श्वेताश्वतरोपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

श्वेताश्वतरोपनिषत् कृष्णयजुर्वेदस्य त्रयस्त्रिंशत्सु उपनिषत्सु अन्यतमा अस्ति । इमं श्वेताश्वतरशाखानां मन्त्रोपनिषत् इति श्रीशङ्कराचार्याः ब्रह्मसूत्रभाष्ये (१-१-११) उल्लिखितवन्तः सन्ति । षड्भिः अध्यायैः युक्तायाम् अस्याम् उपनिषदि ११३ मन्त्राः सन्ति । अन्तिमाध्यायस्य २१तमे मन्त्रे 'श्वेताश्वतरः स्वस्य तपःप्रभावेण दैवानुग्रहेण च ब्रह्मज्ञानं प्राप्य आत्माश्रमिणः अपि सम्यक् उपदिष्टवान्' इति लिखितम् अस्ति । तस्माद् एव अस्याः उपनिषदः नाम एवं स्यात् इति भासते । 'श्वेताश्वतर'इत्येतत् नाम प्राचीनवेदसाहित्ये अपरिचितं नाम नास्ति । श्वेत-अश्वतर - श्वेतवर्णीयः अश्वसदृशः प्राणी इत्येषः अर्थः । अयं प्राणी वैदिकयुगे अश्वः एव बहु मूल्यवान् आसीत् । श्वेतानाम् अश्वानां स्वामी श्वेताश्वश्चेत् श्वेतानाम् अश्वतराणां स्वामी श्वेताश्वतरः स्यात् ।

उल्लेखाः[सम्पादयतु]

श्रुतिषु इयम् उपनिषत् उच्चस्थाने अस्ति इत्यत्र न कोपि संशयः विद्यते । श्रीव्यासः स्वस्य ब्रह्मसूत्रेषु अस्याः नामोल्लेखं यद्यपि न कृतवान् तथापि 'श्रुत'इति स्पष्टतया निर्दिष्टवान् अस्ति । श्रुतत्वाच्च (ब्रह्मसूत्राणि-१ ४ ११) इत्येतस्य सूत्रस्य व्याख्यानकरणावसरे शङ्कराचार्यः अस्याः उपनिषदः

न तस्य कश्चित् पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम्
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः ॥ ६-९ मन्त्रम् उदाहृतवान् अस्ति ।

अयं मन्त्रः सर्वज्ञः ईश्वरः एव जगत्कारणीभूतः इति सूचयति । अपि च ब्रह्मसूत्राणां चमसाधिकरणे (१-४-८) अस्याः उपनिषदः मन्त्रः विषयवाक्यं जातमस्ति ।

अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणोऽनुशेते

जहात्येनां भुक्तभोगामजोऽन्यः ॥ ४-५ जीवनस्य परिमाणस्य (उन्मानस्य) विवृण्वन् शङ्कराचार्यः स्वशब्दोन्मानाभ्याम् (२-३-२२) सूत्रस्य व्याख्यानावसरे अस्याः उपनिषदः अयं मन्त्रः उदाहृतः अस्ति -

अङ्गुष्ठमात्रो रवितुल्यरूपः
सङ्कल्पाहङ्कारसमन्वितो यः ।
बुद्धेर्गुणेनात्मगुणेन चैव
आराग्रमात्रो ह्यपरोऽपि दृष्टः ॥ ५-८

श्रीभाष्ये अपि एताः मन्त्राः उदाहृताः सन्ति ।

कालनिर्णयः[सम्पादयतु]

अस्याः उपनिषदः कालनिर्णयः न तथा सुलभः । यतः अस्यां प्राचीनतमैः मन्त्रैः सह अर्वाचीनाः श्लोकाः अपि द्रष्टुं शक्याः । अत्रत्याः मन्त्राः ऋग्वेदे, वाजसनेयि-तैत्तिरीयसंहितासु च दृश्यन्ते । छान्दोग्य-बृहदारण्यकादिषु प्राचीनतमेषु गद्योपनिषत्सु इयं न अन्तर्भवेत् चेदपि ईशावास्य-काठक-मुण्डकादीनां पद्योपनिषदां गणे तु अन्तर्भूता इति वक्तुं शक्यम् ।

वैशिष्ट्यानि[सम्पादयतु]

हर-रुद्र-शिवादिभिः शब्दैः परमात्मनः निर्देशः[सम्पादयतु]

अनेन कारणेन इयं शैवसम्बद्धा इति निर्देशः कदाचित् क्रियते । किन्तु अयम् अभिप्रायः न समीचीनः । यतः तस्मिन् काले आगमाः न आसन् । परमात्मनः निर्देशः विविधैः शब्दैः क्रियते स्म । सर्वाणि नामानि कस्यचन विशेषगुणस्य निर्देशकम् अस्ति । हरः रुद्रः इव भगवत् (३-१४) अग्निः, आदित्यः, वायुः इत्यादिभिः शब्दैः अपि सम्बोधितः अस्ति ।

