श्रीरङ्गपट्टणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
श्रीरङ्गपट्टणम्
ಶ್ರೀರಂಗಪಟ್ಟಣ
—  नगरम्  —
र्श्रीरङ्गनाथमन्दिरम्
Coordinates: 12°24′50″N 76°42′14″E / 12.414°N 76.704°E / 12.414; 76.704
राष्ट्रम्  India
ऱाज्याणि कर्णाटकराज्यम्
मण्डलम् मण्ड्यमण्डलम्
विस्तीर्णम्
 • Total १३ Square km (५ Square mile)
औन्नत्यम्
श्रीरङ्गपट्टणम्
जनसङ्ख्या (2001)
 • Total २३,४४८
भाषाः
 • अधिकृत कन्नडभाषा
IST (UTC+5:30)
पत्रालयकूतटसंख्या 571 438
दूरवणीसंख्या 08236
वाहनपञ्जीकरणम् KA-11
जालस्थानम् www.srirangapatnatown.gov.in


श्रीरङ्गपट्टणम् (Srirangapatna) कर्णाटकराज्ये मण्ड्यमण्डले विद्यमानं किञ्चन क्षेत्रम् अस्ति । एतत् कावेरीनद्या निर्मितः द्वीपः अस्ति । अस्मिन् क्षेत्रे श्रीरङ्गनाथदेवालयः अस्ति । मैसूरुतः १९ कि.मी दूरे एतदस्ति ।

श्रीरङ्गनाथस्वामी देवालयः क्रिस्ताब्दे ८९४ तमे वर्षे निर्मितः । हैदराली-टिप्पुसुल्तानयोः राजधानी आसीत् श्रीरङ्गपट्टणम् । टिप्पुसुल्तानः मैसूरुहूलि(मैसूरुव्याघ्रः) इति ख्यातः आसीत् । दरियादौलत् राजगृहम्, हैदरालिटिप्पुसुलतानपरिवारस्य स्मारकाणि अत्र सन्ति । राजगृहस्य भित्तिचित्राणि राजगृहवस्तूनि आकर्षकाणि सन्ति । सुन्दरं वास्तुशिल्पम् अत्र द्रष्टुं शक्यते ।

रङ्गनाथस्वामी देवालयः

रङ्गनाथस्वामी देवालयः[सम्पादयतु]

एषः पुरातनप्रदेशः माण्डव्यमुनेः तपसः स्थानम् । माण्डव्यमुनिः एव अत्र श्रीजनार्दनं प्रतिष्ठापितवान् । बेङ्गलूरु-मैसूरु नगरयोः मध्ये मण्डयनगरम् अस्ति । मण्ड्यमण्डलं कृषिप्रधानम् अस्ति । एतत् क्रिस्ताब्दे १९३९ तमे वर्षे अस्तित्वे आगतम् अस्ति ।

पौराणिकरीत्या एतत् आदिरङ्गक्षेत्रम् अस्ति । गौतमक्षेत्रं श्रीरङ्गपुरी इति अपि नामनी स्तः । आंग्लाः एतत् नगरं श्रीरङ्गपटाम् इति उक्तवन्तः । अधुना श्रीरङ्गपट्टणम् इति ख्यातम् अस्ति । गौतमऋषिः अत्र श्रीरङ्गनाथम् आराधितवान् । कावेरी मातुः अपेक्षानुसारं श्रीकावेरी स्वस्य कृते एतत् स्थलं स्वीकृतवती । अत्र कावेरी श्रीरङ्गनाथस्य पादयोः समीपे उपविष्टा अस्ति इत्येषः अंशः अत्र साक्ष्यं वदति (सि हयवदन राव –मैसूरु गेजेट)।

श्रीरङ्गपट्टणस्य प्रमुखः आकर्षणीयः विषयः श्रीरङ्गनाथदेवालयः अस्ति । उत्तमं महाद्वारम् उन्नतं शिखरञ्च अस्य स्तः । गर्भगृहे श्रीरङ्गनाथस्वामी शयानः १५ पादपरिमितः विस्तारवान् च अस्ति । अत्र आदिशेषः स्वयं रक्षणं करोति । लक्ष्मीदेवी गौतममुनिश्च पादयोः समीपे सेवां कुर्वन्तौ तिष्ठतः । श्रीरङ्गनायकी एव श्रीरङ्गनाथस्य पत्नी । तस्याः निमित्तम् एकं पृथक् गर्भगृहम् अस्ति । अत्र रथसप्तमीपर्वणि ब्रह्मरथोत्सवः प्रचलति ।

एतत् एकं द्वीपम् अस्ति ५ कि.मीटर* २ कि.मी विस्तारितम् अस्ति । कावेरीनदी परितः प्रवहति । अस्य स्थलस्य १२ शतकपर्यन्तस्य चारित्रिकीप्राचीनता अस्ति । गङ्गराजानाम् अधिकारी तिरुमलः क्रिस्ताब्दे ८९४ तमे वर्षे एतं द्वीपम् अन्विष्य वने श्रीरङ्गनाथं प्रतिष्ठापितवान् ।

’श्रीरङ्गनाथमूर्तिः स्वयं व्यक्ता आसीत् । अधिकारी अन्विष्य मन्दिरं निर्माय पूजितवान्’ इत्यपि अन्यः आधारः सूचयति।

अनन्तरं चोळराजाः होय्सलराजाः स्वल्पकालं यावत् अत्र शासनम् कृतवन्तः । विजयनगरराजानां समये परितः दुर्गस्य निर्माणं कृतवन्तः । मैसूरुराजानां प्रशासनकाले (१५६५-१६१०) श्रीरङ्गपट्टणं मैसूरराजानाम् आधीन्ये आगतम् । टिप्पु सुल्तान् हैदर अलि प्रशासनकाले (१७९९तमे वर्षे) चतुर्थमैसूरुयुद्धस्य अनन्तरम् एतत् द्वीपम् आंग्लानां वशे आसीत् । तदनन्तरं मैसूरुराजानां प्रशासने योजितम् अभवत् ।

अत्र श्रीलक्ष्मीनरसिंहदेवालयः श्री विजयनरसिंहदेवालयः (१७ शतकीयः) आञ्जनेयदेवालयः, अम्बेगालुकृष्णः, गङ्गाधरेश्वरः अन्ये वैष्णवमठाः च दर्शनीयाः सन्ति ।

मार्गसूची[सम्पादयतु]

मैसूरुतः १४ कि.मी ।
बेङ्गळूरुतः १२५ कि.मी रेलयानस्य बसयानस्य च सौलभ्यम् अस्ति ।

वसतिः -मैसूरुमण्डयप्रदेशे उत्तमा ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=श्रीरङ्गपट्टणम्&oldid=246914" इत्यस्माद् पुनः प्राप्तिः