संस्कृतभारती

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
संस्कृतभारत्याः कार्यलयः, बेङ्गळूरु

संस्कृतभारती इति एका संस्था या च संस्कृतस्य संरक्षणर्थं,संवर्धनार्थं,प्रसारणार्थं च अविच्छिन्नरूपेण निरन्तरम् कार्यं कुर्वती वर्तते । एतस्याः प्रधानकार्यालयः देहल्यां विद्यते । जगति संस्कृतभाषाम् व्यावहारिकाभाषात्वेन आनेतुं श्रममाणा अस्ति एषा संस्था ।

अन्तर्विषयाः

[सम्पादयतु] कार्यम्

सर्वस्य अपि सङ्घटनस्य, आन्दोलनस्य संस्थाया: वा किञ्चित् निर्दिष्टं लक्ष्यं भवति । तद् लक्ष्यं स्पष्टं भवेत्, व्याख्येयं च भवेत् । साध्यं ध्येयं च तद् उद्देश्यं तत्तत्सङ्घटन-कार्यकर्तृभि: सर्वैरपि समानतया सम्यक्तया च अवगतम् अपि स्यात् । संस्कृतस्य सर्वतोमुखविकासं सम्पाद्य भारतस्य सर्वाङ्गीणोन्नतिसम्पादनमेव संस्कृतभारत्या: चरमं लक्ष्यम् । दूरगामिलक्ष्यमिदं साकारीकर्तुम् अपेक्षितस्य देशव्यापिन:, विशालस्य, गुणसम्पन्नस्य, शक्तिशालिन: ‘संस्कृतभारती’-नामकस्य जनसङ्घटनस्य निर्माणमेव समीपवर्तिलक्ष्यम् । परं सङ्घटनस्य प्रत्येकम् घटकस्य कृते तु लक्ष्यं भवति संस्कृतस्य विकासाय कार्यकरणं, राष्ट्रोन्नतिसम्बन्धिषु कार्येषु सहभाग: चेति । संस्कृतस्य सर्वतोमुखविकासं सम्पादयितुं प्रत्येकेन घटकेन (तन्नाम सर्वै: कार्यकर्तृभि:) सम्भूय, व्यक्तिश: वा, सद्य: यानि कार्याणि करणीयानि सन्ति तेषां विषये ‘कार्य’नामके एतस्मिन् अध्याये वयं चिन्तयाम । एतानि कार्याणि एव संस्कृतभारत्या: सद्य:कालीनानि ध्येयोद्देश्यानि ।

  • मानसपरिवर्तनम्

कस्यचिद् सस्यस्य वर्धनाय आर्द्रा फलवती च भूमि: अपेक्षिता । अनुकूले परिवेषे एव कस्यचिदपि विचारस्य कार्यस्य वा विकास: भवति । संस्कृतविषये अपि तथैव । संस्कृतविषये जनानाम् अभिमान: आदरश्च अस्ति । परं विद्यालयेषु अनुवादविधिना रटनाभ्यासमात्रेण च संस्कृतं यत् पठितं तत्कारणत: जनानां मनस्सु ‘संस्कृतं कठिनम्’ ‘अभ्यसितुं न शक्यते’ इति भाव: निर्मित: अस्ति । भारतस्य शिक्षितजनेषु 55% - 60% जना: विद्यालयेषु संस्कृतं पठितवन्त: सन्ति । अन्ये जना: तु दुरवगम्यानां मन्त्राणां श्रवणस्य द्वारा एव संस्कृतं परिचिन्वन्ति । एवम् आहत्य सर्वेऽपि संस्कृतविषये उपर्युक्तभाववन्त: एव । अद्य शिक्षणं जीविकोपार्जनस्य मूलमिति कारणत:, तत्र संस्कृतम् आकर्षकं न इति कारणत: च संस्कृतं किमर्थं पठनीयम् इति न सामाजिका: अवगच्छन्ति, न वा संस्कृतज्ञा: सुष्ठु उपस्थापयितुं शक्नुवन्ति । अत: ‘कठिनम्’ ‘क: लाभ:’ इत्येतत् भावद्वयं संस्कृतस्य विकासे महद् अवरोधकम् । अन्येषाम् अवरोधकभावानां निवारणं वयं सरलतया कर्तुं शक्नुयाम, परं शताधिकवर्षेभ्य: निर्मितं निर्मीयमाणं च उपरितनं भावद्वयं परिवर्तयितुं महान् काल: श्रमश्च अपेक्षित: भवेत् । केनापि संस्कृताध्ययने प्रवृत्तेन भवितव्यं चेद् तस्य मनसि विद्यमानं तद् भावद्वयं परिमार्ष्टव्यम् । अत: संस्कृतं सरलं, मयापि अभ्यसितुं शक्यते, संस्कृतम् अपि अवश्यं पठनीयम् इति जनमानसे भावनिर्माणस्य कार्यं संस्कृतोज्जीवनाय अत्यन्तं महत्त्वभूतं, प्राथमिकं, सर्वप्रमुखं च कर्तव्यम् ।

  • व्यवहारभाषाकरणम्

संस्कृतपदानि भारतीयभाषासु सन्ति इति कारणत:, संस्कृतमन्त्रा: नित्यपूजादिषु प्रयुज्यन्ते इत्यस्मात् कारणात् च संस्कृतं व्यवहारे अस्ति इति प्रतिपादनं स्वसमाधानाय केवलं भवेत् । इतरभाषा: इव गृहे, विद्यालये, कार्यालये, समाजे च यदि संस्कृतस्य भाषारूपेण व्यवहार: भवति, स च व्यवहार: यदि जनानां श्रुतिपथं दृष्टिपथं च बहुधा आयाति तर्हि कालक्रमेण संंस्कृतस्य व्यवहारभाषारूपेण स्वीकृति: भविष्यति । संस्कृतं यदि व्यवहारभाषा भविष्यति तर्हि एव शिक्षणे सर्वकारीयनीतिषु च संस्कृतस्य अपि इतरभाषासमानं स्थानं भविष्यति । या भाषा तद्भाषाशिक्षकै: एव परित्यज्यते सा इतरै: किमर्थं सेव्येत ? यदा संस्कृतशिक्षका: दैनन्दिनजीवने संस्कृतस्य भाषारूपेण प्रयोगस्य प्रारम्भं कुर्वन्ति तदा क्रमश: संस्कृतच्छात्रा: संस्कृतानुरागिण:, अन्ये सामाजिका: च संस्कृतभाषाया: प्रयोगं कुर्यु: । एकसहस्रे सभासु एकसहस्रसंस्कृतपरभाषणानि यानि क्रियन्ते तेभ्य: अपि, एकस्य एकवर्षपर्यन्तं सर्वत्र सर्वै: सह संस्कृतेन सम्भाषणम् अधिकफलदायकं भवेत् । सम्भाषणमेव भाषते !

च.मू.कृष्णशास्त्री, अखिलभारतप्रकाशनप्रमुखः

जना: प्लवमानां, सुदृढां, यात्रायोग्यामेव नौकाम् आरोढुम् इच्छन्ति, न तु निमज्जन्तीं शीर्यमाणां च नौकाम् । तथैव व्यवहारे उपयुज्यमानां वर्धमानाम् एव भाषां जना: पठेयु:, न तु हीयमानां, ग्रन्थालयं प्रति प्रेष्यमाणां भाषाम् । संस्कृतं पूर्वं कथम् आसीत् इत्यस्मात् कारणात् न, अपि तु अद्य कथम् अस्ति इत्येतदनुगुणं संस्कृतविषयक: सर्वकारीय: नीतिनिर्णय: भवति । कस्मिंश्चिदपि जनतन्त्रे भाषाया: शक्ति: तद्भाषाभाषिणां संख्याम् अवलम्ब्य वर्तते, न तु तद्भाषाविषयकम् अभिमानम् अवलम्ब्य । संस्कृतस्य पूर्वमाहात्म्यकारणत: शिक्षाक्षेत्रे संस्कृतं स्वल्पमात्रेण अद्यापि अवशिष्टम् अस्ति । परम् एषा स्थिति: अधिककालं न तिष्ठेत् । लघुना अपि व्याजेन संस्कृतं निष्कास्यमानं परित्यज्यमानं वा अस्ति ।

‘भाषा’ ध्वनिशरीरा, न तु ग्रन्थकाया । सा व्यक्ता संस्कृता वाक् बहुजनै: उच्चार्यमाणा, नित्यश्रव्या च स्यात्, न तु कादाचित्कतया पूज्यमाना, विशिष्टाभूषणमिव विशेषावसरेषु धार्यमाणा वा । भाषा भाषणप्रधाना । भाषा (भाषारूपेण) रक्षिता चेदेव तद्भाषागतानि दर्शनानि शास्त्राणि च रक्षितानि भवन्ति । कस्याश्चिदपि भाषाया: प्राणा: नाम तया भाषया प्रतिदिनव्यवहार: । चतु:शतात् वर्षेभ्य: पूर्वं विश्वे 5000 भाषा: आसन् । इदानीम् उपद्विसहस्रा: सन्ति । व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा: । व्यवहारह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति । संस्कृतभाषा नित्यव्यवहारस्य भाषा करणीया । लक्षश: जनानां परस्परव्यवहार:, गृहव्यवहार:, विद्यालयव्यवहार: कार्यालयव्यवहार:, सामाजिकव्यवहार: च संस्कृतेन भवेत् । संस्कृतस्य पुन: व्यवहारभाषाकरणमेव संस्कृतस्य पुन: भाषात्वसम्पादनम् । किञ्च एतद् कार्यं संस्कृतसेवायां मूलभूतं कार्यं, प्राणभूतं च कार्यम् ।

