संस्कृतभारती

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
संस्कृतभारत्याः कार्यालयः, बेङ्गळूरु

संस्कृतभारती (Samskrita Bharati) इति एका संस्था या च संस्कृतस्य संरक्षणर्थम् ,संवर्धनार्थम् , प्रसारणार्थं च अविच्छिन्नरूपेण निरन्तरम् कार्यं कुर्वती अस्ति । एतस्याः प्रधानकार्यालयः देहल्यां विद्यते । जगति संस्कृतभाषां व्यावहारिकाभाषात्वेन आनेतुं श्रममाणा अस्ति एषा संस्था ।

अन्तर्विषयाः

कार्यलक्ष्यम् [सम्पादयतु]

संस्कृतस्य सर्वतोमुखविकासं सम्पाद्य भारतस्य सर्वाङ्गीणोन्नतिसम्पादनमेव "संस्कृतभारत्या:" चरमं लक्ष्यम् । दूरगामिलक्ष्यमिदं साकारीकर्तुम् अपेक्षितस्य देशव्यापिन:, विशालस्य, गुणसम्पन्नस्य, शक्तिशालिन: ‘संस्कृतभारती’-नामकस्य जनसङ्घटनस्य निर्माणं समीपवर्तिलक्ष्यम् वर्तते । परं सङ्घटनस्य प्रत्येकम् घटकस्य कृते तु लक्ष्यं भवति संस्कृतस्य विकासाय कार्यकरणं, राष्ट्रोन्नतिसम्बन्धिषु कार्येषु सहभाग: चेति ।

१) व्यवहारभाषाकरणम् [सम्पादयतु]

चतु:शतात् वर्षेभ्य: पूर्वं विश्वे ५००० भाषा: आसन् । इदानीम् उपद्विसहस्रा: सन्ति । व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा: । व्यवहारह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति । "संस्कृतभाषा नित्यव्यवहारस्य भाषा करणीया इति।

२) शैक्षिकपरिवर्तनम् [सम्पादयतु]

सर्वकारीयनीतिपरिवर्तनं तु बहुसमयसाध्यम् । शैक्षिकं चिन्तनं प्रयोगश्च प्रत्यक्षत: परोक्षत: वा अस्माकं संस्कृतज्ञानाम् अधीनानि भवन्ति । अत: शैक्षिकपरिवर्तनं प्रारम्भबिन्दु: भवितुम् अर्हति । संस्कृत-शिक्षणे ‘संस्कृतस्य शिक्षणं’ भवेत्, न तु केवलं संस्कृतस्य विषये, वाङ्मयसम्बन्धे वा । संस्कृतशिक्षणविधे: गुणवत्ता, पाठ्यपुस्तकानां गुणवत्ता, शिक्षकाणां गुणवत्ता इति त्रिषु अंशेषु गुणवर्धनाय प्रयत्न: भवेत् । संस्कृतस्य संस्कृतमाध्यमेन पाठनं भवेत् । संस्कृतशिक्षणे प्राचीनार्वाचीनयो: उभयो: अपि विषययो: सङ्गम: भवेत् । कक्ष्यासु संस्कृतभाषाशिक्षणं तावद् आकर्षकं करणीयं यद् सर्वे छात्रा: संस्कृतमेव स्वीकुर्यु:, तावद् प्रभावि करणीयं यद् सर्वे छात्रा: संस्कृतेन भाषितुं लेखितुं च समर्था: भवेयु:, तावद् प्रेरणादायि करणीयं यद् सहस्रश: छात्रा: पश्चात् शास्त्राध्ययने प्रवृत्ता: भवेयु: ।

३) स्वाध्ययनसामग्रीनिर्माणम् [सम्पादयतु]

