संस्काराः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

संस्कारशब्दार्थः[सम्पादयतु]

बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगो दृश्यते परिष्करण–भूषण-प्रशिक्षण-संस्कृति-स्वशुद्धिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्रयुक्तोऽयं संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतया वर्णितम् । वेदान्तिनां मते "देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। भावस्य व्यक्तिकरणार्थमात्मब्यञ्जनशक्तिरेव संस्कार इति नैयायिकमतम् । धर्मशास्त्रे तु मानवस्य कायिक–वाचिकपरिशुद्ध्यर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो धर्मविशेषः संस्कार इति प्रतिपादितम् । सामान्यतः धार्मिकक्रियाकल्पार्थे संस्कारशब्दस्य व्यवहारो दृश्यते व्याकरणे । दोषापनोदनपूर्वकं गुणाधानमेव संस्कार इति फलितम् ।

संस्कारभेदः[सम्पादयतु]

गर्भाधानादारभ्यान्त्येष्टिं यावत् त्रयोदशसंस्काराः इति मनुना प्रतिपादितम् । ते च यथा – गर्भाधानम्, पुंसवनम्, सीमन्तोन्नयनम्, जातकर्म, नामकरणम् बहिर्निष्कमणम्, अत्रप्राशनम्, कर्णवेधनम्, चूडाकर्म, उपनयनम् केशान्तः समावर्त्तनम्, विवाहः, अन्त्येष्टिश्चेति । एषु केशान्तसंस्कारं विहायावशिष्टाः द्वादशसंस्काराः स्वीकृताः याज्ञवल्क्येन । तेन समावर्त्तनसंस्कारेण केशान्तसंस्कारस्यान्तर्भावः कृतः । बोधायनाचार्यैरपि सीमन्तोन्नयनानन्तरं गर्भिण्याः सप्तमे मासि विष्णुबलिः इति कश्चन चतुर्थः संस्कारः कथ्यते । अपि च ब्रह्मचारिणां वेदाध्ययनानन्तरं विवाहात् पूर्वं होतृ, शुक्रियं. उपनिषदं,गोदानं, सम्मितं चेति पञ्च वेदव्रतानि संस्कारत्वेन निर्दिष्टानि वर्तन्ते । केशान्तः इति संस्कारस्तु बोधायनाचार्यैः नोक्तः । तथा च उपनयनानन्तरं श्रवण्यां पौर्णमास्यां वेदोपाकरणं अथवा वेदारम्भः इति संस्कारोऽपि विहितः । एवं च षोडशसंस्कारा भवन्ति ।

षोडशसंस्काराः[सम्पादयतु]

संस्कारशब्दः सम् उपसर्गपूर्वकं 'कृञ्'धातुना घञ् प्रत्ययपूर्वकम् स्म्स्कृतभाषायां व्याकरणशास्त्रदृष्ट्या व्युत्पत्तिर्भवति । सम + कृञ् + घञ्, इति संस्कारः । संस्कारशब्दस्य प्रयोगः बहुधा भवति । मीमांसादर्शने अस्य संस्कारशब्दस्य अर्थः यज्ञाङ्गभूत पुरोडाशादि शुद्ध्यर्थं प्रोक्षणविक्षणादिना सम्पन्ना भवति । अद्वैतवेदान्तिमतानुसारेण शारीरिकक्रियाणां मिथ्याक्षेपः संस्कारः इति । नैय्यायिकभावना अभिव्यक्तिहेतुना आत्मव्यञ्जकशक्तिः संस्कारः कथ्यते । मानवजीवने संस्काराः महत्त्वपूर्णाः सन्ति । संस्कारैः मनुष्यत्वं मानवता एवं व्यक्तित्वविकासश्च भवति । भिन्नेषु ग्रन्थेषु संस्काराणां संख्या भिन्ना दर्शिता वर्तते । जन्मना मानवः अपूर्णः भवति । संस्कारैश्च तत्र पूर्णता आगच्छति । भारतीयग्रन्थपरम्परया प्रायः षोडशसंस्काराः करणीयाः इति अस्माकं भगवान् बादरायणः अपि सूचयति । ते च इत्थं सन्ति ।

गर्भाधानसंस्कारः[सम्पादयतु]

सृष्ट्यां मानवः सर्वोत्कृष्टो मन्यते । तस्य जीवनस्य उद्देश्यम् आत्मसाक्षात्कारो वर्तते । विधिपूर्वकं संस्कृतो मानवो दिव्यज्ञानमर्जित्वा आत्मसाक्षात्कारं कर्तुं प्रभवति । मानवस्य सम्पूर्णजीवनं संस्काराणां क्षेत्रं वर्तते । संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुध्दिः पवित्रता चास्ति । एते संस्कारा वस्तुतः गर्भस्याधानादेव प्रारभन्ते । अधिकांशगृह्यसूत्राणि गर्भाधानादेव संस्काराणां प्रारम्भं निर्दिशन्ति । प्रजननमपि मानवजीवनस्य् अङ्गभूतम् । धर्मशास्त्रानुसारम् अत्र काऽप्यशुचिता नास्ति । अस्मिन् विषये मनुराह –