  • शैक्षिकपरिवर्तनम्

यदि अद्यापि संस्कृतेन क्वचित् स्वस्मै किञ्चिद् वा स्थानं रक्षितम् अस्ति तर्हि तद् शिक्षाक्षेत्रम् । अधीतसंस्कृतानां प्रमुखम् उपजीविकामूलं शिक्षाक्षेत्रम् । तस्मिन् शिक्षाक्षेत्रे अपि संस्कृतस्य पादौ स्खलन्तौ स्त: । तत्र संस्कृतपाठशालासु छात्रसंख्याह्रासे, संस्कृताध्ययने प्रतिभावतां छात्राणाम् अभावे च प्रमुखं कारणं तु सर्वकारीयनीतीनां परिणामत: जात: उपजीविकानाम् अभाव: । परं समग्रे देशे संस्कृतशिक्षणस्तरस्य महति ह्रासे, संस्कृतशिक्षकाणां ज्ञानस्तरह्रासे च अन्यानि अपि कारणानि सन्ति । संस्कृभाषाशिक्षणविधि:, पाठ्यपुस्तकानि, शिक्षकाणां प्रशिक्षणाभाव:, विद्यालयीयस्तरस्य संस्कृतशिक्षणसम्बन्धे संस्कृतप्रमुखाणाम् उपेक्षा, बि.ए.-एम्.ए.कक्ष्यासु भाषाकौशलानाम् अनभ्यास: संस्कृतस्य अप्रयोग: वा, मध्यमाशास्त्रिप्रभृतिषु कक्ष्यासु शैक्षिकपरिवेषाभाव:, सर्वत्र संस्कृत-माध्यमस्य अभाव: इत्येतादृशानि बहूनि कारणानि सन्ति, यानि साक्षात् संस्कृतशिक्षकसम्बद्धानि । उपर्युक्ते स्तरह्रासे शिक्षानीतौ संस्कृतस्य स्थानम् इत्येतद् यदि 33% कारणं, तर्हि 67% कारणं भवति शैक्षिकपरिवर्तनाय संस्कृतज्ञानाम् अस्माकं स्वल्पप्रयत्न: अप्रयत्नो वा । संस्कृतस्य पुनरुज्जीवनस्य भागीरथे कार्ये प्रथमपदं प्रारम्भबिन्दु: वा क: भवितुम् अर्हति ? सर्वकारीयनीतिपरिवर्तनं तु बहुसमयसाध्यम् । शैक्षिकं चिन्तनं प्रयोगश्च प्रत्यक्षत: परोक्षत: वा अस्माकं संस्कृतज्ञानाम् अधीनानि भवन्ति । अत: शैक्षिकपरिवर्तनं प्रारम्भबिन्दु: भवितुम् अर्हति । संस्कृत-शिक्षणे ‘संस्कृतस्य शिक्षणं’ भवेत्, न तु केवलं संस्कृतस्य विषये, वाङ्मयसम्बन्धे वा ।

संस्कृतशिक्षणविधे: गुणवत्ता, पाठ्यपुस्तकानां गुणवत्ता, शिक्षकाणां गुणवत्ता इति त्रिषु अंशेषु गुणवर्धनाय प्रयत्न: भवेत् । संस्कृतस्य संस्कृतमाध्यमेन पाठनं भवेत् । संस्कृतशिक्षणे प्राचीनार्वाचीनयो: उभयो: अपि विषययो: सङ्गम: भवेत् । देशे लक्षत्रयं संस्कृतशिक्षका:, कोटित्रयं संस्कृतपठितार: छात्रा: च सन्ति । न्यूनातिन्यूनं संस्कृतकक्ष्याव्यवहार: वा संस्कृतेन यदि भवेत्, तर्हि तेनापि महान् अपूर्वश्च परिणाम: भवेत् । यावत् संस्कृतशिक्षायां गुणात्मकं परिवर्तनं न भवति तावत् संस्कृतक्षेत्रे कापि प्रगति: न भवेत् । कक्ष्यासु संस्कृतभाषाशिक्षणं तावद् आकर्षकं करणीयं यद् सर्वे छात्रा: संस्कृतमेव स्वीकुर्यु:, तावद् प्रभावि करणीयं यद् सर्वे छात्रा: संस्कृतेन भाषितुं लेखितुं च समर्था: भवेयु:, तावद् प्रेरणादायि करणीयं यद् सहस्रश: छात्रा: पश्चात् शास्त्राध्ययने प्रवृत्ता: भवेयु: । संस्कृतशिक्षणे, संस्कृतकक्ष्यासु वा तादृशं परिवर्तनम् आनेतव्यं येन देशे विश्वे च संस्कृतस्य चित्रस्यैव परिवर्तनं भवेत् । शैक्षिकपरिवर्तनं संस्कृतक्षेत्रस्य आन्तरिकसत्त्वं बलवत् करिष्यति । अन्ततो गत्वा निर्णायकं, यशस: मूलम् अन्त:सत्त्वं खलु !

चान्दकिरणसलूजः,संस्कृतभारत्याः अध्यक्षः
  • स्वाध्ययनसामग्रीनिर्माणम्

यद्यपि भाषा सम्भाषणमाध्यमेन एव अभ्यसनीया, तस्मिन् विषये आस्था कदापि न्यूना न भवेत्, तथापि तादृशस्य अभ्यासस्य पूरकरूपेण पुस्तकानि, ध्वनिमुद्रिका:,‘डिविडि’ इति त्रिविधा: सामग्र्य: अत्यन्तम् आवश्यक्य: । तासु अपि बहुवैविध्यानि भवेयु: । यथा - शिक्षार्थिनां वयस: अनुगुणं, शैक्षिकपृष्ठभूम्यनुसारं, वृत्त्यनुसारं, रुच्यनुसारं च विभिन्नानि पुस्तकानि भवितुम् अर्हन्ति । विभिन्नविषयाणां द्वारा शिक्षणाय बहुविधानि पुस्तकानि, भाषाशिक्षणस्य विभिन्नविधीनां द्वारा शिक्षणाय पुस्तकानि, संस्कृत-वाङ्मयस्य विविधांशानां शिक्षणाय पुस्तकानि, व्याकरणस्य एकैकं प्रकरणम् अधिकृत्य पुस्तकानि - इत्येवंप्रकारेण सहस्राधिकविधपुस्तकानि भवितुम् अर्हन्ति । तावन्ति एव डिविडि, ध्वनिमुद्रिका: च भवेयु: । एतानि सर्वाणि पुन: सर्वासां प्रादेशिकभाषाणां माध्यमेन पृथक् भवेयु: । एतादृशी: सामग्री: महता प्रमाणेन (महत्या संख्यया) मुद्रयित्वा प्रतिस्थानं विक्रयणव्यवस्था करणीया । किञ्च सा सामग्री सर्वेषु पुस्तकापणेषु अपि उपलभ्या भवेत् । उपर्युक्तरीत्या स्वाध्ययनसामग्र्या: निर्माणं तावत् हिमालयारोहणम् इव महत् कार्यं, बहु श्रमसाध्यं च कार्यम्; परं प्रवास: कर्तव्य: चेत् यथा वाहनानि अत्यन्तम् अपेक्षितानि तथा एतद् शिक्षणसामग्रीनिर्माणं प्रकृष्टोेपकारकं कार्यम् ।

  • सान्ध्यशिक्षणकेन्द्राणि

संस्कृताभिमानिन: संस्कृतपिपठिषव: समाजे असंख्या: सन्ति । सायङ्काले तेषां समय: अपि भवति । परन्तु अद्य सर्वत्र तादृशी व्यवस्था एव नास्ति । स्थाने स्थाने, नगरे नगरे, ग्रामे ग्रामे सान्ध्यशिक्षणकेन्द्रम् आरब्धव्यम् । तत्र बहुविधा: कक्ष्या: भवेयु: - प्रारम्भिका: कक्ष्या:, प्रगतपाठ्यक्रमा:, विविधविषयाणां शिक्षणकार्यक्रमा: चेति । स्वल्प-कालिका: दीर्घकालिका: च पाठा: । संस्कृतभारत्या: एव पाठ्यक्रम: भवितुम् अपि अर्हति । अथवा विश्वविद्यालयानां पाठ्यक्रमं स्वीकृत्य अपि पाठयितुं शक्यते । विद्यालयीयशिक्षा, महाविद्यालयीयशिक्षा, पारम्परिक-शिक्षा इति इदानीं संस्कृतशिक्षणस्य स्थानत्रयम् अस्ति चेत् आगामिनि काले सान्ध्यशिक्षणकेन्द्राणि इत्येतद् चतुर्थं स्थानं भवेदपि, किञ्च संस्कृतेतिहासे महत् किञ्चिद् परिवर्तनकेन्द्रमपि भवेत् ।

  • विज्ञानादिगवेषणम्

संस्कृतवाङ्मये विज्ञानादिसम्बद्धा: अद्यापि उपयोगिन: बहव: विषया: सन्ति इति संस्कृताभिमानिन: वयं वदाम: । परन्तु तस्मिन् क्षेत्रे कृतं शोधकार्यम् अत्यल्पम् । तत्र मुख्यं समस्याद्वयम् -

  1. क: ग्रन्थ: अध्येतव्य: अथवा शोधकार्यं कुत: कथं च आरब्धव्यमिति मार्गदर्शनकर्तार: न सन्ति ।
  2. संस्कृतज्ञा: विज्ञानं न जानान्ति, विज्ञानिन: संस्कृतं न जानन्ति ।

एतदर्थं स्थाने स्थाने संस्कृतज्ञानां वैज्ञानिकानां च गण: रचनीय:, मिलित्वा अध्ययनम् आरब्धव्यम् । दर्शनशास्त्राणां, वेदमन्त्राणां, पुराणानाम्, आयुर्वेदग्रन्थानां, चतु:षष्टिविद्याग्रन्थानां वा अध्ययनं कर्तुं शक्यते । अत्र ‘विज्ञानम्’ इत्यत्र विज्ञानस्य विविधशाखानाम् अन्तर्भाव: भवति, प्रबन्धविज्ञानादीनाम् अद्यतनविषयाणां सर्वेषाम् अन्तर्भाव: अपि भवति । एतस्य गवेषणस्य तत्क्षणलाभ: तु संस्कृतस्य उपयोगिता सप्रमाणं प्रतिष्ठापिता भवति, अद्यतने वैज्ञानिके आर्थिके च परिवेषे संस्कृतस्य बलं वर्धिष्यते इति ।

  • शास्त्रशिक्षणम्

संस्कृतभाषाध्ययनं नाम प्रथमसोपानम् । काव्याध्ययनं द्वितीयं सोपानम् । वास्तविकं संस्कृताध्ययनं नाम शास्त्राध्ययनम् एव । समग्रसंस्कृतवाङ्मयस्य नवनीतभूतं तु शास्त्राणि । भारतीयं ज्ञानम् इति कथ्यमानं तत्रैव वर्तते । परन्तु अद्यत्वे शास्त्राध्येतार: विरला: । सुष्ठु अध्यापयितार: तु विरलतरा: । सा शास्त्रपरम्परा नष्टा चेद् भारतस्य सर्वस्वमपि नष्टमिव । अत: अस्माभि: शास्त्राध्ययनसम्बन्धे विशेषचिन्तनं करणीयम् । सर्वेऽपि तदर्थं प्रेरणीया: । केचन प्रतिभावन्त: छात्रा: एतदर्थं चेतव्या:, शास्त्राध्ययने योजनीया:, अपेक्षितम् अर्थव्यवस्थादिकं कर्तव्यं च । शास्त्रपरिचायकशिबिराणि, शास्त्रार्थचिन्तनगोष्ठ्य:, शास्त्रकक्ष्या:, शास्त्रपरीक्षा: इत्यादय: स्थाने स्थाने आयोजनीया: । प्रतिशास्त्रं व्युत्पन्ना: युवविद्वांस: निर्मातव्या: । संस्कृत-सेवायां सर्वश्रेष्ठकार्यं नाम शास्त्रसेवनं, शास्त्रशिक्षणं, शास्त्रचिन्तनं, शास्त्रपाठनं, शास्त्रसंरक्षणंं, शास्त्रसंवर्धनं, च । तच्च कार्यं व्याकरणशास्त्रस्य शिक्षणेन प्रारब्धुं शक्यते । यत: व्यवहारभाषारूपेण विकसत: संस्कृतस्य संस्कृतत्वरक्षणाय, पाणिनीयत्वरक्षणाय, किञ्च, भाविनि काले आगमिष्यतां भाषागतप्रश्नानाम् उत्तरप्राप्त्यर्थं च व्याकरणस्य सार्वत्रिकशिक्षणं नितान्तम् आवश्यकं स्यात् ।

