श्रीरामकृष्णपरमहंसः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
रामकृष्णः परमहंसः
हिन्दुधर्मगुरुः
Ramakrishna Marble Statue.jpg
बेलुरमठे श्रीरामकृष्णपरमहंसस्य मूर्तिः
जन्म February 18, 1836(1836-02-18)
जन्मस्थानम् कामारपुकुर, हुगलि, पश्चिमवङ्गराज्यम्, भारतम्
पूर्वाश्रमस्य नाम गदाधर चट्टोपाध्याय
मृत्युः 16 August 1886(1886-08-16) (aged 50)
मृत्युस्थनम् काशीपुर उद्यानबाटी, कोलकाता, पश्चिमवङ्गराज्यम्, भारतम्
गुरुः भैरवी ब्राह्मणी, तोतापुरी, गोविन्द राय
दर्शनम् अद्वैतवेदान्तः, भक्तिः
सम्मानम् परमहंसः
उक्तिः আমার ধর্ম ঠিক, আর অপরের ধর্ম ভুল – এ মত ভাল না। ঈশ্বর এক বই দুই নাই। তাঁকে ভিন্ন ভিন্ন নাম দিয়ে ভিন্ন ভিন্ন লোকে ডাকে। কেউ বলে গড, কেউ বলে আল্লাহ, কেউ বলে কৃষ্ণ, কেউ বলে শিব, কেউ বলে ব্রহ্ম। যেমন পুকুরে জল আছে – একঘাটের লোক বলছে জল, আর-একঘাটের লোক বলছে ওয়াটার, আর-একঘাটের লোক বলছে পানি – হিন্দু বলছে জল, খ্রীষ্টান বলছে ওয়াটার, মুসলমান বলছে পানি, - কিন্তু বস্তু এক। মত-পথ। এক-একটি ধর্মের মত এক-একটি পথ, - ঈশ্বরের দিকে লয়ে যায়। যেমন নদী নানাদিক থেকে এসে সাগরসঙ্গমে মিলিত হয়।[१]
पादटीका

रामकृष्‍णपरमहंसः

श्रीरामकृष्णपरमहंसः (बाङ्गला: শ্রী রামকৃষ্ণ পরমহংস, श्री रामकृष्णो परमोहंसो; पूर्वाश्रमस्य नाम गदाधर चट्टोपाध्याय[२])(१८ फेब्रुवरी, १८३६ - १६ अगष्ट्, १८८६) भारते जन्म कश्चन महान् धर्मोपदेशकः।[३] पश्चिमवङ्गराज्यस्य हुगलिमण्डले कामारपुकुरनामके ग्रामे १८३६ क्रिस्त्वब्दे फेब्रुवरी मासस्य अष्टादशे दिने अयं जनिमलभत। क्षुदिरामनामकः ब्राह्मणः अस्य पिता, माता तु चन्द्रमणिः। पितरौ तस्य गदाधर इति नाम अकुरुताम्। बाल्य एवायं स्वकीयासु चेष्टासु असाधारणीं प्रतिभां प्रकतयन्नवर्तत। स्वामिविवेकानन्दस्य गुरुः आसीत् सः।[४][५][६] एतौ द्वाऽपि बङ्गनवजगरणस्य[७] तथा विंशशताब्द्याः हिन्दुनवजागरणस्य[८][९] अग्रगण्यौ । अनेकान् शिष्यान् अध्यात्ममार्गे अग्रे अनयत् रामकृष्णः । तस्य शिष्यसमाजे, भक्तसमाजे च सः भगवतः अवताररूपेण कल्पितः आसीत्[१०]

तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत। अतः स विद्यालयगमने अनुत्सुकः आसीत्। सहचरैस्साकं ईस्वरभक्तिपरासु क्रीडासु संलग्नः कालमनयत्। तस्य भ्राता रामकुमारः जन्मग्रामात्तं कल्कत्तानगरं नीतवान्। तत्र दक्षीणेश्वरे कस्मिंश्चित् कालीक्षेत्रे गदाधरः अर्चकोऽभवत्[२] । सदापि ईश्वरचिन्तायां निलीनस्य गदाधरस्य शरीरसंस्कारेऽपि श्रद्धा नाऽसीत्। "देहि मे दर्शन"मिति विलपन् देवालयाङ्कणे लुठन्,चेष्टाश्च प्रदर्शयन्नयं जनैः उन्मादी इत्यमन्यत। लोकमुखात् स्वपुत्रमुन्मादिनं श्रुत्वा माता तं जन्मग्राममानिनाय, तस्य विवाहमप्यकारयञ्च। तेनैव निर्दिष्टा शारदामणि नामिका बालिका एवं तस्य धर्मपत्नी अभवत्।

पश्चिमवङ्गस्य लघु लघु ग्रामेऽपि तेन प्रदत्ताः उपदेशाः अतिप्रसिद्धाः आसन् । १८८६ तमे वर्षे रामकृष्णस्य प्रयाणस्य अनन्तरं अनुगामिनः तस्य कार्यमग्रे नीतवन्तः । एतेषाम् अनुगामिनां नेतृत्वं स्वामी विवेकानन्दः कृतवान् [११]। विवेकानन्दः रामकृष्ण मिशन् इति एकां धर्मीयसंस्थां निर्मितवान्[११]रामकृष्णान्दोलनं भारतस्य अन्यतमं नवजागरणान्दोलनम् [१२]रामकृष्ण मिशन्-संस्थायाः भारते तथा आ विश्वे १६६ शाखाः(२००८ तमवर्षे) विद्यामानाः सन्ति । अस्याः संस्थायाः प्रधनकार्यालयः पश्चिमबङ्गराज्यस्य हावडानगरस्य बेलुर मठे अवस्थितः[१३]

जीवनम्[सम्पादयतु]

जन्म शैशवश्च[सम्पादयतु]

कामारपुकुरेति ग्रामे रामकृष्णस्य जन्मस्थलम्, यत्र इदानीं तस्य स्मारकमन्दिरं विद्यते

पश्चिमवङ्गराज्यस्य हुगलिमण्डलस्य कामारपुकुरग्रामे १८३६ तमे वर्षे एकः दरिद्र-धर्मनिष्ठ-रक्षणशील-ब्राह्मणपरिवारे रामकृष्णपरमहंसः अजायत । तस्य पितरौ क्षुदिराम चट्टोपाध्याय तथा चन्द्रमणि देवी च आस्ताम् । एतयोः चतुर्थपुत्रः आसीत् अयं रामकृष्णः । कथितम् अस्ति यत् श्रीरामकृष्णस्य जननात् प्राग् पितामातुः जीवने बह्वः अलौकिकघटनाः घटिताः आसन् । शिवलिङ्गतः ज्योतिः तस्याः गर्भे प्रविष्टा इति सन्तानसम्भवा चन्द्रमणि देवी दृष्टवती आसीत् । तस्य पिता क्षुदिरामः तीर्थभ्रमणसमये गयायां गदाधरविष्णोः दर्शनम् अप्रप्नोत् । एतस्मात् सः नवजातस्य शिशोः नामकरणं गदाधर इति कृतवान् [१४]

शैशवकाले गदाइ इति नाम्ना परिचितः गदाधरः ग्रामवासीजनेषु अतिप्रीयः आसीत् । अङ्कने तथा मृत्प्रतिमानिर्माणे तस्य दक्षता सहजाता आसीत् । तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत। अतः स विद्यालयगमने अनुत्सुकः आसीत्[१५][१६]परन्तु गानवाद्यवादने, यात्राभिनये, धर्मीयोपाख्याने सः पारदर्शी आसीत्[१७] । तीर्थयात्री-संन्यासी-पुरणकथाव्याख्याकाराणां संससर्गेण अत्यल्पे वयसि एव पुराण-रामायण-महाभारतं तथा भागवतादिविषयेषु व्युत्पत्तिम् अर्जितवान् गदाधरः[१८] ।मातृभाषाबाङ्गलायां केवलम् अक्षरज्ञानं तस्य आसीत् ;[१९] किन्तु संस्कृतानुधाने सक्षमः भूत्वाऽपि सम्भाषणे अपारगः आसीत् ।[२०] पुरीतीर्थगमनमार्गे कामारपुकुरग्रामे विश्रामरतपथिकजनानां सेवाकार्यं सः अकरोत् । तस्मिन् समये तेषां धर्मीयतर्कवितर्कान् मनसा शृणोति स्म गदाधरः ।