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥

अस्यायमर्थो यद् वेदमूलत्वात् वैदिकैः पुण्यैः शुभैः मन्त्रप्रयोगादिभिः कर्मभिः द्विजातीनां गर्भाधानादिः शरीरसंस्कारः कर्तव्यः । यतोहि एष शरीरसंस्कारो न केवलम् इहलोके परलोके चापि पुनाति । एवम् उक्तप्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः पापं शमं याति । गर्भाधानं परिभाषमाणो जैमिनिराह –

गर्भः सन्धार्यते येन कर्मणा तद् गर्भाधानमित्यनुगतार्थं कर्मनामधेयम्

शौनकोऽपि प्रत्यपादयत् यत् यस्मिन् कर्मणि पुरुषेण निषिक्तो गर्भः स्त्रियां धार्यते तत् गर्भालम्भनं गर्भाधानं वेत्युच्यते –

निषिक्तो यत्प्रयोगेण गर्भः सन्धार्यते स्त्रिया ।
तद् गर्भालम्भनं नाम कर्म प्रोक्तं मनीषिभिः ॥

मनुयाज्ञवल्क्यादयः आचार्याः इदमेव कर्म निषेक् इत्यभ्यदधुः ।

पुंसवनसंस्कारः[सम्पादयतु]

गर्भधारणानन्तरं गर्भस्थशिशोः पुंसत्वं सम्पादनहेतोः पुंसवननाम्नः संस्कारः भवति । अत्र विभिन्नदेवानां प्रार्थना भवति । यया प्रार्थनया गर्भस्थशिशुः पुष्टो भूत्वा पुत्ररूपेणप्राप्तो भवेत । अस्मिन् अवसरे आयुर्वैदिकौषधीनां सेवनं, भगवतः विष्णोः पूजनं च कर्तव्यम् । येन कर्मणा पुमान् सूयते तत् पुंसवनम् । गर्भाधानस्य द्वितीये तृतीये वा मासि पुष्यानक्षत्रयुक्तायां तिथौ पुंसवनकर्म क्रियते । पुत्रजनननिमित्तं संस्कारः क्रियते । होमः औषधिसेवनञ्च परिपाल्यते ।

सीमन्तोन्नयनसंस्कारः[सम्पादयतु]

गर्भधारणानन्तरं चतुर्थे मासे सीमन्तोन्नयनसंस्कारः भवति । अत्रावसरे पतिपत्न्योः केशानां प्रसाधनं वा संवर्धनं च करणीयम् । तयोः कृते उत्सवरूपोयं संस्कारः । अत्र संस्कारः, नृत्यं, गानं, वादनम् इत्यादि भवति । पत्न्याः मनोरञ्जनार्थं सोमस्य स्तुतिः भवति । यदा चन्द्रः पुरुषवाचकनक्षत्रेण युक्तः भवति तदा एव एषः संस्कारः भवति ।सीमन्त उन्नियते यस्मिन् कर्मणि तत् सीमन्तोन्नयनम् । गृह्यसूत्रानुसारेण गर्भाधानस्य चतुर्थे पञ्चमे मासि सीमन्तोन्नयनसंस्कारः क्रियते । स्मृतिग्रन्थानुसारेण षष्ठे अष्टमे वा मासि संस्कारोऽयमनुष्ठीयते । त्रिभिः दर्भपिञ्जुलैः गर्भिण्याः सीमन्तं (केशम्) उर्ध्व विनयति स्वामी । गर्भरक्षणमस्य प्रयोजनम् । केशस्य विभजनद्वारा जातशिशोः यशः त्रिलोकं व्याप्नुयात् ।

जातकर्मसंस्कारः[सम्पादयतु]

जातकर्मसंस्कारः नवजातशिशोः संवर्धनार्थं तथा च तस्य परिपोषणार्थं भवति । एतस्मिन् नाभिवर्धनात्पूर्वं पञ्च ब्राह्मणैः वैश्वानरः अग्नेः स्तुतिः भवति । तथा च आहुतिः अपि देयं भवति । येन शिशोदीर्घायुष्यम् एवम् अभ्युदयश्च भवति ।गर्भकोशात् शिशौ निर्गते जातकर्म विधीयते । पुत्रमुखदर्शनेन पिता नाभिवर्धनात् प्राक् शीतोदकेन सतैलस्नानं विधाय उत्तराभिमुखी भूत्वा यथाविधि जाताकर्म कुर्यात् । जातकर्मणि पितृनुद्दिश्य नान्दीमुखीश्राध्दादिकर्माणि क्रियन्ते । एतत्सर्वं शौचानन्तरमेव कर्त्तव्यम् ।