  • स्थानरक्षणम्

भारतस्य स्वातन्त्र्यानन्तरं प्रतिराज्यं संस्कृतस्य उपेक्षा अभवत्, विभिन्नेषु अवसरेषु संस्कृतस्य स्थानच्युति: अपि अभवत् । कदाचित् केनचित् दुरुद्देशेन संस्कृतं निष्कासितम् अथवा परित्यक्तं, पुन: कदाचिद् बलहीनम् इति कारणत: संस्कृतं बलिपशु: अभवत् । एतेषु सर्वेषु अवसरेषुु संस्कृतपक्षधरै: अपेक्षितप्रमाणेन विरोध: न कृत:, प्रतिभटनं न कृतं, आन्दोलनं न कृतं वा । वयं संस्कृतज्ञा: इतोऽपि क्रियाहीना: सन्त: उपविशाम: चेद् अपरिवर्त्यां महतीं हानिम् अनुभवेम । अत: इत: परं यत्रकुत्रचिदपि यादृशी अपि संस्कृतस्य क्षति:, स्थाननिराकरणं वा भवति, तर्हि अस्माभि: स्थानरक्षणाय, स्थानप्राप्त्यर्थं वा योद्धव्यम् । तादृश- परिस्थितौ समागतायां जनान्दोलनस्य उद्भावनं, न्यायालयगमनं, जनाभिप्राय-रूपणम् इत्यादिकं करणीयम् । आवश्यकतायां सत्यां सङ्घर्ष: अपि करणीय: । इत: परं, संस्कृतस्य प्रकृतं विद्यमानं स्थानं नष्टं न भवेत् । अत: संस्कृतहितरक्षणाय वयं ‘युद्धाय कृतनिश्चया:’ स्याम ।

  • नवसाहित्यनिर्माणम्

यथा जना: गतसप्ताहस्य दिनपत्रिकां पठितुं न इच्छन्ति, गतमासस्य साप्ताहिकीं पठितुं न इच्छन्ति, अपि तु अद्यतनीं दिनपत्रिकाम्, एतस्य सप्ताहस्य साप्ताहिकीं च पठितुम् इच्छन्ति, तथैव सामान्यत: वर्तमान-कालस्य विषयाणां साहित्यमेव जना: पिपठिषन्ति, न तु पौराणिकम् । अत: संस्कृते अपि अद्यतनजगत: सम्बद्धानां विषयाणां नवं साहित्यं स्रष्टव्यम् । तत्रापि बालसाहित्यं, मनोरञ्जनसाहित्यं, कथासाहित्यं, विज्ञानसाहित्यम् - इत्येवं साहित्यस्य विविधप्रकाराणां निर्माणं करणीयम् । सृष्टे नवसाहित्ये अद्यतनसन्निवेशा:, अद्यतनविषया:, अद्यतननामानि, अद्यतनं जीवनम्, अद्यतनी वैज्ञानिकी प्रगति: इत्यादिकं प्रतिबिम्बितं स्यात् । अद्यत्वे विश्वे सर्वासु अपि भाषासु महोन्नतसाहित्येषु अपि सरलतमभाषाया: प्रयोग:, गद्यात्मकता इति एतद् अंशद्वयं प्रचारे अस्ति । तदुभयमेव जनै: इष्यते, तथैव लिख्यते च । अत: संस्कृते अपि वाचकरुच्यनुगुुणं सरलतमसंस्कृतेन प्रणीतं गद्यात्मकम् अभिनवं साहित्यं स्रष्टव्यम् । एतस्मिन् कार्ये अनुवाद:, अनुकरणं, सर्जनम् इति सोपानत्रयं भवितुम् अर्हति ।

जनार्दन हेगडे, सम्भाषणसन्देशपत्रिकायाः सम्पादकः
  • आदर्शनिर्माणम्

भाषणस्य श्रवणं लेखनस्य पठनं वा यावतीं प्रेरणां ददाति ततोऽपि अधिकप्रेरणां ददाति पुरत: प्रत्यक्षत: विद्यमानम् उदाहरणम् । दृश्यमानम् उदाहरणं न केवलं प्रेरणाम्, अपि तु ‘एतत् कर्तुं शक्यते’ ‘अहमपि शक्नुयाम्’ इति विश्वासम् उत्पादयति । कथं कार्यं सम्पादनीयम् इति तद् निदर्शनमेव मार्गं पाठयति । अत: प्रत्येकस्थाने संस्कृतगृहं, संस्कृतभाषिबाला:, संस्कृतमातृभाषिबाला:, संस्कृतबालकेन्द्रं, संस्कृत-माध्यमेन पाठनं, संस्कृतग्राम:, संस्कृतवीथी, संस्कृतभाषिकार्यालय:, संस्कृतभाषिच्छात्रावास:, संस्कृतेन कार्यक्रमसञ्चालनं, विद्यालयस्य/कक्ष्याया: सर्वे बाला: संस्कृतेन वदन्तीति दृश्यम् इत्यादीनाम् एकैकम् उदाहरणं निर्मातव्यम् । ‘सम्भाषणत: शास्त्रपर्यन्तम्’ - सम्भाषणद्वारा आरब्धसंस्कृताध्ययना: शास्त्रपर्यन्तं पठेयु: इति अस्माकं य: विचार: अस्ति तस्यापि उदाहरणानि निर्मातव्यानि ।

  • दूरस्थशिक्षणम्

संस्कृतभारत्या: द्वारा पत्राचारमाध्यमेन संस्कृतस्य पाठनस्य व्यवस्था कतिपयेषु राज्येषु अस्ति । यथा यथा शक्ति: वर्धेत तथा तथा सर्वेषु अपि राज्येषु एषा व्यवस्था आरब्धा भवितुम् अर्हति । पत्राचारमाध्यमेन बहूनां संस्कृतविषयाणां बहुविधपाठ्यक्रमा: भवितुम् अर्हन्ति । इण्टरनेट्माध्यमेन शिक्षणम्, ‘सेटलैट् चानल्’माध्यमेन संस्कृतशिक्षणम् इत्येतादृश्य: काश्चन महाव्यवस्था: अपि करणीया: । ‘इलेक्ट्रानिक् मीडिया’ इत्यस्य द्वारा संस्कृतस्य प्रसाराय महान् प्रयत्न: करणीय: । तस्य माध्यमस्य व्याप्तिक्षमता अपारा । तत्र पुन: सर्वै: अवगमनयोग्येन सरलसंस्कृतेन कार्यक्रमा: भवेयु:, नो चेत् पुन: सर्वे ‘संस्कृतम् अवगन्तुं न शक्यते, तत् कठिनम्’ इति वदन्त: संस्कृतं तिरस्कुर्यु: ।

  • संस्कृतमाध्यमविद्यालया:

गणितविज्ञानेतिहासादीनां सर्वेषां विषयाणां पठनपाठनं, परीक्षा, परस्परव्यवहार: इत्यादय: सर्वे अपि संस्कृतमाध्यमेन यत्र भवन्ति तादृशा: विद्यालया: संस्कृतमाध्यमविद्यालया: इति कथ्यन्ते । प्रतिराज्यम् एतादृशानां संस्कृतमाध्यमविद्यालयानां स्थापनं भवेत् । एते विद्यालया: सर्वै: विषयै: सह संस्कृतस्य योजनाय कार्यं कुर्यु: । एष: उपक्रम: संस्कृतोज्जीवनकार्यस्य महत्तम: आयाम: भवेत् ।

  • सामरस्यनिर्माणम्

भाषा तु माध्यमम्, साधनम् । साध्यं तु अन्यत् किञ्चित् महत् भवति । जातिमतादिरूपेण या: भेदभावना: सन्ति ता: यदि संस्कृतभाषाया: द्वारा निवारिता: भवन्ति, न्यूना: वा भवन्ति, तर्हि सा काचित् महती उपलब्धि: भवेत् । समाजस्य उपेक्षितवर्गं संस्कृतं पाठयित्वा तेन एतं परिणामं साधयितुं शक्नुयाम । या भाषा समाजस्य न्यूनतानां निवारणं करोति, समस्यानां परिहारं च करोति सा सर्वै: आदृता भवति । संस्कृतद्वारा सामाजिक-समरसता इत्येतद् अद्यतने राष्ट्रियपरिप्रेक्ष्ये अत्यन्तं महत्त्वभूतम् ।

  • हिन्दुजीवनशिक्षणम्

पुरा तु गृहं, विद्यालय:, मन्दिरम् इति व्यवस्थात्रयं जनेभ्य: हिन्दु-संस्कारान् ददाति स्म । परन्तु अद्य ता: तिस्र: अपि व्यवस्था: स्वकर्तव्यनिर्वहणं कुर्वत्य: न सन्ति । हिन्दुजीवनादर्शानां, जीवनपद्धतीनां, विश्वासानां, श्रद्धानां, मूल्यानां, संस्काराणां च पाठनं क्रियते चेदेव, धर्मस्य, संस्कृते: च मूलतत्त्वानां बोधनं क्रियते चेदेव राष्ट्रं राष्ट्ररूपेण, समाज: समाजरूपेण च तिष्ठेत् । एतत् हिन्दुजीवनशिक्षणकार्यं संस्कृतज्ञै: एव कर्तुं शक्यते, संस्कृतज्ञै: एव करणीयं च । हिन्दुजीवनशिक्षणेन एव संस्कृतस्य अवस्थिते: सार्थकता !

