संन्यासाश्रमः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

अथ चतुर्थे संन्यासाश्रमे व्यष्टिजीवनस्य सर्वान् पाशान् छित्त्वा इहलोकगतान् सर्वान् विचारान् परित्यज्य मोक्षसाधनार्थं प्रयत्नो विधेयः । अथवा विशुध्दया बुध्द्या ज्ञानदानादिना लोककल्याणार्थमेव शरीरम् आयासयितव्यम् । तत्र मनुः आह –

अनग्निरनिकेतः स्याद् ग्राममन्नार्थमाश्रयेत् ।
उपेक्षकोऽसांचयिको मुनिर्भावसमाहितः ॥ ६-४३ ॥

रघुवंशे महाकाव्ये रघुवंशीयराज्ञां जीवनपरिपाटिं वर्णयन् कालिदासः ब्रूते-

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥

जीवनस्य भागत्रयमतिवाह्यान्तिमे भागे सन्यासमाकलय्य मनुष्यो निष्कामो भवति । लोके कर्म द्विविधं भवति । ‘काम्य कर्म ’ ‘निष्काम कर्म ’ चेति । स्वभोगेच्छया क्रियमाणं कर्म ‘काम्यकर्म ’ इति, भोगनिरपेक्षतया च क्रियमाणं कर्म ‘निष्काम कर्म ’ इत्यभिधीयते । स्व-इच्छातृप्तये, स्व लाभाय क्रियमाणानां कर्मणां त्याग एव सन्यासस्य लक्षणम् ।तदुक्तं भगवद् गीतायाम्-

काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः - इति ।

लोके फलभोगेच्छया विषयसंग्रहणप्रवृत्तिर्जायते । सेयं भोगेच्छैव ‘त्यागे’ संयमनीया भवति । अत: कर्मकृत्वापि फलत्यागेन निर्दोषो भवति साधक: ।
सन्यासत्यागयोर्भेदोऽस्ति महान् । सन्यासी काम्यकर्मेभ्यो बिभेति । काम्यकर्मभि: दोषा: भवन्ति इति भयेनाऽसौ तत् न करोति । किन्तु त्यागी सर्वाण्यपि कर्माणि कुरुते । सर्वेऽपि दोषाः फलभोग प्रवृत्या भवन्तीति विज्ञाय कर्मफलानि इतरेभ्योऽर्पयति । अतः सन्यासी भवतु त्यागी वा भवतु । सर्वोऽपि भोगकामनां विहाय सर्वाण्यपि कर्माणि कुर्यात् । यज्ञः-दानं तप इति यानि मुख्यानि तानि कदापि न त्यजेत् । तथा हि- यज्ञदान तप: कर्म न त्याज्यम् [भ.गी.१८/३]
आश्रमधर्मभ्य: कर्मफलत्यागस्य शिक्षा मिलति । ब्रह्मचर्य वानप्रस्थ -सन्यासाश्रमेषु फलसंग्रहणं धर्मविरुध्दमिति ज्ञायते । गृहस्याश्रम एव कर्मफलं स्वान्तिके स्थाप्यते परं तदपि त्यागाय एव ।
तद्वारैव गृहस्थ: ‘त्रीनपि आश्रमान् ’ परेपालयितुं प्रभवति । एवमाश्रम व्यवस्थायां ‘त्याग’ एव परमो धर्म: । अतः-

अनाश्रित: कर्मफलं कार्यं कर्म करोति य: ।
स सन्यासी च योगी च न निरग्निर्नचाऽक्रिय: ॥

इति भगवद्गीताया: श्लोकेन सन्यासिन: परिभाषां ज्ञातुं पारयामो वयम् । तथा हि -
यः कर्मफलं नेच्छति, स्व कर्त्तव्यकर्म करोति स सन्यासी योगी च भवति । अपि च केवलम् अग्निकार्यं यस्त्यजति स एव सन्यासीति न मन्तव्यम् । तस्मात् कर्मफलेऽनासक्त: कर्त्तव्यकर्मपरायणश्च यो भवति स: सन्यासीति स्पष्टावधेयम् ।
‘चतुर्थमायुषो भागं त्यक्त्वा सङ्गात्परिव्रजेत्’
‘चतुर्थमाश्रमं गच्छेत् सन्यास विधिना द्विज:’
‘चतुर्थमायुषो भागं प्राप्य सङ्गात् परिव्रजेत् ’
‘चतुर्थे चायुष: शेषे वानप्रस्थाश्रमं त्यजेत् ’
इति क्रमश: मनुस्मृतौ - हारीतस्मृतौ-अग्निपुराणे -महाभारते च सर्वत्र ब्रह्मचर्य-गृहस्थ-वानप्रस्थाश्रमाणां च क्रमशः धर्माननुपाल्य, अन्ते सन्यासाश्रमेऽस्मिन् प्रविशेत् ।
स्व मनो मोक्षे निवेशयेत् । यत: सन्यासाश्रमस्य लक्ष्यमास्ते ‘मोक्षाख्य: पुरुषार्थ: ’ ।
सर्वोऽपि मानव: स्ववयोऽनुरुपमाश्रममाश्रयेत् । परं ब्रह्मचर्य-गृहस्थ-वानप्रस्थख्यानां त्रयाणामाश्रमाणां क्रमश: विधिवद्वेदाध्ययनं तपोमयजीवनं भौतिक विषयाणां मुपबोग: दाम्पत्यजीवनं , वंश्प्रतिष्ठा, वनप्रवेश:, संयमपालनं,योगादिकर्मसु प्रवर्तनं चेति तत्तदाश्रमनिर्दिष्ट नियमान् प्रथमं सम्यगनुपालयेत् ।यदैव वैराग्य भावन समुत्पद्यते तदैव सन्यासाश्रमं समाश्रयेत् । इत्येवम् आश्रमादाश्रमं गत्वाआत्मनस्त्रीणि ऋणान्यपाकुर्वन् मनोमिक्षे निवेश्अयेत् अन्यथा 'मोक्षप्राप्तिरसुलभा’ इति मनु: ।