अभ्यासस्य पूरकरूपेण पुस्तकानि, ध्वनिमुद्रिका:,‘डिविडि’ इति त्रिविधा: सामग्र्य: अत्यन्तम् आवश्यक्य: । तासु अपि बहुवैविध्यानि भवेयु: । यथा - शिक्षार्थिनां वयस: अनुगुणं, शैक्षिकपृष्ठभूम्यनुसारं, वृत्त्यनुसारं, रुच्यनुसारं च विभिन्नानि पुस्तकानि भवितुम् अर्हन्ति । विभिन्नविषयाणां द्वारा शिक्षणाय बहुविधानि पुस्तकानि, भाषाशिक्षणस्य विभिन्नविधीनां द्वारा शिक्षणाय पुस्तकानि, संस्कृत-वाङ्मयस्य विविधांशानां शिक्षणाय पुस्तकानि, व्याकरणस्य एकैकं प्रकरणम् अधिकृत्य पुस्तकानि - इत्येवंप्रकारेण सहस्राधिकविधपुस्तकानि भवितुम् अर्हन्ति । तावन्ति एव डिविडि, ध्वनिमुद्रिका: च भवेयु: ।

४) सान्ध्यशिक्षणकेन्द्राणि [सम्पादयतु]

संस्कृताभिमानिन: संस्कृतपिपठिषव: समाजे असंख्या: सन्ति । स्थाने स्थाने, नगरे नगरे, ग्रामे ग्रामे सान्ध्यशिक्षणकेन्द्रम् आरब्धम् । तत्र बहुविधा: कक्ष्या: भवन्ति - प्रारम्भिका: कक्ष्या:, प्रगतपाठ्यक्रमा:, विविधविषयाणां शिक्षणकार्यक्रमा: चेति । स्वल्प-कालिका: दीर्घकालिका: च पाठा: ।


५) शास्त्रशिक्षणम् [सम्पादयतु]

संस्कृतभाषाध्ययनं नाम प्रथमसोपानम् । काव्याध्ययनं द्वितीयं सोपानम् । वास्तविकं संस्कृताध्ययनं नाम शास्त्राध्ययनम् एव । समग्रसंस्कृतवाङ्मयस्य नवनीतभूतं तु शास्त्राणि । भारतीयं ज्ञानम् इति कथ्यमानं तत्रैव वर्तते । परन्तु अद्यत्वे शास्त्राध्येतार: विरला: । सुष्ठु अध्यापयितार: तु विरलतरा: । सा शास्त्रपरम्परा नष्टा चेद् भारतस्य सर्वस्वमपि नष्टमिव । अत: अस्माभि: शास्त्राध्ययनसम्बन्धे विशेषचिन्तनं करणीयम् । सर्वेऽपि तदर्थं प्रेरणीया: । केचन प्रतिभावन्त: छात्रा: एतदर्थं चेतव्या:, शास्त्राध्ययने योजनीया:, अपेक्षितम् अर्थव्यवस्थादिकं कर्तव्यं च । शास्त्रपरिचायकशिबिराणि, शास्त्रार्थचिन्तनगोष्ठ्य:, शास्त्रकक्ष्या:, शास्त्रपरीक्षा: इत्यादय: स्थाने स्थाने आयोजनीया: । प्रतिशास्त्रं व्युत्पन्ना: युवविद्वांस: निर्मातव्या: ।

७) नवसाहित्यनिर्माणम् [सम्पादयतु]

यथा जना: गतसप्ताहस्य दिनपत्रिकां पठितुं न इच्छन्ति । अत: संस्कृते अपि अद्यतनजगत: सम्बद्धानां विषयाणां नवं साहित्यं स्रष्टव्यम् । तत्रापि बालसाहित्यं, मनोरञ्जनसाहित्यं, कथासाहित्यं, विज्ञानसाहित्यम् - इत्येवं साहित्यस्य विविधप्रकाराणां निर्माणं करणीयम् । सृष्टे नवसाहित्ये अद्यतनसन्निवेशा:, अद्यतनविषया:, अद्यतननामानि, अद्यतनं जीवनम्, अद्यतनी वैज्ञानिकी प्रगति: इत्यादिकं प्रतिबिम्बितं स्यात् । अद्यत्वे विश्वे सर्वासु अपि भाषासु महोन्नतसाहित्येषु अपि सरलतमभाषाया: प्रयोग:, गद्यात्मकता इति एतद् अंशद्वयं प्रचारे अस्ति । तदुभयमेव जनै: इष्यते, तथैव लिख्यते च । अत: संस्कृते अपि वाचकरुच्यनुगुणं सरलतमसंस्कृतेन प्रणीतं गद्यात्मकम् अभिनवं साहित्यं स्रष्टव्यम् । एतस्मिन् कार्ये अनुवाद:, अनुकरणं, सर्जनम् इति सोपानत्रयं भवितुम् अर्हति ।