  • ताडग्रन्थानाम् अध्ययनम्===

केन्द्रसर्वकारस्य संस्कृतिमन्त्रालयस्य अनुमानानुसारं ज्ञायते यत् भारते कोट्यधिका: अप्रकाशिता: ताडग्रन्था: सन्ति इति । एते भारतस्य प्राचीन-ज्ञानभाण्डारस्य अमूल्या सम्पद् । तेषु ताडग्रन्थेषु नवनवतिप्रतिशतं ग्रन्थानां प्रकाशनं न जातम् । पञ्चसप्ततिप्रतिशतं ग्रन्थानां सूची अपि न कृता । न केवलं तावत्, तेषां सुष्ठु संरक्षणमपि न प्रचलति । कीटानाम् आहारा: जायमाना: सन्ति ते । ग्रन्थलिपि: अन्या एव भवति इति कारणत: तेषां पठितार: अपि न सन्ति । अत: देशे सर्वत्र लिपिशिक्षणकार्यक्रमा: भवेयु: । किञ्च एकैक: संस्कृतज्ञ: एकैकं ग्रन्थं स्वीकृत्य अध्ययनं सम्पादनकार्यं च कुर्यात् ।

  • नाटकपरम्परोज्जीवनम्

संस्कृते नाटकरूपकादिरङ्गपरम्परा सुविख्याता आसीत् । सर्वा: कला: संस्कृतेन अभिव्यक्ता: भवन्ति स्म । मनोरञ्जनं संस्कृतेन प्रचलति स्म । अद्य सा परम्परा पुनरुज्जीवनीया । विशेषतया संस्कृतनाटकपरम्परा पुनरुज्जीवनीया । कथाप्रवचनादिकमपि संस्कृतेन भवेत् ।

[सम्पादयतु] पारम्परिकपाठशालासु चेतनोत्पादनम्

देशे उपपञ्चसहस्रा: संस्कृतपाठशाला: सन्ति । एता: पाठशाला: एव भारतीयज्ञानपरम्पराम् अद्यावधि प्रखरां ज्वलन्तीं रक्षितवत्य: । यद्यपि एता: पाठशाला: निस्तेजस्का:, निश्चेततना:, दुर्बलाश्च जाता:, तथापि अद्यापि ता: जीवन्ति इति तु अस्माकं सौभाग्यम् । अस्माभि: पुनरपि तत्र चैतन्यनिर्माणं करणीयम् ।

  • धर्मसंस्कृत्यो: विषये जागर्ति:

धर्म: संस्कृति: च भारतस्यैव वैशिष्ट्ये । एतदुभयमपि संस्कृतस्यैव उपायनम् । धर्म: संस्कृति: चैव भारतस्य जीववाहिन्यौ । सर्वै: अपि भारतीयै: ते सष्ठु अवगते स्याताम् । अवगमनस्य, बोधनस्य कार्यं तु संस्कृतज्ञानमेव । तयो: द्वयो: सम्बन्धे समयानुकूलव्याख्यानमपि संस्कृतज्ञै: एव कर्तव्यम् । संस्कृतस्य प्रगति: हितं वा धर्मसंस्कृत्यो: जागर्त्यामेव निहितमस्ति ।

  • सम्भृति:

अत्र तु कतिचन एव कार्याणि निर्दिष्टानि । करणीयानि तु इतोऽपि बहूनि सन्ति । प्रत्येकमपि कार्यम् अपारम् । यथा यथा अस्माकं शक्ति: वर्धिष्यते तथा तथा वयम् इतोऽपि कार्याणि स्वीकरिष्याम: । संस्कृतभाषया अद्यतनान् सर्वान् अपि व्यवहारान् कर्तुं महता प्रमाणेन नवीनपदानाम् (प्राचीनानां वा !) आवश्यकता अस्ति । संस्कृतस्य तु असंख्यकोटिपदनिर्माणसामर्थ्यम् अस्ति । अस्माकं संस्कृतज्ञानां तादृश-परिश्रमकरणस्य सामर्थ्यम् अपेक्षितम् । आगामिनि काले अस्माभि: महता प्रमाणेन व्यावहारिकपदनिर्माणं करणीयम्, प्राचीनप्रयोगाणां गवेषणं करणीयं च । आङ्ग्लेयानाम् आगमनात् पूर्वं, वैदेशिकानाम् आक्रमणात् पूर्वं वा समग्रे भारते शिक्षाया:, प्रशासनस्य, धर्मस्य, पूजाया:, विज्ञानस्य, वाणिज्यस्य, सम्पर्कस्य, साहित्यस्य, कलानां, चर्चाया: च माध्यमभाषारूपेण संस्कृतमेव आसीत् । अद्य आङ्ग्लभाषाया: यद् स्थानं वर्तते, आङ्ग्लभाषाया: आगमनात् पूर्वं तस्मिन् स्थाने समग्रे भारते संस्कृतमेव आसीत् । अस्माभि: पुनरपि राष्ट्रजीवनस्य सर्वेषु क्षेत्रेषु संस्कृतं प्रतिष्ठापनीयम् । (इतरभाषाभि: सह संस्कृतमपि, न तु केवलं संस्कृतम्) परं संस्कृतस्य प्रतिष्ठापनं संस्कृतज्ञानाम् अस्माकमेव कार्यम् । भारतीयतत्त्वानाम् आधारेण भारतस्य नवोत्थानकार्ये अपि संस्कृतज्ञानामेव प्रमुखभूमिका भवितुम् अर्हति । संस्कृतं विश्वभाषा भवेद् इत्यपि अस्माकम् आकाङ्क्षा अस्ति । सा विश्वभाषा भवेत् अपि । अद्य विश्वे शताधिकेषु देशेषु पञ्चकोट्यधिका: भारतीया: निवसन्ति । ते स्वीयानि अपत्यानि अस्मदीयसंस्कृतिं पाठयितुं शक्नुवन्त: न सन्ति । तत्र संस्कृतभाषाया: आश्रयणं तेषां समस्यां निवारयेत् । समग्रे विश्वे कोटिश: जना: (भारतीयमूलेतरे जना:) योग-वेदान्तायुर्वेद-ज्यौतिष-गीता-वेदोपनिषदादिकम् अनूदितग्रन्थानां द्वारा पठन्त: सन्ति । ते सर्वे संस्कृतपठने अपि रुचिमन्त: सन्ति, यत: ते मूलग्रन्थान् पठितुम् इच्छन्ति । यदि वयम् उपर्युक्तप्रकारद्वयस्य जनसमूहस्य संस्कृतपाठनं कुर्याम तर्हि संस्कृतं विश्वभाषा भवेदपि ।

संस्कृतभाषया विश्वभाषया भवितव्यं चेद् तत:पूर्वं तया भारतस्य भाषया (व्यवहारभाषया) भवितव्यम् । भारतस्य भाषया भवितव्यं चेद् प्रथमं ‘मम’ क्षेत्रस्य (नगरस्य, ग्रामस्य, वीथ्या: वा) भाषया भवितव्यम् । तदर्थं तत:पूर्वं संस्कृतं ‘मम’ विद्यालय-कक्ष्या-भाषा भवेत् । तत:पूर्वं सा ‘मम’ गृहभाषा भवेत् । तदर्थं प्रथमं सा ‘मम’ व्यवहारभाषा भवेत् । मयि अस्ति चेदेव मम गृहे, मम विद्यालये, मम ग्रामे, मम नगरे च । मत्त: एव विश्वपर्यन्तं व्यवहारयात्रा । सा एव संस्कृतस्य विजययात्रा ! तस्यां जैत्रयात्रायां निर्णायक: ‘अहम्’ । प्रारम्भकर्ता ‘अहम्’ । संस्कृतव्यवहारकर्ता, भाषाप्रयोगकर्ता, कार्यकर्ता ‘अहम्’, ‘अहमेव’ !

नन्दकुमारः, अखिलभारतसङ्घटनमन्त्री

[सम्पादयतु] सङ्घटनम्

  • सङ्घटनरचना

कस्मिंश्चिदपि स्थाने संस्कृतभारत्या: कार्यस्य प्रारम्भ: नाम तत्र सम्भाषणशिबिरादिसंस्कृतकार्यक्रमाणाम् आरम्भकरणम् । क्रमश: तस्मिन् स्थाने कश्चन एक: ‘संयोजक:’ इति नियोक्तव्य:, अथवा 4-5 जनानां ‘कार्यगण:’ रचित: भवेत्, अथवा 5-6 जनानां काचित् ’कार्यसमिति:’ औपचारिकरूपेण घोषिता भवेत् । कार्यसमितौ प्रारम्भे अध्यक्ष:, सचिव:, द्वित्रा: सदस्या: च भवेयु: । आवश्यकतानुसारं तदनन्तरं पदानि, सदस्यसंख्या च वर्धयितुं शक्यते । कार्यस्य आरम्भदशायां ‘कार्यगण:’ अस्ति चेदेव उत्तमम् । कार्यगणे 4-5 जना: सदस्या: भवन्ति, एक: संयोजक: भवति । एषा काचित् अनौपचारिकी व्यवस्था । एतादृश्यां व्यवस्थायाम् अधिकं समञ्जनसौकर्यं भवति । अनुभवबलेन पश्चात् काले योग्यान् समयदातॄन् कार्यकर्तॄन् जनान् स्वीकृत्य औपचारिकरूपेण कार्यसमितिं रचयितुं शक्नुम: । एतयोरेव स्थानीयगण:, स्थानीयसमिति: इत्यपि नाम भवति । आरम्भे संयोजक: भवति, स: गणं निर्माति, स: गण: समितिरूपेण विकसिष्यति इत्येष: विकासक्रम: भवितुम् अर्हति । एतेन क्रमेण भवेदित्यपि नास्ति । स्थान-परिस्थित्यनुगुणं क्रमपरिवर्तनं भवेदपि ।

उपर्युक्त: स्थानीयगण: (कार्यगण:) अथवा स्थानीयसमिति: (कार्यसमिति:) ग्रामस्तरे, नगरस्तरे अनुकूलव्याप्तिस्तरेे वा भवेत् । स्थानीय-संयोजक-गण-समितीनां नियुक्तिं कश्चन जिलापदाधिकारी कुर्यात् । सामान्यत: नियुक्ति: एकवर्षस्य कृते । अनन्तरवर्षे तस्या: एव समिते: पुनर्नियुक्ति: अथवा परिष्कार: भवितुम् अर्हति । कार्यस्य अनुकूलतां मनसि निधाय शैक्षिकं वर्षम् (अर्थात् जून्/जुलाईत: माई/जून्पर्यन्तं) कार्यवर्षम् इति परिगणयाम: । जिल्लास्तरे अपि संयोजक:, गण:, समिति: वा भवेत् । तस्या: नियुक्तिं राज्यपदाधिकारी करोति । एतेन एव प्रकारेण राज्यस्तरीयनियुक्तिम् अखिलभारतीयपदाधिकारी करोति । संस्कृतभारत्या: पदम् - अध्यक्ष:, उपाध्यक्ष:, कोषाध्यक्ष:, सचिव:, सदस्य: इति यत्किमपि - एतद् किञ्चित् उत्तरदायित्त्वं, न तु भूषणम् । व्यवस्थितरूपेण सुचारुरूपेण कार्यसम्पादनाय तद् उत्तरदायित्त्वं, तद् पदं भवति, न तु तद् स्वस्य ‘लेटर प्याड्’मुद्रणसमये उल्लेखाय, न वा मृदुमुद्राया: (रबर् स्टाम्प्) निर्माणाय । न कोऽपि कार्यकर्ता संस्कृतभारतीपदोल्लेखसहितं स्वस्य नाम्न: लेटरप्याड् मुद्रयेत् । (संस्कृतभारत्या: संस्थागतं लेटर् प्याड् अपि केवलं कार्यसम्बद्धाय औपचारिकपत्रव्यवहाराय, न तु वैयक्तिकपत्र-व्यवहाराय भवेत् ।)

