शिवनसमुद्रजलपातः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
शिवनसमुद्रजलपातः (Shivanasamudra Falls) कर्णाटकस्य मण्ड्यमण्डले विद्यमानः कश्चन जलपातः । मैसूरुनगरसमीपे शिंशा इति स्थले कावेरीनद्या उभौ जलपातौ निर्मितौ गगनचुक्कीजलपातः भरचुक्कीजलपातः च । बेङ्गळूरुतः ७६कि.मी. दूरे मैसूरु – मलवळ्ळि – मण्ड्य मार्गे अस्ति । । अतीव सुन्दरं नैसर्गिकं स्थानमेतत् । सहस्रशः जनाः प्रतिदिनम् अत्र आगच्छन्ति । एतस्य समीपे एशियाखण्डे एव ऐदम्प्राथम्येन क्रिस्ताब्दे १९०२ तमे वर्षे अत्र जलविद्युदागारः स्थापितः अस्ति । मैसूरुनगरतः ३० कि.मी.दूरे अस्ति ।