८) दूरस्थशिक्षणम् [सम्पादयतु]

संस्कृतभारत्या: द्वारा पत्राचारमाध्यमेन संस्कृतस्य पाठनस्य व्यवस्था कतिपयेषु राज्येषु अस्ति । यथा यथा शक्ति: वर्धेत तथा तथा सर्वेषु अपि राज्येषु एषा व्यवस्था आरब्धा भवितुम् अर्हति । पत्राचारमाध्यमेन बहूनां संस्कृतविषयाणां बहुविधपाठ्यक्रमा: भवितुम् अर्हन्ति । इण्टरनेट्माध्यमेन शिक्षणम्, ‘सेटलैट् चानल्’माध्यमेन संस्कृतशिक्षणम् इत्येतादृश्य: काश्चन महाव्यवस्था: अपि करणीया: ।


कार्यक्रमाः [सम्पादयतु]

लक्ष्यसाधने कार्यक्रमाः साधनभूताः भवन्ति । कार्यक्रमः एव उद्देशः न, उद्देशार्थं कार्यक्रमः भवति । विचारप्रचारः, भाषशिक्षणं, कार्यकर्तृनिर्माणं, धनसङ्ग्रहः, नूतनक्षेत्रप्रवेशः, उत्साहवर्धनं, सङ्घटनं, कार्यस्य दृढीकरणम् इत्यादीन् विविधान् उद्देशान् साधयितुं तदनुगुणं कार्यक्रमान् रूपयामः । स्थानीयस्तरे कर्तुं योग्याः कार्यक्रमाः, जिला-महानगर-विभाग-राज्यस्तरेषु कर्तुं योग्याः कार्यक्रमाः इति अत्र द्विधा दद्मः ।

स्थानीयस्तरे [सम्पादयतु]

  • सम्भाषणशिबिरम्

सर्वेषु अपि कार्यक्रमेषु प्राणभूतः कार्यक्रमः एषः । प्रतिदिनं घण्टाद्वयमिव दशदिनानां निरन्तरकक्ष्या एव ‘सम्भाषणशिबिरं’ नाम । सामान्यतः 25-30 शिक्षार्थिनः । सर्ववयस्स्तरीयाः, सर्वविद्यास्तरीयाः अनधीतसंस्कृताः, स्त्रीपुरुषाः इत्यादयः सर्वे भागं वहेयुः । सम्भाषणशिबिरस्य प्रवेशशुल्कं न भवति ।

  • साप्ताहिकमेलनम्

प्रतिसप्ताहं निश्चिते दिने, निश्चितते समये, पूर्वनिश्चिते स्थाने सर्वे संस्कृतज्ञाः, संस्कृतच्छात्राः, संस्कृतानुरागिणः, कार्यकर्तारश्च घण्टां, घण्टाद्वयं वा यावत्, एकत्र आगच्छन्ति, संस्कृतेन व्यवहरन्ति इत्येतदेव साप्ताहिकमेलनं नाम । तस्मिन् मेलने भाषाभ्यासः, काव्याध्ययनं, पुस्तक-सम्भाषणसन्देशादीनां पठनं, भाषाक्रीडाः, गीतम् इत्यादयः कार्यक्रमाः भवन्ति ।

