शिवपुरीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शिवपुरीमण्डलम्

Shivpuri District
शिवपुरी जिला
शिवपुरीमण्डलम्
शिवपुरीमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे शिवपुरीमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे शिवपुरीमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि शिवपुरी, पोहरी, नरवर, करेरा, कोलारस, पिछोर, बदरवास, खनियाधन
विस्तारः १०,०६६ च. कि. मी.
जनसङ्ख्या (२०११) १७,२६,०५०
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६२.५५%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४३.५%
Website http://shivpuri.nic.in/

शिवपुरीमण्डलम् ( /ˈʃɪvəpʊrməndələm/) (हिन्दी: शिवपुरी जिला, आङ्ग्ल: Shivpuri district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति शिवपुरी इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

शिवपुरीमण्डलस्य विस्तारः १०,०६६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे श्योपुरमण्डलम्, उत्तरे ग्वालियरमण्डलं, दक्षिणे अशोकनगरमण्डलम् अस्ति । अस्मिन् मण्डले कालीसिन्धनदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं शिवपुरीमण्डलस्य जनसङ्ख्या १७,२६,०५० अस्ति । अत्र ९,१९,७९५ पुरुषाः, ८,०६,२५५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.७६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७७ अस्ति । अत्र साक्षरता ६२.५५% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- शिवपुरी, पोहरी, नरवर, करेरा, कोलारस, पिछोर, बदरवास, खनियाधन ।

वीक्षणीयस्थलानि[सम्पादयतु]

माधव-राष्ट्रिय-उद्यानम्[सम्पादयतु]

माधव-राष्ट्रियोद्यानं आगरा-मुम्बई मार्गे अस्ति । इदं स्थलं १५७.५२ चतुरस्रकिलोमीटरपरिमितं विस्तृतम् अस्ति । अस्मिन् उद्याने बहवः पशवः सन्ति । इदम् उद्यानं वन्यजीवनस्य स्वर्गं मन्यते ।

छतरी[सम्पादयतु]

छतरी इतीदं स्थलं शिवपुरी-नगरे स्थितमस्ति । इदं स्थलं सिन्धिया-वंशजैः निर्मापितम् । अस्मिन् स्थले एकं मुगल-उद्यानम् अस्ति । अत्र हिन्दु एवं मुस्लिम वास्तुकलायाः उपयोगः कृतः अस्ति । माधव विलास पैलेस, टाईगर सफारी, बाण गङ्गा इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://shivpuri.nic.in/
http://www.census2011.co.in/census/district/290-shivpuri.html

"https://sa.wikipedia.org/w/index.php?title=शिवपुरीमण्डलम्&oldid=463997" इत्यस्माद् प्रतिप्राप्तम्