नामकरणसंस्कारः[सम्पादयतु]

अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति । गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति । उच्चारणार्हं नाम् एतस्मिन् दिने भवति । शुभमुहूर्ते च नक्षत्रे मघुरध्वनियुतं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति । नाम्नः करणं नामकरणम् । शिशोः जन्मनः दशमे एकादशे वा दिवसे पुण्येऽवसरे पिता प्राणानाचम्य “ अस्य पुत्रस्य नामकरणं करिष्ये” इति संकल्प्य “ पुण्याहं कथयित्वा नान्दीश्राध्दं च विधाय ब्राह्मणान् भोजयित्वा कुमारस्य नाम" दद्यात् । ब्राह्मणशिशोः जन्मतः दशमदिवसे, क्षत्रियाणां त्रयोदशे षोडशे वा दिवसे, वैश्यानां षोडशे विंशतितमे वा दिवसे, शुद्राणां द्वाविंशे मासान्ते वा नामकरणसंस्कारः करणीयः ।

कर्णवेधसंस्कारः[सम्पादयतु]

कर्णवेधं प्रशंसन्ति पुष्ट्यायुः श्री विवृद्धये इति गर्गस्य उक्त्या अस्य संस्कारस्य प्रशंसा ज्ञायते । अस्मिन् संस्कारे प्रथमं बालकस्य दक्षिणे कर्णे सूर्यकिरण-प्रवेशयोग्यं छिद्रं तदनु वामकर्णे क्रियते । संस्कारेण अनेन अन्त्रवृद्धिः न भवति इति स्मृतिकाराणां मतम् -

शङ्कोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीयम् ।
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धि निवृत्तये ॥

कर्णवेधसंस्कारात् बालकेषु नपुंसकत्वम्, बालिकासु च बन्ध्यात्वं न भवति इति स्मृतिसङ्ग्रहबोधनम् ।

निष्क्रमणसंस्कारः[सम्पादयतु]

शिशोः गृहाद् प्रथमबहिर्निगमनं निष्क्रमणमित्युच्यते । चतुर्थमासि शुभे दिने संस्कारोऽयं करणीय इति मनुनोक्तम् । शिशोःमानसिक्यभिवृध्द्यर्थं वाह्मजगत ज्ञाननिमित्तं श्रीवृध्द्यर्थञ्च संस्कारोऽयं विधीयते ।

अन्नप्राशनसंस्कारः[सम्पादयतु]

अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम् । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम् । 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम् । घृतोदनं तेजस्कामः दधिमधु घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत् ।

चूडाकर्मसंस्कारः[सम्पादयतु]

चूडानां केशपाशानां संस्कारो येन कर्मणा क्रियते तत् चूडाकर्मेति कथ्यते । प्रथमे तृतीये वा संवत्सरे अथवा कुलधर्मानुसारेण् संस्कारोऽयं करणीयः । प्रवरसंख्यानुसारेण् चूडाकरणसंस्कारः कल्पितः। शिखा एकाधिका भवितुमर्हति । वशिष्ठगोत्रियाः शिरोमध्यभागे एकां शिखां धारयन्ति । अत्रिकाशयपगोत्रियाः पञ्चशिखां धारयन्ति । भृगुवंशीयाः सर्वमुण्डिताः भवन्ति ।

उपनयनसंस्कारः[सम्पादयतु]

बालसंस्काराणाम् उपनयनाख्यः संस्कारः एव सर्वप्रधानः । वेदाध्ययनाय गुरोः शिष्यस्य समीपे गमनम् उपनयनम् इति उच्यते । उपनयन शब्दोऽयम् उपपूर्वक नी धातोः ल्युट् प्रत्यययोगे निष्पद्यते । उप-समीपे (वेदपठनाय गुरोः समीपे) नयनमुपनयनम् । यदा पिता वेदम् अध्यापयितुम् असमर्थो भवति तदा स्वयं स्वपुत्रम् आचार्यस्य समीपं नीत्वा तस्य उपनयनार्थं प्रार्थयेत् । आचार्यश्च तम् उपनीय शिष्यत्वेन अङ्गीकृत्य तम् अध्यापयेत् । महर्षिगौतममतानुसारेण प्रथमतः अष्टमवर्षवयस्कं माणवकम् उपनयनसंस्कारेण संस्कुर्यात् । उपनयनं हि माणवकसंस्कारः ।

वेदारम्भसंस्कारः[सम्पादयतु]