  • संस्कृतदिवसः संस्कृतसप्ताहश्च

श्रावणपूर्णिमा संस्कृतदिनम् । ततः पूर्वतनानि त्रीणि दिनानि, अनन्तरीयाणि त्रीणि दिनानि च मेलयित्वा संस्कृतसप्ताहः आचरणीयः इति केन्द्रसवर्र्कारेण उद्घुष्टम् अस्ति । यद्यपि भारते वर्षस्य 365 दिनानि अपि संस्कृतदिनानि भवेयुः, तथापि अद्य सा स्थितिः नास्ति । आनेतव्या तादृशी परिस्थितिः इति उद्देशेन साङ्केतिकरूपेण संस्कृतदिनस्य सप्ताहस्य च आचरणं कुर्मः । संस्कृतभारत्याः एकैकया शाखया अपि एषः उत्सवः आचरणीयः ।

  • प्रतियोगिताः (स्पर्धाः)

सामान्यतः छात्राणां प्रोत्साहनाय रुचिवर्धनाय वा एताः आयोज्यन्ते । गीताकण्ठपाठः, स्तोत्रकण्ठपाठः, अन्त्याक्षरी इत्यादयः सामान्यतया सर्वत्र भवन्ति । परन्तु भाषणम्, आशुभाषणं, सम्भाषणप्रदर्शनं, विनोदकणिका-कथनं, कथाकथनम् इत्यादयः स्पर्धाः आयोज्यन्ते चेत् अधिकः लाभः भवेत् । तथैव शब्दरूप-धातुरूप-पाणिनिसूत्र-अमरकोष-सुभाषितादिकथन- स्पर्धाः अपि महते लाभाय भवेयुः । एताः केवलं बालानां कृते भवेयुः इति नास्ति, विविधवयस्स्तरीयाणां कृते अपि भवितुम् अर्हन्ति । पुनश्च स्थानीय-तहसील्(तालूक्/ब्लाक्)जिलास्तरेषु अपि भवेयुः ।

  • संस्कृतबालकेन्द्रम्

सायङ्कालसमये 30 निमेषान् एकघण्टां वा यावत् बालकेन्द्रं चलेत् । तत्र सम्भाषणं, भाषाशिक्षणं, क्रीडाः, सांस्कृतिककार्यक्रमाः च भवन्ति - संस्कृतमाध्यमेन । मार्गदर्शनाय संस्कृतभारत्या एतत्सम्बन्धे लघुपुस्तकमपि प्रकाशितम् । एतेषु बालकेन्द्रेषु बालाः क्रीडन्तः एव द्वित्रेषु मासेषु एव सम्भाषणाभ्यासं कुर्विंन्त, नक्षत्र-तिथि-मासादि-सांस्कृतिकविषयान् अपि जानन्ति । स्वबालानाम् एतादृशेन शिक्षणेन, परम्परासम्बद्धसंस्कारेण, संस्कृतसम्भाषणेन च मातापितरः अत्यन्तं प्रभाविताः भवन्ति । कापि संस्कृतज्ञा युवतिः, शिक्षिका, गृहिणी वा स्वगृहे एव बालकेन्द्रं चालयितुं शक्नोति । तेन तस्याः गृहं परितः स्थितेषु गृहेषु संस्कृतस्य प्रवेशः भवति ।

  • सान्ध्यशिक्षणकेन्द्राणि

सायङ्कालसमये पर्यायदिनेषु संस्कृतपाठनस्य शिक्षणकेन्द्राणि एव ‘सान्ध्यशिक्षणकेन्द्राणि’ इति कथ्यन्ते । मासत्रयस्य, षण्मासानां, वर्षस्य वा पाठ्यक्रमः भवितुम् अर्हति । राष्ट्रियसंस्कृतसंस्थानस्य, अन्यस्य कस्यचिदपि संस्कृतविश्व विद्यालयस्य, संस्कृतपरीक्षासञ्चालनसंस्थायाः, संस्कृतभारत्याः एव वा पुस्तकानि स्वीकृत्य पाठाः भवेयुः । अन्ते शिक्षार्थिभ्यः प्रमाण-पत्राणि दातव्यानि । एतादृशं शिक्षणकेन्द्रं प्रतिस्थानं भवेत् ।