स्थानीयसमिति: स्थानीयगण: वा संस्कृतभारत्या: लघुतम: घटक: भवति । परन्तु सङ्घटनस्य, कार्यस्य वा आधार: स: एव । स: घटक: यावत् क्रियाशील:, चैतन्यवान्, प्रभावी च भवति तावदेव संस्कृतकार्यं संवर्धते । अत: तस्य विषये एव सर्वाधिकं चिन्तनं करणीयम् । स्थानीयगणस्य प्रतिवर्षं न्यूनतमा: कार्यक्रमा: के भवेयु: इत्येतस्मिन् विषये प्रत्येकं राज्यं स्वस्य राज्यस्य सामर्थ्यानुगुणं कार्यस्य प्रगत्यनुगुणं च निश्चयं कुर्यात् । तथापि सामान्यत: अपेक्षा अस्ति यद् तत्र संस्कृत-भारतीनाम्ना वर्षे न्यूनातिन्यूनं द्वित्रा: वा कार्यक्रमा: भवेयु:, कार्यचिन्तनार्थं नियतकालावधौ कार्यकर्तॄणाम् उपवेशनानि अपि भवेयु: इति: ।

संस्कृतभारती केवलं संस्कृतज्ञानां सङ्घटनं नास्ति । संस्कृतच्छात्रा:, संस्कृतशिक्षका:, संस्कृतानुरागिण: इत्यादीनां सर्वेषां सामाजिकानां सङ्घटनम् इदम् । जाति-मत-प्रदेश-भाषादिभेदान् विना संस्कृतासक्ता: संस्कृत्यासक्ता: च सर्वे संस्कृतभारत्यां स्वागतम् अर्हन्ति । संस्कृतभारत्यां सदस्यता, सदस्यताशुल्कं वा नास्ति । संस्कृतस्य अध्ययनेच्छुका:, कार्योत्सुका:, संस्कृतविकासकाङ्क्षिण: च सर्वे संस्कृतभारतीसदस्या: एव - यदि ते तथा चिन्तयन्ति । प्रतिवर्षं कार्यकर्तॄणाम् अभ्यासवर्ग:, (राज्यस्तरे, विभागस्तरे, जिलास्तरे वा) नियतरूपेण (पाक्षिकं, मासिकं, द्वैमासिकं वा) जायमानं कार्यस्य योजनायै क्रियान्वयनाय मूल्याङ्कनाय वा क्रियमाणं कार्यकर्तॄणाम् उपवेशनम्, राज्यपदाधिकारिणा जिलापदाधिकारिणा वा स्थाने स्थाने क्रियमाण: प्रवास: - इति एतै: त्रिभि: अंशै: सङ्घटनं वर्धते ।

प्रतिस्थानं कार्यकर्तॄणां निश्चितकालावधौ नियतरूपेण उपवेशनं (बैठक्) अत्यन्तम् आवश्यकम् । तत्र उपवेशनेषु न केवलं कार्यचिन्तनं भवति, अपि तु कार्यकर्तॄणां मध्ये सौहार्दरूपेण मुक्ततया च जायमानेन वार्तालापेन गणभाव: वर्धते, पुन: पुन: मेलनेन परस्परं स्नेहभावबन्ध: दृढ: भवति, ध्येयं प्रति बद्धता दृढतरा भवति, कार्योत्साह: प्रेरणा च वृद्धिं गच्छति । अत: उपवेशनं (गोष्ठी) नियतरूपेण भवेदेव ।

जिलास्तरीयै: राज्यस्तरीयै: च कार्यकर्तृभि: प्रवासं कृत्वा स्थाने स्थाने कार्यकर्तॄणां गोष्ठी स्वीक्रियते चेद् स्थानीयकार्यकर्तॄणां कार्यकल्पना, प्रेरणा च भवति, कार्यशिक्षणं च भवति । प्रवासेन कार्यविस्तार: भवति, कार्यस्य दृढीकरणं च भवति । प्रवासेन एव कार्यकर्तॄणां चिन्तनं, समस्या:, अनुभवा: च ज्ञाता: भवन्ति, येषाम् आधारेण एव जिलाक्षेत्रस्य, राज्यस्य वा कार्ययोजना कर्तुं शक्या । अत: ज्येष्ठकार्यकर्तृभि: प्रवासाय समय: दातव्य: एव ।

कार्यकर्तॄणां परस्परम् अनौपचारिक: वार्तालाप: यावदधिक: भवति तावदधिकं सङ्घटनवृक्षस्य मूलं गभीरं गच्छति । यथा कस्यचित् वाहनस्य, द्विचक्रिकाया: वा सर्वेषु सन्धिषु तदा तदा तैलदानेन, ‘ग्रीस्’योजनेन घर्षणं न भवति, शब्द: च न भवति, तथैव सङ्घटने कार्यकर्तॄणां मध्ये परस्परं संवाद:, स्नेहजल्पनम्, अनौपचारिकता, पारस्परिकता च ‘लुब्रिकेषन्’ इव कार्यं करोति । तेन एव व्यक्तिनिर्माणं भवति । तेन एव कार्यकर्तॄणां मनोवेदना: निवारिता: भवन्ति । संवादहीनता नष्टा भवति । शिक्षार्थिनां, कार्यकर्तॄणां, संस्कृतज्ञानां, संस्कृतसमर्थकानां, दातॄणां, पत्रकाराणां, प्रभाविजनानां, विविधसंंस्थाप्रमुखाणां च सम्पर्क:, अर्थात् तै: सह मेलनं वार्तालाप: च, कार्यस्य पोषणं करोति । एवं स्थानीयस्तरे सम्पर्क:, जिला-राज्य-स्तरयो: प्रवास: सम्पर्कश्च इत्येते सङ्घटनस्य शक्तिं वर्धयन्ति ।

वर्षारम्भात् पूर्वं वर्षारम्भे वा कार्ययोजनागोष्ठी, वर्षान्ते कार्य-समीक्षागोष्ठी, कार्यकर्तॄणां प्रशिक्षणं च प्रतिवर्षं प्रचलति चेत् सङ्घटनस्य संख्यात्मकवृद्ध्या सह गुणात्मकविकास: अपि भवेत् । कार्यस्य मूल्याङ्कनावसरे वृत्तदानावसरे वा कियन्त: संस्कृतेन वदन्ति, कति जना: संस्कृतं पठितवन्त:, शिबिरचालका: कति निर्मिता:, शिबिराणि कति अभवन्, अन्ये कार्यक्रमा: कति, नूतनकार्यकर्तार: कति प्राप्ता:, कति रूप्यकाणि सङ्गृहीतानि इत्यादिरूपेण सांख्यिकचिन्तनेन सह कार्यकर्तॄणां भाषास्तर:, कार्यव्यवहारशैली, कार्यक्रमाणां गुणवत्ता, कार्यपद्धते: सूक्ष्मांशानां विषये अवधानम् इत्यादिरूपेण गुणात्मकचिन्तनमपि करणीयम् । प्रत्येकस्मिन् अपि उपवेशने एतदुभयविधचिन्तनं भवेत् ।

सङ्घटनं चालयितुं राज्यस्तरे अखिलभारतस्तरे च महान् धनव्यय: भवति । कार्यालयव्यय:, मुद्रणव्यय:, पूर्णकालिकानां विस्तारकाणां च निमित्तं व्यय:, प्रवासव्यय: इत्येवंप्रकारेण प्रतिमासं महान् धनव्यय: भवति । एवमेव स्थानीयस्तरे, जिलास्तरे च कार्यक्रमाणां सञ्चालनाय, प्रचाराय च धनव्यय: भवति । अत: प्रतिवर्षं गीताजयन्त्यवसरे सप्ताहं यावत्, पक्षं यावत् वा प्रत्येकस्मिन् स्थाने सर्वै: कार्यकर्तृभि: मिलित्वा धनसङ्ग्रहाभियानं करणीयम् । राज्येन मुद्रितानां कूपन्पूस्तकानां द्वारा प्राप्तिपत्रपुस्तकानां द्वारा वा सङ्ग्रह: कर्तुं शक्यते । दिनस्यैकं रूप्यकमिव सर्वे 365 रूप्यकाणि दातुम् अर्हन्ति । आयस्य 1% भाग: वा केनचित् दीयेत । सहयोगराशिरूपेण विद्यालयच्छात्रा: 5 रूप्यकाणि दातुम् अर्हन्ति । महाविद्यालयच्छात्रा: 25रूप्यकाणि दातुम् अर्हन्ति । अन्ये 250/-, 500/-, 1000/- वा रूप्यकाणि दातुम् अर्हन्ति । एवं राज्यस्य निर्णयानुसारं विभिन्नप्रकारेण धनसङ्ग्रह: भवेत् । तथा सङ्गृहीते धने 1% अखिलभारतकेन्द्राय, 4% राज्यकेन्द्राय च प्रेषणीयम् । 5% जिलामध्ये, स्थाने वा व्ययाय भवितुम् अर्हति, तत्रत्यकार्यानुगुणम् एतदर्थं राज्यस्य मार्गदर्शनं प्राप्तव्यम् ।

समितीनां घटनसमये केचन विषया: अवधातव्या: । समितौ संस्कृतज्ञा: एव भवेयु: इति नास्ति । संस्कृतेन समाजव्यापिना भवितव्यं चेत् सर्वविधा: अपि जना: संस्कृतभारत्याम् आनेतव्या: । अत: समग्रस्य समाजस्य प्रतिनिधिभूता:, विवादेभ्य: दूरे विद्यमाना:, सर्वै: आद्रियमाणा:, शुद्धचारित्र्यवन्त: च समितौ सन्ति चेत् वरम् । (समितौ विद्यमाना: एतादृशा: भवितुं प्रयतेरन् अपि ।) समाजस्य कश्चन प्रतिष्ठित:, कश्चन प्रभावी पुरुष:, कश्चन संस्कृतविद्वान्, कश्चन धनदाता, समाजस्य उपेक्षितवर्गस्य कश्चन बन्धु:, केचन कार्यकर्तार: (एतेषु काचित् महिला अपि) इत्येवंविधानां योजनेन समितिं रचयितुं प्रयत्न: भवतु ।

राज्यस्तरे तु संस्कृतभारत्या: कार्यालय: भवति । कदाचित् जिलास्तरे, नगरस्तरे अपि कार्यालय: भवेत् । तेषु कार्यालयेषु सर्वविधविषया: लिखितरूपेण सञ्चिकासु स्थापिता: स्यु: । यथा - संस्कृतज्ञानां सङ्केतावली, संस्कृतानुकूलसंस्थानां विद्यालयानां च सूची, धनदातॄणां सूची, शिबिरार्थिनां सूची, दूरभाषासंख्यापुस्तकम्, आगत-प्रेषित-पत्राणां प्रति-कृतय:, पत्रिकाकर्तनानि, धनव्यवहारस्य लेखापुस्तकादिकं, पुस्तक-विक्रयणव्यवहारगणना, मुद्रितानां पत्रकनिमन्त्रणपत्रादीनां प्रतिकृतय:, राज्यकेन्द्रत: आगतानां सूचनापत्रकाणां सङ्ग्रह: इत्यादीनि । यस्मिन् स्थाने कार्यालय: नास्ति, तत्रापि एतानि सर्वाणि संयोजकस्य, सचिवस्य, अध्यक्षस्य वा कस्यचित् समीपे एकत्र सङ्गृहीतानि सन्ति सञ्चिकासु भवेयु: । ता: सञ्चिका: संस्कृतभारत्या: सम्पद् । समितिषु उत्तरदायित्व-परिवर्तनानि जातानि चेत् तदा एता: सञ्चिका: सम्बद्धकार्यकर्त्रे दातव्या: । एतेन कार्ये सातत्यं स्यात् । सर्वविधसूचनानां, निर्णयानाम्, अनुभवानां, चिन्तनानां, कल्पनानां च लेखबद्धकरणम् आवश्यकम् । यत: एष: कश्चन इतिहास: !