श्रीरामकृष्णस्य स्मृतिचारणा इति पुस्तकात् ज्ञायते यत् सप्तमे वयसि एव रामकृष्णस्य आध्यात्मिकभावतन्मयता अगच्छति स्म । एकदा धान्यकृषिभूमौ चलनसमये आकाशे कृष्णमेघस्य उपरि श्वेतबलाकानां सौन्दर्येण मोहितः भूत्वा बाह्यज्ञानशून्यः सः अभूत् । अनन्तरकाले तस्य ताम् अवस्थाम् अनिर्वचनीयानन्दस्य अभिज्ञतारूपेण वणितवान् [१७][२१]। बाल्यकाले इतोपि कतिपय वारं तस्य अनुरूपं भावतन्मयता दृश्यते स्म [२२]

१८४३ तमे वर्षे तस्य पिता दिवङ्गतः । समग्रपरिवारस्य परिपालनदायित्वम् अग्रजस्य रामकुमारस्य उपरि आपतितम् आसीत् । इयं घटना गदाधरस्य मनसि गभीरप्रभावं विस्तारितवती । धर्मीयजीवनयापनस्य इच्छा इतोऽपि दृढा अभवत् । नित्यगृहस्य कार्ये, गृहदेवतायाः पूजायां च गदाधरः अधिकसमयं व्ययं करोति स्म । प्रायशः आत्ममग्नः भवति स्म धर्मीयमहाकाव्यपाठसमये [२३]

गदाधरस्य यदा किशोरावस्था तदा परिवारे आर्थिकसङ्कटम् अभवत् । अग्रजः राजकुमारः कोलकातायां एकं संस्कृतपाठशालां (बाङ्गला- সংস্কৃত টোল, संस्कृत टोल्) आरब्धवान् । अतिरिक्ते समये सः पौरहित्यं करोति स्म । १८५२ तमे वर्षे अग्रजं सहायतां कर्तुं गदाधरः कोलकातां गतवान् [२४]

दक्षिणेश्वरस्य कालीमन्दिरे पौरहित्यम्[सम्पादयतु]

दक्षिणेश्वरस्य कालीबाडि (कालीमन्दिरम्), श्रीरामकृष्णः तस्य जीवनस्य अधिकसमयम् अत्रैव यापितवान् ।

१८५५ तमवर्षे कोलकातायाः अस्पृश्य-कैवर्तसमाजस्य धनी सामन्तपत्नी राणी रासमणि दक्षिणेश्वरप्रदेशे कालीदेव्याः मन्दिरं निर्मितवती । मन्दिरस्य प्रधानार्चकरूपेण रामकृष्णस्य अग्रजः रामकुमारः नियुक्तः आसीत्[२५] । गदाधरोपि सहकारी अर्चकरूपेण प्रतिमायाः अलङ्करणं दायित्वेन स्वीकृतवान् । १८५६ तमे वर्षे रामकुमारस्य परलोकप्राप्त्यां सत्यां गदाधरः मन्दिरस्य प्रधानपुरोहितरूपेण अभिषिक्तः जातः । मन्दिरस्य ईषाणकोणे तस्य प्रकोष्ठः आसीत् । जीवनान्तपर्यन्तं सः अस्मिन् प्रकोष्ठे निवासं कृतवान् आसीत्[२६] । एवमनुमियते यत् राणी रासमण्याः जामाता मथुरामोहन विश्वास- महोदायेनैव रामकृष्णः नाम प्रदत्तमासीत्[२७] । अन्यमतानुसारं, इदं नाम तोतापुरी गुरुणा दत्तमासीत् ।