तपसा कर्शितोऽत्यर्थं यस्तुध्यानपरो भवेत् ।
सन्यासी स हि विज्ञेयो वानप्रस्थाश्रमे स्थित: ॥

इति गरुगपुराण श्लोकेनापि-इदं ज्ञायते यत् वानप्रस्थाश्रम एव वानप्रस्थी तपसा शरीरं संकर्ष्य वैराग्योन्मुखः स्यात् । तादृश वैराग्य भाव सम्पन्न एव सन्यासी’ इति विज्ञेयः । अत: वानप्रस्थाश्रमः सन्यासाश्रमस्य साधनम् ।
गीतायां भगवता श्रीकृष्णेनापि कथितम्-समत्वभावापन्न: पुरुषो हि मोक्षमधिगच्छति । सोऽयं समत्वभावः योगाभ्यासेन भवति । परिवर्तिनि ससारेऽस्मिन् परिदृश्यमानानि सर्वाणि वस्तूनि नश्वराणि सन्ति । एतेषु नश्वरपदार्थेषु अविनाशी परमेश्वरो विराजत इति यो यथावत् जानाति स एव तं परमेश्वरं पश्यति ।
विश्वस्य विविधेषु विषमपदार्थेषु परमेश्वर: सम इति यो जानाति स विषमतास्वपि समतामवधारयति । विषमपरिस्थि तिश्वापि तस्य मन: समं भवति । सुखदु:खयो: लाभालाभयोअ; जयाजययोश्च समत्वबुध्दिर्भवति । एवं समत्वमापन्न: पुरुष: सर्वोत्कृष्टं पादमाधिगच्छतु ।
यदा च सर्वाणिवस्तूनि ब्रह्मणा व्याप्तानि इति ज्ञानम् उत्पद्यते तदा सर्वेष्वपि पदार्थेषु ‘अहमस्मि’ इति स्वयं स्पष्टो भवति । अनेन ज्ञानेन आत्मा ब्रह्मणा सह ‘अनन्य’ भावमापद्यते । तस्मिन् समये-

यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानत: ।
तत्र को मोह: क: शोक एकत्वमनुपश्यत: ॥

शोकमोहौ भेदभावेन हि उत्पद्येते । सर्वेऽपि भेदभावा एकत्वे लीनाइति यस्य ज्ञानमस्ति स निर्मलम् आनन्दमेव सर्वत्र प्राप्नोति ॥इति॥

संसारे विदुषामात्मलोकावबोधादेव पारिव्राज्यं सिध्यति । ‘प्रजामकामयमाना व्युत्तिष्ठन्तीति पारिव्राज्यम्’ ।

त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ।
वैराग्यं पुनरेतस्य मोक्ष्स्य परमोऽवधि: ॥
किं ते धनेन किमु बन्धुभिस्ते
किं ते दारैर्ब्राह्मण यो मरिष्यसि ।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहास्ते क्वगता: पिता च

इत्येवं सांख्ययोगशस्त्रेषु सन्यासो ज्ञानं प्रति प्रत्यासन्न इति कथितम् । सन्न्यासिन: कामप्रवृत्तिर्न स्यात् । कामप्रवृत्तेर्हि ज्ञान प्रतिकूलता सर्वशास्त्रेषु प्रसिध्दा । तस्माद्वरक्तस्य मुमुक्षो: विनापि ज्ञानेन ‘ब्रह्मचर्या देव प्रव्रजेत्’ इति कथनमुपपद्यते इति ।
‘ब्रह्मचर्यवान्प्रव्रजति’ इति, ‘अविशीर्णब्रह्मचर्यो यमिच्छेत्तमावसेत्’ इति, ‘वेदानधीत्य ब्रह्मचर्येण पुत्रपौत्रान् इच्छेत्पावनार्थं पितृणाम् । अग्नीनाधाय विधिवच्चेष्टयज्ञो । वनं प्रविश्याथ मुनिर्बुभूषेंत् ॥ इति , ‘प्राजापत्यां निरूप्येष्टिं सर्ववेदमदक्षिणाम् आत्मन्यग्नीन्समारोप्य ब्राह्मण: प्रव्रजेद् गृहात् ’ इत्यादीनि यथेष्टाश्रमप्रतिपत्तिप्रतिपादकानि श्रुतिस्मृतिवाक्यानि इतरेतरविरुध्दानि शतश: उपलभ्यन्ते ।
तदित्थं सन्यासी सर्वसङ्गंपरित्यज्य, सर्वकर्मफलं च परित्यज्य योग मापद्य ब्रह्मनिर्वाणमधिगच्छति इति सर्वशास्त्राणामेष उपदेश: ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=संन्यासाश्रमः&oldid=281722" इत्यस्माद् पुनः प्राप्तिः