सङ्घटनस्य रचनाया:, स्वरूपस्य, व्यवस्थानां च विषये एतस्मिन् अध्याये लिखिता: अंशा: अपरिवर्तनीया: न । 2003 तमवर्षस्य सितम्बरमासे एतद् पुस्तकं लिख्यमानम् अस्ति । एतावत्पर्यन्तं ये विचारा: निर्णयाश्च अभवन् ते अत्र सङ्गृहीता: सन्ति । संस्कृतभारती वर्धमानं जीवत् सङ्घटनम् अस्ति । अत: काले काले अपेक्षितानि परिवर्तनानि भवितुम् अर्हन्ति । सामान्यत: अखिलभारतस्तरे चर्चाया: अनन्तरं परिवर्तनानि भवन्ति । परन्तु राज्यसमितौ चर्चां कृत्वा नूतनप्रयोगान् कर्तुं सर्वदा स्वातन्त्र्यम् अस्ति एव । नवप्रयोगा: करणीया: अपि । कार्यस्य विस्तारानुगुणं नूतना: अंशा: योजनीया: भवन्त्यपि । राष्ट्रस्तरे यदा वयं चिन्तयाम: तदा सर्वेषाम् अस्माकं मनसि एक: विचार: स्पष्ट: भवति यत् अपेक्षितप्रमाणेन संस्कृतकार्यं कर्तुं शीघ्रातिशीघ्रं महत् जनसङ्घटनं निर्मातव्यमेव, यावत् तद् लक्ष्यं न साधयिष्यते तावत् परिस्थितौ किञ्चिदपि परिवर्तनं न आगच्छेत् इति । अत: आगामिनि काले कतिपयवर्षाणि यावत् अखिलभारतसङ्घटननिर्माणमेव, ग्रामस्तरपर्यन्तं प्रसृतस्य सङ्घटनस्य निर्माणमेव, अस्माकं लक्ष्यम् । सर्वेषां कार्यक्रमाणाम् उद्देश: भवेत् सङ्घटननिर्माणम् । अत: सङ्घटननिर्माणकेन्द्रिता कार्ययोजना करणीया ।

यथा एकेन दीपेन बहव: दीपा: प्रज्वाल्यन्ते तथा कस्मिंश्चित् स्थाने आरब्धं संस्कृतभारतीसङ्घटनकार्यं सम्यग्रूपेण प्रवृद्धं सत् पश्चात् समीप-वर्तिषु स्थानेषु कार्यारम्भं कारयेत् । तथा कार्यकर्तार: कार्यविस्तारं (तन्नाम सङ्घटनविस्तारं) सम्पादयेयु: । व्यक्तिनिर्माणेन सङ्घटननिर्माणं भवति । लोकसङ्ग्रह:, लोकशिक्षणं, लोकसंस्कार:, लोकसङ्घटनम् इति तस्य निर्माणकार्यस्य चत्वारि सोपानानि । सभासु भाषणं, सम्भाषणशिबिरस्य सञ्चालनम्, अन्येषां कार्यक्रमाणां सम्पादनं वा सरलम् । परन्तु व्यक्तिनिर्माणम् इत्येतद् महत्तरं कठिनं कार्यम् । सम्पर्कम् आगत:, सम्भाषणशिबिरं प्रति आगत: वा कश्चन कालक्रमेण उत्तम: कार्यकर्ता भवेत् । एष: विकासमार्ग: एव, सा प्रक्रिया एव व्यक्ति-निर्माणप्रक्रिया । स्वस्थे शरीरे यथा प्रतिक्षणं नूतनजीवकोषाणाम् उत्पत्तिप्रक्रिया अविरतं प्रचलन्ती एव भवति तथा स्वस्थे सङ्घटने प्रतिस्थानं नूतनकार्यकर्तॄणां निर्माणकार्यं प्रचलत् एव स्यात् । दीर्घकालं कार्यं कर्तुम्, अधिकं च कार्यं कर्तुं सर्व: अपि संस्कृतप्रेमी सङ्घटनेन सह संयुक्त: तिष्ठेत् । संस्था: अपि संस्कृतभारत्या सह सम्बद्धा: भवितुम् अर्हन्ति । किञ्च, यथा विभिन्नेषु स्थानेषु संस्कृतभारत्या: कश्चन घटक: भवति तथा विभिन्नासु संस्थासु, विद्यालयेषु, महाविद्यालयेषु वा संस्कृतभारत्या: घटकभूता कार्यसमिति: अपि भवितुम् अर्हति ।

[सम्पादयतु] कार्यक्रमा:

लक्ष्यसाधने कार्यक्रमा: साधनभूता: भवन्ति । कार्यक्रम: एव उद्देश: न, उद्देशार्थं कार्यक्रम: भवति । विचारप्रचार:, भाषशिक्षणं, कार्यकर्तृनिर्माणं, धनसङ्ग्रह:, नूतनक्षेत्रप्रवेश:, उत्साहवर्धनं, सङ्घटनं, कार्यस्य दृढीकरणम् इत्यादीन् विविधान् उद्देशान् साधयितुं तदनुगुणं कार्यक्रमान् रूपयाम: । स्थानीयस्तरे कर्तुं योग्या: कार्यक्रमा:, जिला-महानगर-विभाग-राज्यस्तरेषु कर्तुं योग्या: कार्यक्रमा: इति अत्र द्विधा दद्म: ।

[सम्पादयतु] स्थानीयस्तरे

  • सम्भाषणशिबिरम्

सर्वेषु अपि कार्यक्रमेषु प्राणभूत: कार्यक्रम: एष: । प्रतिदिनं घण्टाद्वयमिव दशदिनानां निरन्तरकक्ष्या एव ‘सम्भाषणशिबिरं’ नाम । सामान्यत: 25-30 शिक्षार्थिन: । सर्ववयस्स्तरीया:, सर्वविद्यास्तरीया: अनधीतसंस्कृता:, स्त्रीपुरुषा: इत्यादय: सर्वे भागं वहेयु: - विना जाति-मतादिभेदम् । सम्भाषणशिबिरं संस्कृतान्दोलनस्य प्रवेशद्वारम् इव । तत् कार्यकर्तॄणाम् उत्पत्तिस्थानम् । छात्राणाम् उत्साहमूलम् । जनानाम् अभिमतपरिवर्तकम् । शिक्षकाणां भाषणकौशलवर्धकम् । सर्वेषु विश्वासोत्पादकम् । कार्यकर्तॄणां शक्तिवर्धम् ।

ग्रामे नगरस्य विभिन्नक्षेत्रेषु (निवासक्षेत्रेषु) वा सायङ्कालसमये सम्भाषणशिबिराणि आयोजनीयानि । तदा विविधवृत्तिषु विद्यमाना: जना:, छात्रा:, महिला: इत्यादय: सर्वे शिबिरम् आगन्तुं शक्नुवन्ति । एवं निवासक्षेत्रे शिबिरचालनेन अनुवर्तिशिक्षणं सरलतया कर्तुं शक्यते (विद्यालयशिबिरं चेत् तद् न भवति) । मध्याह्नानन्तरं गृहिणीनां कृते एव शिबिरं कृतं चेत् गृहाणि संस्कृतानुकूलानि भवेयु: । महाविद्यालयेषु शिबिरचालनेन युवकार्यकर्तार: लभ्येरन् । प्रात:काले दलितवसतिक्षेत्रेषु शिबिरस्य आयोजनेन सामाजिकसमरसतादृष्ट्या लाभ: भवेत् । महानगरेषु अधिवक्तॄणां सङ्घ:, पत्रकारसङ्घ:, वाणिज्यसङ्घ: इत्यादिषु शिबिरस्य चालनेन बहुविधा: लाभा: भवेयु: । दम्पतीनां कृते एव शिबिरायोजनेन संस्कृतगृहाणि अधिकानि भवेयु: । आर्यसमाज-गायत्रीपरिवार-चिन्मयमिषन्-अमृतानन्दमयीपरिवारप्रभृतीनां सांस्कृतिकधार्मिकसामाजिकशैक्षिकसंस्थानां सङ्घटनानां च सहयोगेन शिबिरायोजनेन संस्कृतं नूतनं नूतनं क्षेत्रं प्रविशेत्, संस्कृतस्य समर्थनं बहुमुखं बहुगुणं च वर्धेत । वैद्यानां शिबिरं, नगरपार्षदानां शिबिरं, साहित्यकाराणां शिबिरं, कारागृहेषु शिबिरं, छात्रावासेषु शिबिरं, विविधेषु कार्यालयेषु शिबिरम् इति अपि भवितुम् अर्हति । तेन वैविध्यपूर्णानि शिबिराणि प्रवृत्तानि भवन्ति । अनुभव: एवमस्ति यत् अद्य अध्येतॄणाम् अभाव: न, अपि तु कल्पनाशीलानां साहसिनां कार्यकर्तॄणां, शिबिरचालकानां च अभाव: ।

शिबिरस्य उद्घाटनं संक्षेपेण, समापनकार्यक्रमश्च विस्तरेण, वैभवेन च भवितुम् अर्हति । समापने शिबिरार्थिभि: संस्कृतेन एव यदा रूपकादिविविधकार्यक्रमा: क्रियन्ते, तान् द्रष्टुं ग्रामीणा: नागरिका: च बहुसंख्यया यदा आगच्छन्ति, तदा सर्वेषु कश्चन महान् प्रभाव: भवति । पत्रकारा: अवश्यमेव सुन्दरतया वार्तां प्रकाशयन्ति । सम्भाषणशिबिरे प्रतिदिनं कञ्चिदेकं प्रभाविनं जनं दिनप्रमुखरूपेण आहूय तस्मै सम्भाषणशिबिरं दर्शयितुं शक्यते । सम्भाषणशिबिरस्य प्रवेशशुल्कं न भवति । परन्तु शिबिरस्य अन्तिमे दिने शिक्षार्थिन: संस्कृतकार्यार्थं धनसाहाय्यरूपेण यं धनराशिं समर्पयितुम् इच्छन्ति तं ते समर्पणनिधि:, समाजनिधि: इति वा नाम्ना भारतमातु: सरस्वत्या: वा चित्रस्य पुरत: समर्पयन्तु । एतत्सम्बन्धे शिबिरस्य सप्तमे, अष्टमे, नवमे वा दिने शिबिरे सूचनां दातुं शक्यते । तथा सङ्गृहीतं धनं राज्यकोषाय प्रेषणीयम् । सम्भाषणशिबिरस्य शिक्षार्थिन: संस्कृतस्य प्रगताभ्यासं कुर्यु: । तदर्थम् अनुवर्तिशिक्षणरूपेण साप्ताहिकमेलनं व्यवस्थापनीयम् । सर्वे शिक्षार्थिन: संस्कृतभारत्या: पत्राचारसंस्कतशिक्षणयोजनायां भागं वहेयु:, सम्भाषण-सन्देशस्य ग्राहका: भवेयु:, संस्कृतभारत्या: भाषाभ्यासोपयोगीनि पुस्तकानि क्रीणीयु: इत्यपि प्रयत्न: भवेत् ।

