस्य मठाधिपतिः। एषः त्रिविध(अन्नम्,अक्षरम्,ज्ञानम्)दासोहदाता। १२ तमस्य शतमानस्य युगपुरुषस्य क्रान्तिकारिणः बसवण्णस्य "कायकवे कैलास" इत्यस्य अपि च नित्यदासोहतत्त्वस्य कैङ्कर्ये अस्य प्रवृत्तिः। ०३/०१/१९३० तमे दिनाङ्के श्रीमठस्य दायित्वं स्वीकृत्य तद्दिनात् मठस्य, वीरशैवधर्मस्य समाजस्य च उद्धरार्थं एषः निरन्तरं श्रममाणः अस्ति।
देशस्य समाजस्य च प्रगतिविषये अस्य बहु आदरं वर्तते। आगामिपरम्परायाः अभिवृद्धये कृतसङ्कल्पः एषः। समाजस्य अनेकानां गण्यानां बाल्यजीवनस्य परिवर्तनाय एषः कारणीभूतः। श्रीमठे १०,००० विद्यार्थिभ्यः आश्रयं दत्वा तेभ्यः त्रिविधदासोहं सततं यच्छन् अस्ति एषः।
जननं बाल्यञ्च [सम्पादयतु]
मागडिमण्डलस्य वीरापुरे ०१/०४/१९०८ तमे दिनाङ्के अस्य जन्म अभूत्। "शिवण्ण" इति अस्य बाल्यनाम। श्री होन्नप्प श्रीमती गङ्गम्मा स्वामिनः पूर्वाश्रमपितरौ। नागवल्यां प्राथमिकमाध्यमिकशिक्षणं समाप्य तुमकूरुसर्वकारीयप्रौढशालायां प्रौढशिक्षणं समाप्य १९२६ तमे वर्षे "मेट्रिक्युलेषन्" प्राप्तवान्। १९२७ तमे वर्षे तदानीन्तनसिद्धगङ्गामठाधिपतेः सहवासः जातः। तस्मिन्नेव वर्षे प्रवेशपरीक्षायां उत्तीर्य उन्नतविद्याभ्यासार्थं बेङ्गळूरुनगरस्य "सेन्ट्रल् कालेज्" प्रविष्टवान्।
स्वामिनः दिनचरी [सम्पादयतु]
प्रतिदिनं स्वामी प्रातः चतुर्वादने उत्थाय स्नात्वा पूजाप्रकोष्ठे एकघण्टापेक्षया अधिकसमयं ध्यानावस्थायां भवति। तदनन्तरम् इष्टलिङ्गपूजा। तदनन्तरं भक्तेभ्यः त्रिपुण्ड्रभस्मं दत्वा स्वयमपि धृत्वा पूजां समापयति। तदनन्तरम् अल्पाहारसेवनं प्रातः सार्धषड्वादने।
प्रार्थना [सम्पादयतु]
मठे विद्यमानानां बालकानां सामूहिकप्रार्थनायां सः प्रतिदिनं भागं गृह्णाति। तदनन्तरं कार्यालये वार्तापत्रिकाणां पठनम्। तदनन्तरं भक्तेभ्यः दर्शनमं, भक्तैः सह सम्भषणं, गण्यैः सह मेलनं, अधिकारिभिः सह मठस्य शासनसम्बद्धाः चर्चाः इत्येवं प्रचलति।