श्यामाशास्त्री (कर्णाटकसङ्गीतम्)

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
श्यामाशास्त्री
जन्मनाम श्यामाशास्त्री
ख्यातनाम वेङ्कटकृष्णः
मूलतः तिरिवारूरु , तमिळनाडुराज्यम्, भारतम्
सङ्गीतविद्या वाग्गेयकारः
वृत्तिः गायकः, सङ्गीताध्यापकश्च
वाद्यानि शास्त्रीयगायकः
सक्रियवर्षाणि क्रि.श. १७८२तः १८२५पर्यन्तम्





श्यामाशास्त्री (Syama Sastri) कर्णाटकसङ्गीतप्रकारस्य त्रिमूर्तिषु अन्यतमः । एषः अपि त्रिमूर्तिषु अन्यद्वाविव तमिळनाडुराज्यस्य तिरुवारूरुप्रदेशे एव अजायत । अस्य मूलं नाम वेङ्कटकृष्णः इति । अस्य मातृभाषा तेलुगुभाषा । अस्य पूर्वजाः अर्चकवृत्तिं कुर्वन्ति स्म । बालस्य वेङ्कटकृष्णस्य सुमधुरकण्ठः अस्तीति परम्परानुगुणं संस्कृतबोधनेन सह सङ्गीतस्य आरंभिकपाठाः अपि बोधिताः। यदा एषः अष्टवर्षीयः आसीत् तदा अस्य कुटुम्बं तञ्जावूरुप्रदेशम् अगच्छत् । तत्र सङ्गीतस्वामी इति कश्चित् बालकस्य कण्ठश्रिया अनुरक्तः कतिपयवर्षेषु एव एषः उत्तमः गायकः यथा स्यात् तथा अकरोत् ।

कृतिकारः गायकः च[सम्पादयतु]

काञ्चिपुरस्य कामाक्ष्याः भक्तस्य श्यामाशस्त्रीवर्यस्य अधिकाधिककृतयः देव्याः कामाक्ष्याः कीर्तनं कुर्वन्ति। तञ्जावूरुनगरस्थस्य बङ्गारुकामाक्षी-मन्दिरस्य अर्चकस्य पच्चमिरियम् आदि अप्पय्यस्य शिष्यः। एषः त्रिशताधिकाः कृतीः रचितवान् इति श्रूयते चेदपि ७० उपलभ्याः सन्ति। एतासां कृतीनां भाषा अधिकतया तेलुगु किञ्चिदिव संस्कृतम् । अपि काश्चन तमिळुभाषयाः सन्ति । मधुरायाः मीनाक्ष्याः विषये "नवरत्नमालिकाः" इति कृतिं श्यामाशास्त्री रचितवान् अस्ति । एतासां कृतीनाम् अन्ते शामकृष्ण इति अङ्कितं भवति ।

जन्म बाल्यं च[सम्पादयतु]

श्यामाशास्त्री तञ्जावूरुमण्डलस्य तिरुवारूरुग्रामे वडमब्राह्मणकुटुम्बे जन्म अलभत । तस्य पिता बङ्गारुकामाक्षीमन्दिरस्य अर्चकः आसीत् । तस्य नाम वेङ्कटसुब्रह्मण्यः इति । तस्य पूर्विकाः अर्चकवृत्तिपराः पण्डिताः आसन् । किन्तु तेषां सङ्गीतज्ञानं न्यूनम् आसीत् । वेङ्कटसुब्रह्मण्यस्य संस्कृत-तेलुगुभाषयोः सम्यक् ज्ञानम् आसीत् । तस्य विद्याभ्यासार्थं मातुलः साहाय्यं कृतवान् । यदा सः अष्टादशवर्षीयः अभवत् तदा तस्य मातुलः तं सङ्गीतविद्याभ्यासार्थं तञ्जावूरुनगरम् आनीतवान् । चातुर्मास्यकाले सङ्गीतस्वामिनामकः कश्चित् तस्य गृहम् आगतवान् । सङ्गीतस्वामी सङ्गीते तथा नाट्यशास्त्रे प्राविण्यं प्राप्तवान् आसीत् । सः अस्य तीक्ष्णबुद्धिं परिवीक्ष्य गन्धर्वविद्यां बोधितवान्। आस्थानविदुषः पच्चिमिरियम् अडियप्पयवर्यस्य स्नेहसम्पादने प्रेरितवान्।

वृत्तिजीवनम्[सम्पादयतु]

श्यामाशास्त्रिणः कृतयः प्रसिद्धाः सन्ति । सः आहत्य त्रिंशत् कृतीः रचितवान् अस्ति । परन्तु तस्य शिष्याः अधिकाः न आसन्। तदानीन्तनकाले मुद्रणव्यवस्थासमीचीना नासीत् इत्यतः तस्य कृतयः हस्तप्रतिरूपेण एव अतिष्ठन्। तस्य पाण्डित्यं पामरैः अवगन्तुं कष्टकरम् आसीत् । कामाक्षीदेवीम् अधिकृत्य सः तेलुगु-संस्कृत-तमिळ्भाषया कृतीः रचितवान् अस्ति। सः कतिचन स्वरजतयः, वर्णाः, कृतीः च श्यामकृष्णनाम्ना अङ्कितेन रचितवान् । कर्णाटकस्सङ्गीते स्वरजतिः इति नाम्ना सङ्गीतप्रकारम् आरब्धवान् । पूर्वं स्वरजतिः नाट्यशास्त्रे पदवर्णरीत्या आसीत् । तस्य त्रयः रागाः रत्नत्रयम् इति प्रसिद्धाः । ते च रागाः- भैरवी, यदुकुलकाम्भोजी, तोडी च । सः क्लिष्टरागस्य लयस्य च रचने समर्थः आसीत् । तस्य शारीरं तथा गानसामर्थ्यं श्लाघनीयम् आसीत् ।

बाह्यानुबन्धाः[सम्पादयतु]