  • साप्ताहिकमेलनम्

प्रतिसप्ताहं निश्चिते दिने, निश्चितते समये, पूर्वनिश्चिते स्थाने सर्वे संस्कृतज्ञा:, संस्कृतच्छात्रा:, संस्कृतानुरागिण:, कार्यकर्तारश्च घण्टां, घण्टाद्वयं वा यावत्, एकत्र आगच्छन्ति, संस्कृतेन व्यवहरन्ति इत्येतदेव साप्ताहिकमेलनं नाम । तस्मिन् मेलने भाषाभ्यास:, काव्याध्ययनं, पुस्तक-सम्भाषणसन्देशादीनां पठनं, भाषाक्रीडा:, गीतम् इत्यादय: कार्यक्रमा: भवन्ति । परं सर्वमपि संस्कृतेन एव । अन्य: कोऽपि कार्यक्रम: नास्ति चेदपि संस्कृसम्भाषणमात्रं कुर्वन्ति चेदपि महान् लाभ: भवति । कथाकथनं, विनोदकणिकाकथनं, तस्य सप्ताहस्य वार्तानां विषये चर्चा, पूर्वनिश्चितविषये भाषणम् इत्यादय: कार्यक्रमा: वा तत्र भवितुम् अर्हन्ति । व्यक्ति-संस्कारात्मकं चिन्तनं भवति चेत् वरम् । कार्यचिन्तनमपि भवितुम् अर्हति ।

साप्ताहिकमेलनेन न केवलं भाषाभ्यास: भवति, अपि तु भागग्रहीतॄणां मध्ये क्र्रमश: स्नेहबन्धनं भवति, आत्मीयता भवति च । निरन्तरं मेलनेन क्रमश: सर्वे कार्यकर्तार: भवन्ति । सर्वेषु ध्येयवाद: उत्पद्यते । परस्परं गणभाव: वर्धते । सङ्घटनं भवति । साप्ताहिकमेलनस्य यशस्वितायै सुचिन्तितरूपेण, सुव्यवस्थिततया, सुचारुतया, सुष्ठुतया, प्रभाविरूपेण च घण्टां घण्टाद्वयं वा यावत् कार्यक्रमसञ्चालनं यावद् मुख्यम् अस्ति तावदेव प्रामुख्यम् आवहति साप्ताहिकमेलनं प्रति अपेक्षितानां प्रतिसप्ताहं स्मारणं, तेषां गृहसम्पर्क: च । मेलने संख्या, कार्यक्रम: चेति उभयमपि सुष्ठु स्यात् । जातानां सम्भाषणशिबिराणां शिक्षार्थिन: साप्ताहिकमेलनम् आगच्छेयु: एव । अकस्मात् सम्भाषणशिबिरं न जातं चेदपि अन्येषां साप्ताहिकमेलनं भवितुम् अर्हति । साप्ताहिकमेलनम् इत्येतद् अत्यन्तं विधायकं कार्यम् । तस्य निरन्तरसञ्चालनाय तप: एव करणीयं भवति । परन्तु तदनुगुणं फलमपि लभ्यते ।

  • संस्कृतदिवस: संस्कृतसप्ताहश्च

श्रावणपूर्णिमा संस्कृतदिनम् । तत: पूर्वतनानि त्रीणि दिनानि, अनन्तरीयाणि त्रीणि दिनानि च मेलयित्वा संस्कृतसप्ताह: आचरणीय: इति केन्द्रसवर्र्कारेण उद्घुष्टम् अस्ति । यद्यपि भारते वर्षस्य 365 दिनानि अपि संस्कृतदिनानि भवेयु:, तथापि अद्य सा स्थिति: नास्ति । आनेतव्या तादृशी परिस्थिति: इति उद्देशेन साङ्केतिकरूपेण संस्कृतदिनस्य सप्ताहस्य च आचरणं कुर्म: । संस्कृतभारत्या: एकैकया शाखया अपि एष: उत्सव: आचरणीय: । एतस्मिन् अवसरे कार्यकर्तॄणां कल्पकतानुगुणं प्रतिवर्षं विनूतनरूपेण संस्कृतसप्ताह: आचरितुं शक्यते । संस्कृतं केवलं संस्कृतशिक्षकाणां संस्कृतच्छात्राणां च विषयत्वेन न तिष्ठेत्, संस्कृतं समाजव्यापि भवेत् इति कारणेन अयम् उत्सव: संस्कृतभारत्या अन्यसङ्घसंस्थाभि: सह मिलित्वा विभिन्नस्थानेषु आचरणीय: । तत्र च संस्कृतेतरजनानां प्रमुखभूमिका भवेत् । एतेन प्रसङ्गेन संस्कृतस्य, संस्कृतभारत्या: च प्रभाववलयस्य विस्तार: भवेत् ।

  • प्रतियोगिता: (स्पर्धा:)

सामान्यत: छात्राणां प्रोत्साहनाय रुचिवर्धनाय वा एता: आयोज्यन्ते । गीताकण्ठपाठ:, स्तोत्रकण्ठपाठ:, अन्त्याक्षरी इत्यादय: सामान्यतया सर्वत्र भवन्ति । परन्तु भाषणम्, आशुभाषणं, सम्भाषणप्रदर्शनं, विनोदकणिका-कथनं, कथाकथनम् इत्यादय: स्पर्धा: आयोज्यन्ते चेत् अधिक: लाभ: भवेत् । तथैव शब्दरूप-धातुरूप-पाणिनिसूत्र-अमरकोष-सुभाषितादिकथन- स्पर्धा: अपि महते लाभाय भवेयु: । एता: केवलं बालानां कृते भवेयु: इति नास्ति, विविधवयस्स्तरीयाणां कृते अपि भवितुम् अर्हन्ति । पुनश्च स्थानीय-तहसील्(तालूक्/ब्लाक्)जिलास्तरेषु अपि भवेयु: ।

  • संस्कृतबालकेन्द्रम्

सायङ्कालसमये 30 निमेषान् एकघण्टां वा यावत् बालकेन्द्रं चलेत् । तत्र सम्भाषणं, भाषाशिक्षणं, क्रीडा:, सांस्कृतिककार्यक्रमा: च भवन्ति - संस्कृतमाध्यमेन । मार्गदर्शनाय संस्कृतभारत्या एतत्सम्बन्धे लघुपुस्तकमपि प्रकाशितम् । एतेषु बालकेन्द्रेषु बाला: क्रीडन्त: एव द्वित्रेषु मासेषु एव सम्भाषणाभ्यासं कुर्विंन्त, नक्षत्र-तिथि-मासादि-संास्कृतिकविषयान् अपि जानन्ति । स्वबालानाम् एतादृशेन शिक्षणेन, परम्परासम्बद्धसंस्कारेण, संस्कृतसम्भाषणेन च मातापितर: अत्यन्तं प्रभाविता: भवन्ति । कापि संस्कृतज्ञा युवति:, शिक्षिका, गृहिणी वा स्वगृहे एव बालकेन्द्रं चालयितुं शक्नोति । तेन तस्या: गृहं परित: स्थितेषु गृहेषु संस्कृतस्य प्रवेश: भवति ।

  • सान्ध्यशिक्षणकेन्द्राणि

सायङ्कालसमये पर्यायदिनेषु संस्कृतपाठनस्य शिक्षणकेन्द्राणि एव ‘सान्ध्यशिक्षणकेन्द्राणि’ इति कथ्यन्ते । मासत्रयस्य, षण्मासानां, वर्षस्य वा पाठ्यक्रम: भवितुम् अर्हति । राष्ट्रियसंस्कृतसंस्थानस्य, अन्यस्य कस्यचिदपि संस्कृतविश्व विद्यालयस्य, संस्कृतपरीक्षासञ्चालनसंस्थाया:, संस्कृतभारत्या: एव वा पुस्तकानि स्वीकृत्य पाठा: भवेयु: । अन्ते शिक्षार्थिभ्य: प्रमाण-पत्राणि दातव्यानि । एतादृशं शिक्षणकेन्द्रं प्रतिस्थानं भवेत् ।

  • विविधजयन्त्य: / सामाजिकसमरसतादिनम्

विवेकानन्दजयन्ती, वाल्मीकिजयन्ती, अम्बेडकरजयन्ती, कालिदास-जयन्ती, महावीरजयन्ती, कबीरजयन्ती, बसवजयन्ती इत्यादीनां जयन्तीनाम् आचरणेन सामाजिकसमरसता अपि भवेत्, तत्तन्मतानुयायिनां जनानां संस्कृतभारत्या सह योजनमपि भवेत् । वाल्मीकिजयन्ती, अम्बेडकर-जयन्ती, कबीरजयन्ती इत्यादिकं किमपि एकं दिनं सामाजिकसमरसता-दिनरूपेण आचरणमपि संस्कृतभारत्या: उद्देशस्य साधने लाभाय भवेत् ।

  • पत्रालयद्वारा संस्कृतशिक्षणम्

मलयाल-तमिळ-कन्नड-आंग्ल-मराठी-गुजराती-हिन्दी-तेलुगुभाषा-माध्यमेन पत्रालयसंस्कृतशिक्षणयोजना इदानीं (एतत्पुस्तकलेखनसमये) प्रचलति । इतरभारतीयभाषाणां द्वारा अपि कारयितुं प्रयत्न: अस्ति । प्रत्येकस्मिन् स्थाने कार्यकर्तॄणां द्वारा अधिकसंख्यया जना: पत्रालय-संस्कृतशिक्षणयोजनां स्वीकुर्यु: इति प्रयत्न: भवेत् । प्रतिवर्षं स्वस्थानात् कति नूतनजना: तस्यां योजनायां प्रवेश्यन्ते इति गणना स्थापनीया । एतस्या: योजनाया: व्यापक: प्रचार: अपि करणीय: ।

  • संस्कृतगृहम्

‘संस्कृतगृहं’ संस्कृतस्य आधारभूतं स्थानम् । सरलतया उत्तमतया च भाषाभ्यास: गृहे एव भवितुम् अर्हति । यस्मिन् गृहे सर्वे संस्कृतं जानन्ति अथवा पठन्त: सन्ति, यत्र दिनस्य कञ्चित् कालं यावत् संस्कृतेन व्यवहार: भवति, कश्चन तद् गृहं यदा गच्छति तदा तत्र सहजतया संस्कृतसम्भाषणं श्रुतिपथम् आयाति तादृशं गृहं संस्कृतगृहम् । किञ्च तस्मिन् गृहे संस्कृते: प्रतिबिम्बनमपि स्यात् । संस्कृतगृहं कथं करणीयम् इति विषये ‘सङ्क्रमणम्’ इति पुस्तके विस्तरेण लिखितम् अस्ति । एतावत् तु सत्यं यत् यदि संस्कृतगृहं भवति तर्हि तस्य परिणामत: शतगृहाणां प्रेरणा भवति, शतग्रामेषु प्रचार: अपि भवति । संस्कृतगृहै: क्रमश: संस्कृतमातृभाषिपरम्परा उज्जीविता भवेदपि ।

