श्रीकाकुलम्
| Srikakulam District శ్రీకాకుళం జిల్లా |
|||||||
| — district — | |||||||
|
|
|||||||
| निर्देशाङ्काः | |||||||
| देशः | भारतम् | ||||||
| राज्यम् | Andhra Pradesh | ||||||
| मण्डलानि | Srikakulam | ||||||
| जनसङ्ख्या |
२,५३७ (2001[update]) • ४०३ /km2 ( /sq mi) |
||||||
| समयवलयः | IST (UTC+05:30) | ||||||
| विस्तीर्णम् |
५,८३७ square kilometres ( sq mi) • १० metres ( ft) |
||||||
|
सङ्केताः
|
|||||||
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
कलिङ्गसाम्राज्ये भासितमिदं श्रीकाकुलमण्डलम् । नन्द-मौर्य-शातवाहन-गजपति-मोगल्सम्राट्भिः फेञ्च्-ब्रिटिष् इत्यादिपालकैः च पालितमिदम् । १९३० तमात् वर्षात् पूर्वम् ओडिष्षाराज्यसीमायाम् इदं मण्डलम् आसीत् । १९३० तमे वर्षे मद्रासराज्यसीमायां सम्मिलितम् ।
भौगोलिकम् [सम्पादयतु]
अस्य मण्डलस्य उत्तरस्यां दिशि ओडिष्षा, दक्षिण- पश्चिमदिशोः विजयनगर-मण्डलम् , बङ्गालाखातसमुद्रः च प्राग्दिशि वर्तन्ते । मण्डलस्य वैशाल्ये १३% अरण्यप्रान्तं वर्तते । अस्मिन् ग्रीष्मतापः अधिकः शैत्यमपि अधिकम् । वृष्टिपातः नैरुतिर्तुप्रभावेण भवति । ओर्चाचल-अण्ट्याचल-पालाचल-महेन्द्राचलेत्यादिपर्वतश्रेण्या शोभते इदं मण्डलम् । एषा पर्वतश्रेणी समुद्रात् ८२२ मी. मिता उन्नता वर्तते । महेन्द्रगिरिः दक्षिणे विद्यमानपर्वतश्रेणिषु अत्यन्तम् उन्नतः । । मण्डले १०० कि.मी . मितः ५ सङ्ख्याख्यः राष्ट्रियराजमार्गः वर्तते ।
कृषिः वाणिज्यं च [सम्पादयतु]
धान्यम्, इक्षुः, कदलीमूलम्, इत्यादीनि सस्यानि उप्यन्ते अत्र । तलिनीलापुरे संरक्षण-पारिश्रामिकक्षेत्रेऽपि इदमिदानीं वर्धमानम् इदं मण्डलम् ।वंशधारा-नारायणपुर-ओणिगड्डप्रान्तेषु जलधाराः वाहकाः सन्ति
वीक्षणीयस्थलानि तीर्थस्थानानि [सम्पादयतु]
वीक्षणीयस्थलानि तीर्थस्थानानि तावत् श्रीकूर्मम्, अरसवेल्लि, श्रीमुखलिङ्गम् इत्यादीनि । पोन्दूरु- स्थानं खादीवस्त्राणां प्रसिध्दम् । खगानां स्थानमपि वर्तते ।
तालूकाः [सम्पादयतु]
१. इच्छापुरम्, २. कविटि, ३. कञ्चिलि, ४. सोम्पेट, ५. मन्दन्,६. पलास्, ७. वज्रपुकोत्तूरु ८. नन्दिगाम्, ९. टेक्कलि, १०. सन्तबोम्मालि, ११. कोट बोम्मालि, १२. जलुमूरु, १३. सारवकोट, १४. पात पट्टनम्, १५. मेलियापुट्टि १६. हीरमण्डलम् १७. कोत्तूरु, १८. भामिनि, १९. सीतम्पेट्, २०. वीरघट्टम्, २१. भूर्ज, २२. पालकोण्ड, २३, बङ्गर, २४. रेगडि आमुदालवलस, २५. सन्त कविटि, २६. राजाम्, २७. नरसन्नपेट्, २८. पोलाकि, २९. श्रीकाकुलम्, ३०. गार, ३१. अमुदालवलस्, ३२. सरुबुज्जिलि, ३३. एच्छर्ल, ३४, गङ्गुवारि सिगड्, ३५. पोन्दूरु, ३६. रणस्थलम् ३७. लावेरु, ।