भवतारिणी काली, रामकृष्णेन पूजिता देवीमुर्तिः

रामकुमारस्य परलोकगमनोत्तरं रामकृष्णस्य भावतन्मयता अधिका जाता आसीत् । कालीदेवीं मातारूपेण तथा विश्वजननीरूपेण सः प्रत्यक्षितवान् । अस्मिन् समये देव्याः प्रत्यक्षरूपदर्शनाय तस्य मनः व्यकुलम् अभवत् । तस्य विश्वासेन पाषाणप्रतिमाऽपि अन्नग्रहणं करोति स्म । पूजावसरे देव्याः दर्शनम् अप्राप्य सः कदाचीत् उच्चैः क्रन्दनं करोति स्म । रात्रिकाले निकटवर्ती वनं गत्वा सः निर्जने स्थले वस्त्रोपवीत् त्यक्त्वा ध्यानं करोति स्म[२८] केचन उक्तवन्तः एषः उन्मत्तः जातः, अपरे तु मन्वन्ते स्म इश्वरप्रेम्नि आकुलः सः[२९]


टिप्पणी[सम्पादयतु]

  1. श्री श्रीरामकृष्णकथामृत, श्रीम कथितः, उद्बोधन कार्यालयः, कोलकाता, प्रथम-खण्ड-संस्करणम्, १९८६-८७, पृ-२३९
  2. २.० २.१ Smart, Ninian The World’s Religions (1998) p.409, Cambridge
  3. Georg, Feuerstein (2002). The Yoga Tradition. Motilal Banarsidass. pp. p.600. 
  4. Clarke, Peter Bernard (2006). New Religions in Global Perspective. Routledge. pp. p.209. "The first Hindu to teach in the West and founder of the Ramakrishna Mission in 1897, Swami Vivekananda,[...] is also credited with raising Hinduism to the status of a world religion." 
  5. Jeffrey Brodd; Gregory Sobolewski (2003). World Religions: A Voyage of Discovery. Saint Mary's Press. pp. p.275. "In 1897 Swami Vivekananda returned to India, where he founded the Ramakrishna Mission, and influential Hindu organization devoted to education, social welfare, and publication of religious texts." 
  6. Smith, Bardwell L. (1976). Hinduism: New Essays in the History of Religions. Brill Archive. pp. p.93. 
  7. Miller, Timothy (1995). America's Alternative Religions. SUNY Press. pp. pp.174-175. ISBN 9780791423974. "…Bengalis played a leading role in the wider Hindu renaissance, producing what can be termed the Bengali "Neo-Vedantic renaissance"" 
  8. Pelinka, Anton; Renée Schell (2003). Democracy Indian Style. Transaction Publishers. pp. pp.40-41. ISBN 9780765801869. "The Bengali Renaissance had numerous facets including the spiritual (Hindu) renaissance, represented by the names of Sri Ramakrishna and Swami Vivekananda, the combination of spiritual, intellectual, and political aspects…" 
  9. Bhattacharyya, Haridas (1978). "Part IV : Sri Ramakrishna and Spiritual Renaissance". The Cultural Heritage of India. University of Michigan: Ramakrishna Mission, Institute of Culture. pp. p.650. 
  10. Jackson, Carl T. (1994). Vedanta for the West. Indiana University Press. pp. p.78. ISBN 9780253330987. 
  11. ११.० ११.१ Dehsen, Christian D. Von; Scott L. Harris (1999). Philosophers and Religious Leaders. pp. p.159. 
  12. Cyrus R. Pangborn. "The Ramakrishna Math and Mission". Hinduism: New Essays in the History of Religions. pp. p.98. 
  13. "Belur Math". Retrieved 2008-10-26. 
  14. "The Birth of Ramakrishna". Ramakrishna and His Disciples. pp. p.13. 
  15. Transformation of Ramakrishna. pp. p.70. "The point to be made is that we are not dealing with an uneducated or ignorant ecstatic. Rather, because of his intelligence, his interest, his own study and his subsequent contact with Hindus of all schools of thought, we should realize that we are dealing with a well versed Hindu thinker who, because of the ecstatic nature of his religious experience, refused to be bound in and restricted by what he viewed as dry, rationalistic requirements of systematic discourse." 
  16. Bhawuk, Dharm P.S. (February 2003). "Culture’s influence on creativity: the case of Indian spirituality". International Journal of Intercultural Relations (Elsevier) 27 (1): pp. 1-22. "Scholars have called him "the illiterate genius"". 
  17. १७.० १७.१ Isherwood, Christopher (1974). Ramakrishna and His Disciples. Advaita Ashrama. pp. p. 28. 
  18. Muller, Max (1898). "Râmakrishna's Life". Râmakrishna his Life and Sayings. pp. pp.33. http://www.sacred-texts.com/hin/rls/rls14.htm. 
  19. Saradananda, Swami. The Great Master. pp. p.59. 
  20. Nikhilananda, Swami (1942). "Chapter 20 — RULES FOR HOUSEHOLDERS AND MONKS". The Gospel of Ramakrishna. http://www.belurmath.org/gospel/chapter20.htm. "During my boyhood I could understand what the Sadhus read at the Lahas' house at Kamarpukur, although I would miss a little here and there. If a pundit speaks to me in Sanskrit I can follow him, but I cannot speak it myself.… The realization of God is enough for me. What does it matter if I don't know Sanskrit?" 
  21. Swami Nikhilananda. The Gospel of Sri Ramakrishna. Ramakrishna Math, Chennai. pp. p. 4. 
  22. नीवेल्. श्रीरामकृष्णस्य परिवर्तनम्. pp. पृ.७०. 
  23. नीवेल्. श्रीरामकृष्णस्य परिवर्तनम्. pp. पृ.६८. 
  24. "The Boyhood of Ramakrishna". Ramakrishna and His Disciples. pp. p.37. 
  25. Amiya P. Sen, "Sri Ramakrishna, the Kathamrita and the Calcutta middle Classes: an old problematic revisited" Postcolonial Studies, 9: 2 p 176
  26. Isherwood, Christopher (1974). Ramakrishna and his Disciples. Advaita Ashrama. pp. pp. 55–57. 
  27. Life of Sri Ramakrishna, Advaita Ashrama, Ninth Impression, December 1971, p. 44
  28. "Chapter I". Kathamrita. 2. http://www.kathamrita.org/kathamrita2/k2sec01.htm. "When I [Ramakrishna] was in that state, everything blew away from me as if by the cyclone of Aswin. No indication of my previous life remained! I lost external awareness! Even my dhoti fell off, so how could I care for the sacred thread? I said to him, ‘If you once experience that madness for the Lord, you will understand.’" 
  29. Muller, Max (1898). "Râmakrishna's Life". Râmakrishna his Life and Sayings. pp. pp.37. http://www.sacred-texts.com/hin/rls/rls14.htm. 