उपनयनसंस्कारस्य अनन्तरं गुरुः शिष्यं वेदान् शिक्षयेत् । तदारम्भप्रधानः संस्कारः एव अयम् ।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ - याज्ञवल्‍क्‍यस्मृतिः

वेदारम्भः प्रथमं निजशाखायाः एव स्यात् । निजशाखां साङ्गोपाङ्गम् अधीत्य ततः शाखान्तराध्ययनक्रमः विहितः ।

केशान्तसंस्कारः[सम्पादयतु]

षोडशे वर्षे केशान्तसंस्कारः सम्पादनीयः । संस्कारोऽयं ब्रह्मचर्यस्य समप्तिमेव सूचयति । अस्मिन् संस्कारे ब्रह्मचारी केशानां श्मश्रूणां च क्षौरं करोति । अवसरेऽस्मिन् आचार्याय गोदानं क्रियते । नापितायापि उपहारः प्रदीयते ।

समावर्तनसंस्कारः[सम्पादयतु]

द्वादशवर्षाणि वेदग्रहणान्तं वा गुरुकुले ब्रह्मचर्यं चरित्वा ततः प्रतिनिवृत्तेन समावर्तनाख्यः संस्काराः अनुष्ठेयः । तत्र प्रधानभूतं कर्म स्नानम् । तच्च तस्य ब्रह्मचर्यप्रक्षालनोद्देशेन क्रियते । तेन स स्नातकाख्यो भवति । अत आश्रमाद् गृहगमनं समावर्तनम् इति गम्यते । अस्मिन्नवसरे एषः संस्कारह् सम्पाद्यते । संस्कारे अस्मिन् गुरोः उपदेशः भवति । एष उपदेशो ब्रह्मचारिणः जीवनयात्रां सुखदां सरलां च कर्तुं सारगर्भितो भवति । उपदेशवाक्यानि श्रद्धा-विश्वास-प्रेम-भक्ति-ज्ञान-वैराग्यादीनि ऐहिक-पारलौकिककल्याणानि वर्षन्तीव भान्ति ।

विवाहसंस्कारः[सम्पादयतु]

गृहस्थाश्रमं प्रविविक्षता विवाहसंस्कारः अनुष्ठीयते । अयं संस्कारः स्त्रीणामपि भवति । गृहस्थाश्रमपरिपालनाय 'गृहिण्या' अपेक्षा भवति । अतः स्त्रीपुरुषयोः सौन्दर्यं पौरुषं-नारीत्वं-चरित्रं कुलं चेति बाह्याभ्यन्तरदृष्ट्या उद्वाहः परिणयनं विवाहः इति वा अभिधीयते ।

इहामुत्र च नारीणां परमा हि गति पतिः
भर्तृमार्गानुसरणं स्त्रीणां हि परमं व्रतम् इति,
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते
तस्याः पुत्रं प्राप्य पुरुषः पूर्णोऽभवत् इति,

'पुत्रलाभेन पितॄणाम् ऋणाद् मुक्तिः' - इत्यादिभिः सुभाषितैः अस्य संस्कारस्य महत्त्वम् अवगम्यते ।

विवाहाग्निपरिग्रहसंस्कारः[सम्पादयतु]

आश्रमेषु गृहस्थाश्रमः विशिष्टः अस्ति । अस्मिन् प्रवेशार्हता विवाहसंस्कारेण भवति । तस्मिश्च संस्कारे अग्निः प्रधानदेवता । तस्य परिग्रहः एव अस्मिन् संस्कारे विशिष्टं कर्म । धर्मशास्त्रानुगुणम् आह्निकाचारयोः महत्त्वपूर्णं स्थानम् आस्ते । गृहस्थानां प्रमुखे कर्तव्ये आयाति अग्निपरिग्रहः । अग्न्याथानं नित्यकर्म भवति गृहस्थस्य । वेदाध्ययनम् अग्नौ समिधनिक्षेपणं वास्तविकः यज्ञः अस्ति ।

गृहस्थस्तु षडग्निः स्यात्पञ्चाग्निचतुरग्निकः ।
स्याद् द्वित्र्यग्निरथैकाग्निः नाग्निहीनः कथञ्चन ॥

अन्त्येष्टिसंस्कारः[सम्पादयतु]

अयं संस्कारः मानवजीवनस्यान्तिमसंस्कारः, येन संस्कारेण सह तस्यान्तिमजीवनं समाप्यते । अन्त्येष्टिसंस्कारेण मनुष्यः परलोकं प्राप्नोति । मृत्युपरवर्तिजीवनस्य सरलीकरणाय अयं संस्कारः अनुष्ठीयते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=संस्काराः&oldid=272068" इत्यस्माद् पुनः प्राप्तिः