  • विविधजयन्त्यः / सामाजिकसमरसतादिनम्

विवेकानन्दजयन्ती, वाल्मीकिजयन्ती, अम्बेडकरजयन्ती, कालिदास-जयन्ती, महावीरजयन्ती, कबीरजयन्ती, बसवजयन्ती इत्यादीनां जयन्तीनाम् आचरणेन सामाजिकसमरसता अपि भवेत्, तत्तन्मतानुयायिनां जनानां संस्कृतभारत्या सह योजनमपि भवेत् । वाल्मीकिजयन्ती, अम्बेडकर-जयन्ती, कबीरजयन्ती इत्यादिकं किमपि एकं दिनं सामाजिकसमरसता-दिनरूपेण आचरणमपि संस्कृतभारत्याः उद्देशस्य साधने लाभाय भवेत् ।

  • पत्रालयद्वारा संस्कृतशिक्षणम्

मलयाल-तमिळ-कन्नड-आंग्ल-मराठी-गुजराती-हिन्दी-तेलुगुभाषा-माध्यमेन पत्रालयसंस्कृतशिक्षणयोजना इदानीं (एतत्पुस्तकलेखनसमये) प्रचलति । इतरभारतीयभाषाणां द्वारा अपि कारयितुं प्रयत्नः अस्ति । प्रत्येकस्मिन् स्थाने कार्यकर्तॄणां द्वारा अधिकसंख्यया जनाः पत्रालय-संस्कृतशिक्षणयोजनां स्वीकुर्युः इति प्रयत्नः भवेत् । प्रतिवर्षं स्वस्थानात् कति नूतनजनाः तस्यां योजनायां प्रवेश्यन्ते इति गणना स्थापनीया । एतस्याः योजनायाः व्यापकः प्रचारः अपि करणीयः ।

  • संस्कृतगृहम्

‘संस्कृतगृहं’ संस्कृतस्य आधारभूतं स्थानम् । सरलतया उत्तमतया च भाषाभ्यासः गृहे एव भवितुम् अर्हति । यस्मिन् गृहे सर्वे संस्कृतं जानन्ति अथवा पठन्तः सन्ति, यत्र दिनस्य कञ्चित् कालं यावत् संस्कृतेन व्यवहारः भवति, कश्चन तद् गृहं यदा गच्छति तदा तत्र सहजतया संस्कृतसम्भाषणं श्रुतिपथम् आयाति तादृशं गृहं संस्कृतगृहम् । किञ्च तस्मिन् गृहे संस्कृतेः प्रतिबिम्बनमपि स्यात् । संस्कृतगृहं कथं करणीयम् इति विषये ‘सङ्क्रमणम्’ इति पुस्तके विस्तरेण लिखितम् अस्ति । एतावत् तु सत्यं यत् यदि संस्कृतगृहं भवति तर्हि तस्य परिणामतः शतगृहाणां प्रेरणा भवति, शतग्रामेषु प्रचारः अपि भवति । संस्कृतगृहैः क्रमशः संस्कृतमातृभाषिपरम्परा उज्जीविता भवेदपि ।

  • स्नेहमेलनम् / कौमुदीकार्यक्रमः

सर्वे संस्कृतज्ञाः संस्कृतशिक्षार्थिनः च सपरिवारम् एकत्र मिलित्वा कञ्चित् कालं (कतिचन घण्टाः दिनं वा) यावत् स्नेहेन आनन्देन क्रीडन्तः, जल्पन्तः, चर्चयन्तः, चिन्तयन्तः, खादन्तः तिष्ठन्ति चेत् स्नेहमेलनं भवति, कस्मिंश्चिदपि गृहे, विद्यालये, उद्याने, प्रशान्ते सुन्दरे परिसरे वा एतादृशं मेलनं भवितुम् अर्हति । रात्रौ कौमुद्यां कश्चन विशिष्टः अपूर्वः च आनन्दः भवति सर्वेषाम् । अत्र विशेषतया केषाञ्चित् आह्वानं भवितुम् अर्हति । तेन आगताः प्रभाविताः भवेयुः । एतेन कार्यक्रमेण कार्यकर्तॄणां प्रेरणा वर्धते, तेषां गृहजनानाम् उपरि प्रभावः अपि भवति ।