जालस्थाने पठनसामग्री[सम्पादयतु]

पुस्तकानि
शोधपत्राणि

अधिकपठनाय[सम्पादयतु]

  • Ananyananda, Swami (1981). Ramakrishna: a biography in pictures. Advaita Ashrama, Calcutta. ISBN 978-81-85843-97-1. 
  • Chetanananda, Swami (1990). Ramakrishna As We Saw Him. St. Louis: Vedanta Society of St Louis. ISBN 978-0-916356-64-4. 
  • Hourihan, Paul (2002). Ramakrishna & Christ, the Supermystics: New Interpretations. Vedantic Shores Press. ISBN 1-931816-00-X. 
  • Olson, Carl (1990). The Mysterious Play of Kālī: An Interpretive Study of Rāmakrishna. American Academy of Religion (Scholars Press). ISBN 1-55540-339-5. 
  • Prosser, Lee. (2001) Isherwood, Bowles, Vedanta, Wicca, and Me. Writers Club: Lincoln, Nebraska. ISBN 0-595-20284-5
  • Satyananda, Saraswati. Ramakrishna: The Nectar of Eternal Bliss. Devi Mandir Publications. ISBN 1-877795-66-6. 
  • Torwesten, Hans (1999). Ramakrishna and Christ, or, The paradox of the incarnation. The Ramakrishna Mission Institute of Culture. ISBN 978-81-85843-97-1. 
  • Zaleski, Philip (2006). "The Ecstatic". Prayer: A History. Mariner Books. 

बाह्यसम्पर्काः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=श्रीरामकृष्णपरमहंसः&oldid=280914" इत्यस्माद् पुनः प्राप्तिः