श्यामाकः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मुनिभक्ष्यस्य सस्यानि

इदं मुनिभक्ष्यम् अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । इदं मुनिभक्ष्यम् आङ्लभाषायां Barnyard millet इति वदन्ति । हिन्दीभाषायां सांवा इति, ल्याटिन्-भाषायां Echinochola frumenkacea इति च वदन्ति । इदं मुनिभक्ष्यं तृणकुले Graminae कुले अन्तर्भवति । अस्य मुनिभक्ष्यस्य श्यामाकः, तॄणबीजं, गवांप्रियं, तृणबीजोत्तमम्, अविप्रियम् इत्यादीनि नामानि सन्ति । एतत् मुनिभक्ष्यं “राजधान्यम्” इति प्रशंसाम् अपि प्राप्य प्रसिद्धम् अस्ति । अनेन मुनिभक्ष्येन पायसम्, अन्नं, यवागूः, पर्पटः, अवदंशः इत्यादयः खाद्यविशेषाः निर्मीयन्ते ।


आयुर्वेदस्य अनुसारम् अस्य मुनिभक्ष्यस्य स्वभावः[सम्पादयतु]

मुनिभक्ष्यतृणं खादन्तौ अश्वौ

इदं मुनिभक्ष्यं पचनार्थं लघु । मुनिभक्ष्यं कषायमिश्रितमधुररुचियुक्तम् अपि । एतत् मुनिभक्ष्यं सङ्ग्राहि, स्निग्धगुणयुक्तः च ।


“श्यामाको मधुरः स्निग्धः कषायो लघुशीतलः ।
वातकृत् कफपित्तघ्नः सङ्ग्राही विषदोषनुत् ॥“ (धन्वन्तरिकोषः)
सस्याग्रे लम्बमानं मुनिभक्ष्यधान्यम्


१. इदं मुनिभक्ष्यं तृणवर्धितेषु आहारपदार्थेषु अत्युत्तमम् ।
२. मुनिभक्ष्यं धेनूनाम् अजानां च अत्यन्तं प्रियम् ।
३. मुनीनां तपसः कश्चन भागः मुनिभक्ष्यस्य सेवनम् इति । तस्मात् एव अनेन धान्येन मुनिभक्ष्यम् इति नाम प्राप्तम् ।
४. एतत् मुनिभक्श्यं सुकुमारेषु अपि सुलभतया जीर्णं भवति ।
५. एतत् मुनिभक्ष्यं सर्धैक-मासाभयन्तरे एव वर्धते ।
६. इदं मुनिभक्ष्यं वातकरं, कफं पित्तं च निवारयति ।
७. मुनिभक्ष्ये तैलांशः अतीव न्यूनः भवति ।
८. मुनिभक्ष्यं विषनाशकम् अपि ।
९. मुनिभक्ष्ये “विटमिन् बि” अत्यधिकप्रमाणेन भवति ।
१०. मुनिभक्ष्यम् अत्यन्तं लेखनम् इति कारणतः पक्त्वा मलस्य अवरोधः अस्ति चेत् दीयते ।
११. रागी इव मुनिभक्ष्यम् अपि निर्धनानां धान्यम् अपि । अतीव न्यूनमूल्येन प्राप्यते ।
१२. एतत् मुनिभक्ष्यं भर्जयित्वा अन्नं वा यवागूं वा कृत्वा पित्तप्रधानेषु व्याधिषु सेवनार्थं दातुं शक्यते ।‎
"http://sa.wikipedia.org/w/index.php?title=श्यामाकः&oldid=250348" इत्यस्माद् पुनः प्राप्तिः