  • संस्कृतप्रवासः

संस्कृतज्ञाः संस्कृतशिक्षार्थिनः च मिलित्वा दिनं, दिनद्वयं, ततोऽपि अधिकदिनानि वा मिलित्वा प्रवासार्थं गच्छन्ति - रमणीयस्थानं, तीर्थक्षेत्रम्, ऐतिहासिकं स्थानं प्रति वा । एकः एव नियमः यत् प्रवाससमये संस्कृतेन एव व्यवहारः भवेत् सर्वेषाम् । एतेन कार्यक्रमेण भाषाशिक्षणमपि भवेत्, उत्साहश्च संवर्धते ।

  • संस्कृतसन्ध्या

सायंसन्ध्याकाले त्रिचतुरघण्टानाम् अयं कार्यक्रमः सम्पूर्णतया संस्कृतेन । रूपकाणि, विनोदप्रसङ्गाः, गीतानि, नृत्यानि, अभिनयाः, संस्कृतगृहेषु कथं व्यवहारः भवतीति प्रात्यक्षिकम् इत्येतादृशाः कार्यक्रमाः तत्र । अत्यन्तं प्रेरणादायी कार्यक्रमः एषः ।

  • प्रदर्शिनी

दैनन्दिनोपयोगिनां सर्वेषां वस्तूनां संस्कृतनामानि लिखित्वा वस्तुभिः चित्रैः च सह सादृश्यैः सह वा स्थापनं, संस्कृतविज्ञानसम्बन्धे सचित्रविवरणं, संस्कृतसम्बन्धे, संस्कृतभारत्याः कार्यविषये च फलकानि, चित्राणि, चाटर्स् इत्यादीनां द्वारा जनप्रबोधनम् ।

  • शोभायात्रा

संस्कृतच्छात्राः, शिक्षकाः, अनुरागिणश्च सर्वे मिलित्वा नगरे प्रमुख-वीथीषु घोषणाः आघोषयन्तः शोभायात्रां कुर्वन्ति । हस्तेषु विविधविषयाणां बृहत्फलकानि, वस्त्रफलकानि च गृहीत्वा जनानां अवधानाकर्षणमपि कुर्वन्ति । शोभायात्रया नागरिकेषु जागर्तिः भवति, वार्तापत्रे सचित्रवार्ता प्रकाश्यते, ततोऽपि मुख्यं नाम यात्रायां गृहीतभागेषु उत्स्फूर्तः कश्चन महान् उत्साहः उद्भवति, प्रवहति च । कार्यकर्तारः प्राप्तप्रेरणाः भवन्ति अपि ।

  • वीथीनाटकम्

चतुष्पथे, बस्स्थानके, रेल्स्थानके, विपण्यां, मन्दिरसम्मुखे वा, यत्र जनाः अधिकाः सञ्चरन्ति तत्र, कार्यकर्तारः स्वयमपि वृत्ताकारेण उपविशन्ति, अन्यान् अपि उपवेशयन्ति । दश जनाः सम्मिलिताः भवन्ति । तदा कार्यकर्तारः सरलतमेन संस्कृतेन, तन्नाम तैः वीथीजनैः यथा अवगम्येत तथा परमसारल्येन, मन्दं मन्दं साभिनयं च वदन्तः वर्तमानकालिकविषयस्य वीथीनाटकं प्रस्तुवन्ति । अर्धघण्टाभ्यन्तरे कतिपयशतजनाः संस्कृतस्य आस्वादनं कुर्वन्ति । जनसमीपं संस्कृतं नेतुम् अयम् उत्तमः उपायः ।