भक्तिः[सम्पादयतु]

अन्यासु उपनिषत्सु भक्तिः उपासनायाः दृष्ट्या प्रतिपादिता अस्ति । अत्र तु ऊहां विना स्पष्टरूपेण प्रतिपादिता अस्ति । षष्ठे अध्याये अन्तिमे मन्त्रे 'पराभक्तिः' इत्ययं शब्दः एव प्रयुक्तः अस्ति । शरणं प्रपद्ये इत्यादीनि पदानि अपि शरणागतिं पुष्टीकरोति ।

सगुणतायाः प्रतिपादनम्[सम्पादयतु]

भगवान् 'देवः' इति अत्र पौनःपुन्येन निर्दिष्टम् । देवः एव सृष्टिकर्ता, विश्वकर्मा, कर्माध्यक्षः, सहस्रशिरयुक्तः, सहस्राक्षी, सहस्रपात् पुरुषः सः एव । तमसः बहिः आदित्यवर्णः परमपुरुषः प्रकाशमानः अस्ति । अस्य स्वभावः एव माया । अयं मायां वशीकृतवान् महेश्वरः अस्ति । स्वस्य शक्त्या जगतः सर्जने अनुग्रहेण प्रपन्नजनानां मोक्षदाने च समर्थः अस्ति ।

साङ्ख्य-योग-प्रकृति-कपिलादिशब्दानां प्रयोगः[सम्पादयतु]

कदाचित् वेदान्तेन सह सांख्य-योगदर्शनानां समन्वयः जातः इत्येतम् अंशम् एते शब्दाः सूचयन्ति इति केचन भावयन्ति । किन्तु अस्याम् एतादृशः समन्वयः कुत्रापि न दृश्यते । अत्र 'साङ्ख्य'इत्येषः शब्दः 'सङ्ख्या'इत्यनेन उत्पन्नः अस्ति । सङ्ख्या नाम गणनम्, अवगमनम् इत्यर्थः । अस्याम् उपनिषदि एकनेमि त्रिवृत षोडशान्त पञ्चस्रोतोऽम्बु पञ्चप्राणोर्मि पञ्चावर्त... इत्यादयः गणनाः द्रष्टुं शक्याः -

तमेकनेमिं त्रिवृतं षोडशान्तं
शतार्धारं विंशतिप्रत्यराभिः ।
अष्टकैः षड्भिर्विश्वरूपैकपाशं
त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ १-४
पञ्चस्रोतोऽम्भुं पञ्चयोन्युग्रवक्रां
पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् ।
पञ्चवर्तां पञ्चदुःखौघवेगां
पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ १-५

अस्याम् उपनिषदि उल्लिखितः 'कपिल'शब्दः (५-६) पूर्वापराध्यैः सह यदि परिशील्येत तर्हि ज्ञायेत यत् अयं शब्दः साङ्ख्यप्रवर्तकं कपिलं न निर्दिशति इति । कपिलः नाम कनकसदृशः कपिलवर्णयुतः हिरण्यगर्भः इति - कपिलं कनक-कपिलवर्णं हिरण्यगर्भम्

शैली[सम्पादयतु]

उपनिषदः सामान्यतह् वेदान्ततत्त्वानाम् आकराः भवन्ति । किन्तु अस्याम् उपनिषदि तानि तत्त्वानि सरसशैल्या उक्तानि सन्ति । श्वेताश्वतरह् मन्त्राद्रष्टा इत्येतत् सत्यमेव । तेनैव सह सः कश्चन रसऋषिः अपि । कवेः सृष्टाः स्वतन्त्रमन्त्राः सर्वे अपि सुन्दरकाव्यगुणैः विभूषिताः दृश्यन्ते । परमात्मा स्त्री-पुरुषरूपेण, कुमार-कुमारीरूपेण, पतङ्गशुकादिरूपेण च अत्र निरूपितः दृश्यते -

त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी ।
त्वम् जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ ४-३
नीलः पतङ्गो हरितो लोहिताक्षः
तडिद्गर्भ ऋतवः समुद्राः ।
अनादिमत्त्वं विभुत्वेन वर्तसे
यतो जातानि भुवनानि विश्वा ॥ ४-४

प्रकृति-पुरुषयोः सम्बन्धः असदृशरूपकेन उल्लिखितं यत् तदस्ति अनन्यम् -

अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोन्यः ॥ ४-५
"http://sa.wikipedia.org/w/index.php?title=श्वेताश्वतरोपनिषत्&oldid=234011" इत्यस्माद् पुनः प्राप्तिः