श्यामाप्रसाद मुखोपाध्याय

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्यामाप्रसाद मुखोपाध्याय
শ্যামাপ্রসাদ মুখোপাধ্যায়
व्यैय्यक्तिकसूचना
Born (१९०१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०६)६ १९०१
कोलकाता, पश्चिमवङ्गराज्यम्, भारतम्
Died २३ १९५३(१९५३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२३) (आयुः ५१)
Nationality भारतीयः
Political party हिन्दुमहासभा, भारतीयजनसङ्घः
Spouse(s) सुधा देवी
पिता आशुतोष मुखोपाध्याय
माता योगमाया देवी (जोगमाया देवी)

डा. श्यामाप्रसाद मुखोपाध्याय अथवा डा. श्यामाप्रसाद मुखार्जी (जन्म- ६ जुलै १९०१- मृत्युः-२३ जून् १९५३) एकः प्रसिद्धः राजनैतिकनेता आसीत्। अयञ्च भारत केशरी नाम्नाऽपि ख्यातः। डा. श्यामाप्रसाद प्रथमहिन्दुराष्ट्रवादिनः राजनैतिकदलस्य भारतीयजनसङ्घस्य प्रस्थापकः । सः अखिलभारतीय-हिन्दुमहासभायाः सभापतिः च आसीत्। जवाहरलाल नेहरू महोदयस्य मन्त्रीपरिषदि श्यामाप्रसादः औद्योगिकमन्त्री आसीत्। १९५१ तमे वर्षे, नेहरू-महोदयेन सह मतविरोधकारणवशतः सः भारतीयराष्ट्रियकाङ्ग्रेस्-पक्षं त्यक्त्वा राष्ट्रवादिनः भारतीयजनसङ्घस्य स्थापनाम् अकरोत्।

शैशवकालः शिक्षाश्च[सम्पादयतु]

१९०१ तमवर्षस्य जुलै मासस्य ६ दिनाङ्के श्यामाप्रसाद मुखार्जी ब्राह्मणपरिवारे जन्मलभत्। तस्य पिता आशुतोष मुखोपाध्याय, माता च श्रीमती योगमाया देवी आसीत्। आशुतोष मुखोपाध्याय शिक्षाविद्, कोलकाता उच्चन्यायालयस्य विचारपतिः तथा कोलकाता विश्वविद्यालयस्य उपकुलपतिः च आसीत्। रमाप्रसाद मुखोपाध्यायः, उमाप्रसाद मुखोपाध्यायः बामाप्रसाद मुखोपाध्यायश्च तस्य अनुजाः आसन् [१]

श्यामाप्रसादः १९२१ तमे संवत्सरे स्नातकपदवीं (आङ्ग्लसान्मानिकः) तथा च विश्वविद्यालये प्रथमस्थानं प्राप्तवान्।

टिप्पणी[सम्पादयतु]

  1. Thirumang Venkatraman (January 2008). Discovery of Spiritual India. Lulu.com. p. 42. ISBN 978-1-4357-0472-5. 

बाह्यसम्पर्काः[सम्पादयतु]