  • वीथीभाषणम्

निर्वाचनसमये मार्गपार्श्वे मञ्चं किञ्चित् कृत्वा, अकृत्वा वा, ध्वनिवर्धकं स्थापयित्वा राजनीतिजनाः भाषणं कुर्वन्तः भवन्ति । एकस्मिन् कोणे किञ्चित्कालं भाषणं कृत्वा पश्चात् अन्यं कोणं गत्वा भाषणं कुर्वन्ति ते । आंग्लभाषायाम् एतत् ‘कार्नर् मीटिङ्ग्’ इति कथ्यते । जनाः संस्कृत-कार्यक्रमं न आगच्छन्ति चेत् जनाः यत्र भवन्ति तत्रैव गत्वा अस्माकं प्रचारकार्यक्रमः । तदेव वीथीभाषणम् । वर्षस्य कस्मिंश्चिदपि समये, अवसरं कञ्चित् निर्माय भाषणानाम् आयोजनं करणीयम् ।

  • सम्भाषणशिबिरप्रात्यक्षिकाणि

संस्कृतं सरलम् अस्ति, तेन सम्भाषणं कर्तुं शक्यते इत्येव जनाः न जानन्ति चेत् ते सम्भाषणशिबिरार्थिनः कथं भवेयुः ? जिलेबीखण्डमेकं खादन्ति चेदेव खलु जिलेबीरुचिः ज्ञायते ? पश्चात् पूर्णं जिलेबी खादितुम् इच्छा उत्पद्यते । एवमेव संस्कृतसम्भाषणस्य परिचयं कारयितुं विद्यालये, कार्यालये, मन्दिरे, सभायां, यत्र यत्र अवसरः लभ्यते तत्र सर्वत्र दशनिमेषाणाम् अर्धघण्टायाः वा सम्भाषणशिबिरस्य किञ्चित् प्रात्यक्षिकं करणीयम् । किञ्चित् सम्भाषणं, काचित् कथा, किञ्चित् विवरणं, संस्कृतेन संवादश्च । एतावता जनानां बहु आकर्षणं भवति । मुखे जलम् आयाति ।

  • सन्देशाभियानम्

सम्भाषणसन्देशः कार्यकर्तृभ्यः, छात्रेभ्यः, संस्कृतज्ञेभ्यः च आन्दोलन- सम्बन्धिविषयान् समये समये सूचयन् भवति । ‘सन्देशः’ किञ्चित् महत् प्रेरणास्रोतः । अतः सर्वः संस्कृतभारतीकार्यकर्ता व्यक्तिगतरूपेण अपि सम्भाषणसन्देशस्य ग्राहकः भवेत्, स्वयं यस्यां संस्थायां कार्यं करोति, तत्रापि आनाययेत् । (सः कार्यकर्ता संस्थायां सन्देशं पठति चेदपि कर्तव्यम् इति मत्वा स्वयमपि ग्राहकः भवेदेव ।) सर्वे संस्कृतच्छात्राः, अभिमानिनः, संस्कृतपण्डिताः, शिक्षकाश्चि यथा ग्राहकाः भवेयुः तथा प्रयत्नः करणीयः । जनाः सहजतया विस्मरणशीलाः इति कारणतः, अथवा नूतनाः योजनीयाः इत्यतः च प्रत्येकस्मिन् स्थाने वर्षे एकवारं सन्देशग्राहक-सङ्ग्रहाभियानं करणीयम् ।

  • सम्पर्कसप्ताहः / सम्पर्कपक्षः

सम्पर्कसप्ताहस्य पक्षस्य वा उद्देशचतुष्टयं भवति -

  1. गण्याः, प्रभाविजनाः वा सम्पर्कणीयाः, संस्कृतकार्ये योजनीयाश्च ।
  2. कार्यार्थम् अपेक्षितस्य धनस्य सङ्ग्रहः करणीयः ।
  3. विचारप्रचारः साहित्यविक्रयणं च स्यात् ।
  4. सर्वे कार्यकर्तारः (प्रत्येकं कार्यकर्ता) एकवारं भूताविष्टाः इव कार्ये अवतरेयुः ।

एतान् उद्देशान् मनसि निधाय तदनुगुणं कार्ययोजना, सज्जता च करणीया । गीताजयन्तीसमये अयं कार्यक्रमः क्रियते चेत् उचितं भवेत् । एतेन सम्पर्काभियानेन कार्यविस्तारः भवेत्, प्रभावः शक्तिश्च वर्धेत ।

  • छात्रशिक्षणशिबिरम्

माध्यमिकच्छात्राणाम्, उच्चमाध्यमिकच्छात्राणां, स्नातकच्छात्राणां, स्नातकोत्तरच्छात्राणां च तत्तदावश्यकतानुसारं भिन्नं भिन्नं प्रतिवर्षं किञ्चित् प्रशिक्षणशिबिरम् आयोज्यते चेत् ते सर्वे प्रमुदिताः सन्तः संस्कृतभारत्याः कार्ये संयुक्ताः भवेयुः, संस्कृतविषये तेषां प्रतिबद्धता रुचिः च वर्धेत । दिनत्रयस्य, पञ्चानां दिनानां, सप्ताहस्य, पक्षस्य वा कार्यक्रमः भवितुम् अर्हति ।

  • स्वाध्यायशिबिरम्

प्रतिमासम् एकस्मिन् सप्ताहान्ते (शनिरविवासरयोः) सर्वे एकत्र आगत्य कञ्चित् ग्रन्थं, कञ्चित् विषयं वा स्वीकृत्य अध्ययनं कुर्वन्ति । तदेव स्वाध्यायशिबिरम् । सामान्यतः व्याकरणविषयमेव स्वीकृत्य अध्ययनं कुर्वन्ति, तेन सह किञ्चन महाकाव्यमपि पठन्ति । कश्चन पाठयति, गणकार्यमपि कुर्वन्ति । चर्चारूपेण अपि अध्ययनं कुर्वन्ति । एतेन वर्षाभ्यन्तरे सर्वेषां ज्ञानं बहु वर्धते ।

  • संस्कारशिबिरम् / ग्रीष्मशिबिरम्

हिन्दुजीवनशिक्षणशिबिरं, गीताशिबिरं, योगशिबिरं, स्तोत्रशिबिरं, ललितासहस्रनामशिक्षणशिबिरं, सप्तशतीशिक्षणशिबिरं, खगोलशास्त्र-शिक्षणशिबिरं, स्वास्थ्यशिक्षणशिबिरं, रामायणशिबिरं, महाभारत-शिबिरं, वेदान्तशिबिरं, वेदशिबिरं, पूजापद्धतिशिक्षणशिबिरं, वास्तु-शिक्षणशिबिरं, मुहूर्तशिक्षणशिबिरम् इत्येवंप्रकारेण बहुविधानि सांस्कारिकशिबिराणि भवितुम् अर्हन्ति ।

मण्डल/महानगर/विभाग/राज्यस्तरे [सम्पादयतु]

संस्कृतभाषायाः संरक्षणार्थं एते कार्यक्रमाः अयोजनीयाः । ते क्रमशः भवन्ति।

  • अभ्यासवर्गः
  • भाषाबोधनवर्गः
  • शिक्षकप्रशिक्षणशिबिरम्
  • व्याकरणशिबिरम् / सिद्धान्तकौमुदीशिबिरम्
  • संस्कृतगृहसम्मेलनम्
  • शिक्षकसम्मेलनम्
  • छात्रसम्मेलनम्
  • महिलासम्मेलनम्
  • शास्त्रगोष्ठी / शास्त्रशिबिरम्
  • संस्कृतविज्ञानकार्यक्रमाः
  • शैक्षिककार्यशाला
  • नाटकोत्सवः
  • सम्भाषणोत्सवः / शिबिराभियानम्
  • व्यक्तित्वविकासशिबिरम् (नेतृत्वप्रशिक्षणम्)

वीथिका [सम्पादयतु]

  • पदाधिकारिणः

अवलोकयतु [सम्पादयतु]

संस्कृतभारत्याः कार्यपद्धतिः

बाह्यानुबन्धाः [सम्पादयतु]