  • कथा / व्याख्यानम्

रामायण-भारत-भागवतादिभ्य: प्रसङ्गान् स्वीकृत्य ‘कथा’कार्यक्रमान् कुर्वन्ति । एते कार्यक्रमा: संस्कृतेन कारणीया: । अथवा द्वैभाषिककथा: स्यु: । जनानां श्रावणाय एव एतत् कार्यम् इत्यत: सरलतमसंस्कृतस्य प्रयोगेण कृत: कथाकार्यक्रम: एव यशस्वी भवेत् । एवमेव विविधविषयान् अधिकृत्य संस्कृतेन व्याख्यानम् आयोजनीयम् । जना: धाराप्रवाहसंस्कृतं शृणुयु: ।

  • सङ्गोष्ठी

संस्कृतशिक्षणसम्बन्धिनं, संस्कृतवाङ्मयसम्बन्धिनं वा कञ्चित् विषयं स्वीकृत्य दिनस्य दिनद्वयस्य वा सङ्गोष्ठी कारणीया । तत्र भाषणानि, निबन्धोपस्थापनं, चर्चा वा भवेयु: - संस्कृतेन, प्रादेशिकभाषया च । एतेन संस्कृतज्ञानामपि ज्ञानं वर्धेत, नागरिकेषु ग्रामीणेषु वा जागर्ति: आगच्छेत् ।

  • स्नेहमेलनम् / कौमुदीकार्यक्रम:

सर्वे संस्कृतज्ञा: संस्कृतशिक्षार्थिन: च सपरिवारम् एकत्र मिलित्वा कञ्चित् कालं (कतिचन घण्टा: दिनं वा) यावत् स्नेहेन आनन्देन क्रीडन्त:, जल्पन्त:, चर्चयन्त:, चिन्तयन्त:, खादन्त: तिष्ठन्ति चेत् स्नेहमेलनं भवति, कस्मिंश्चिदपि गृहे, विद्यालये, उद्याने, प्रशान्ते सुन्दरे परिसरे वा एतादृशं मेलनं भवितुम् अर्हति । रात्रौ कौमुद्यां कश्चन विशिष्ट: अपूर्व: च आनन्द: भवति सर्वेषाम् । अत्र विशेषतया केषाञ्चित् आह्वानं भवितुम् अर्हति । तेन आगता: प्रभाविता: भवेयु: । एतेन कार्यक्रमेण कार्यकर्तॄणां प्रेरणा वर्धते, तेषां गृहजनानाम् उपरि प्रभाव: अपि भवति ।

  • संस्कृतप्रवास:

संस्कृतज्ञा: संस्कृतशिक्षार्थिन: च मिलित्वा दिनं, दिनद्वयं, ततोऽपि अधिकदिनानि वा मिलित्वा प्रवासार्थं गच्छन्ति - रमणीयस्थानं, तीर्थक्षेत्रम्, ऐतिहासिकं स्थानं प्रति वा । एक: एव नियम: यत् प्रवाससमये संस्कृतेन एव व्यवहार: भवेत् सर्वेषाम् । एतेन कार्यक्रमेण भाषाशिक्षणमपि भवेत्, उत्साहश्च संवर्धते ।

  • संस्कृतसन्ध्या

सायंसन्ध्याकाले त्रिचतुरघण्टानाम् अयं कार्यक्रम: सम्पूर्णतया संस्कृतेन । रूपकाणि, विनोदप्रसङ्गा:, गीतानि, नृत्यानि, अभिनया:, संस्कृतगृहेषु कथं व्यवहार: भवतीति प्रात्यक्षिकम् इत्येतादृशा: कार्यक्रमा: तत्र । अत्यन्तं प्रेरणादायी कार्यक्रम: एष: ।

  • प्रदर्शिनी

दैनन्दिनोपयोगिनां सर्वेषां वस्तूनां संस्कृतनामानि लिखित्वा वस्तुभि: चित्रै: च सह सादृश्यै: सह वा स्थापनं, संस्कृतविज्ञानसम्बन्धे सचित्रविवरणं, संस्कृतसम्बन्धे, संस्कृतभारत्या: कार्यविषये च फलकानि, चित्राणि, चाटर्स् इत्यादीनां द्वारा जनप्रबोधनम् ।

  • शोभायात्रा

संस्कृतच्छात्रा:, शिक्षका:, अनुरागिणश्च सर्वे मिलित्वा नगरे प्रमुख-वीथीषु घोषणा: आघोषयन्त: शोभायात्रां कुर्वन्ति । हस्तेषु विविधविषयाणां बृहत्फलकानि, वस्त्रफलकानि च गृहीत्वा जनानां अवधानाकर्षणमपि कुर्वन्ति । शोभायात्रया नागरिकेषु जागर्ति: भवति, वार्तापत्रे सचित्रवार्ता प्रकाश्यते, ततोऽपि मुख्यं नाम यात्रायां गृहीतभागेषु उत्स्फूर्त: कश्चन महान् उत्साह: उद्भवति, प्रवहति च । कार्यकर्तार: प्राप्तप्रेरणा: भवन्ति अपि ।

  • वीथीनाटकम्

चतुष्पथे, बस्स्थानके, रेल्स्थानके, विपण्यां, मन्दिरसम्मुखे वा, यत्र जना: अधिका: सञ्चरन्ति तत्र, कार्यकर्तार: स्वयमपि वृत्ताकारेण उपविशन्ति, अन्यान् अपि उपवेशयन्ति । दश जना: सम्मिलिता: भवन्ति । तदा कार्यकर्तार: सरलतमेन संस्कृतेन, तन्नाम तै: वीथीजनै: यथा अवगम्येत तथा परमसारल्येन, मन्दं मन्दं साभिनयं च वदन्त: वर्तमानकालिकविषयस्य वीथीनाटकं प्रस्तुवन्ति । अर्धघण्टाभ्यन्तरे कतिपयशतजना: संस्कृतस्य आस्वादनं कुर्वन्ति । जनसमीपं संस्कृतं नेतुम् अयम् उत्तम: उपाय: ।

  • वीथीभाषणम्

निर्वाचनसमये मार्गपार्श्वे मञ्चं किञ्चित् कृत्वा, अकृत्वा वा, ध्वनिवर्धकं स्थापयित्वा राजनीतिजना: भाषणं कुर्वन्त: भवन्ति । एकस्मिन् कोणे किञ्चित्कालं भाषणं कृत्वा पश्चात् अन्यं कोणं गत्वा भाषणं कुर्वन्ति ते । आंग्लभाषायाम् एतत् ‘कार्नर् मीटिङ्ग्’ इति कथ्यते । जना: संस्कृत-कार्यक्रमं न आगच्छन्ति चेत् जना: यत्र भवन्ति तत्रैव गत्वा अस्माकं प्रचारकार्यक्रम: । तदेव वीथीभाषणम् । वर्षस्य कस्मिंश्चिदपि समये, अवसरं कञ्चित् निर्माय भाषणानाम् आयोजनं करणीयम् ।

  • सम्भाषणशिबिरप्रात्यक्षिकाणि

संस्कृतं सरलम् अस्ति, तेन सम्भाषणं कर्तुं शक्यते इत्येव जना: न जानन्ति चेत् ते सम्भाषणशिबिरार्थिन: कथं भवेयु: ? जिलेबीखण्डमेकं खादन्ति चेदेव खलु जिलेबीरुचि: ज्ञायते ? पश्चात् पूर्णं जिलेबी खादितुम् इच्छा उत्पद्यते । एवमेव संस्कृतसम्भाषणस्य परिचयं कारयितुं विद्यालये, कार्यालये, मन्दिरे, सभायां, यत्र यत्र अवसर: लभ्यते तत्र सर्वत्र दशनिमेषाणाम् अर्धघण्टाया: वा सम्भाषणशिबिरस्य किञ्चित् प्रात्यक्षिकं करणीयम् । किञ्चित् सम्भाषणं, काचित् कथा, किञ्चित् विवरणं, संस्कृतेन संवादश्च । एतावता जनानां बहु आकर्षणं भवति । मुखे जलम् आयाति ।

  • सन्देशाभियानम्

सम्भाषणसन्देश: कार्यकर्तृभ्य:, छात्रेभ्य:, संस्कृतज्ञेभ्य: च आन्दोलन- सम्बन्धिविषयान् समये समये सूचयन् भवति । ‘सन्देश:’ किञ्चित् महत् प्रेरणास्रोत: । अत: सर्व: संस्कृतभारतीकार्यकर्ता व्यक्तिगतरूपेण अपि सम्भाषणसन्देशस्य ग्राहक: भवेत्, स्वयं यस्यां संस्थायां कार्यं करोति, तत्रापि आनाययेत् । (स: कार्यकर्ता संस्थायां सन्देशं पठति चेदपि कर्तव्यम् इति मत्वा स्वयमपि ग्राहक: भवेदेव ।) सर्वे संस्कृतच्छात्रा:, अभिमानिन:, संस्कृतपण्डिता:, शिक्षकाश्चि यथा ग्राहका: भवेयु: तथा प्रयत्न: करणीय: । जना: सहजतया विस्मरणशीला: इति कारणत:, अथवा नूतना: योजनीया: इत्यत: च प्रत्येकस्मिन् स्थाने वर्षे एकवारं सन्देशग्राहक-सङ्ग्रहाभियानं करणीयम् ।

  • सम्पर्कसप्ताह: / सम्पर्कपक्ष:

सम्पर्कसप्ताहस्य पक्षस्य वा उद्देशचतुष्टयं भवति -

  1. गण्या:, प्रभाविजना: वा सम्पर्कणीया:, संस्कृतकार्ये योजनीयाश्च ।
  2. कार्यार्थम् अपेक्षितस्य धनस्य सङ्ग्रह: करणीय: ।
  3. विचारप्रचार: साहित्यविक्रयणं च स्यात् ।
  4. सर्वे कार्यकर्तार: (प्रत्येकं कार्यकर्ता) एकवारं भूताविष्टा: इव कार्ये अवतरेयु: ।

एतान् उद्देशान् मनसि निधाय तदनुगुणं कार्ययोजना, सज्जता च करणीया । गीताजयन्तीसमये अयं कार्यक्रम: क्रियते चेत् उचितं भवेत् । एतेन सम्पर्काभियानेन कार्यविस्तार: भवेत्, प्रभाव: शक्तिश्च वर्धेत ।

  • क्रीडोत्सव: / साहसकार्यक्रम:

आदिनं, कतिचन घण्टा: वा जायमाने क्रीडोत्सवे विविधा: शारीरक-क्रीडा:, बौद्धिकक्रीडा: च संस्कृतेन सञ्चाल्यन्ते । धावन-कूर्दन-लङ्घन-क्षेपणाकर्षणादिषु एकैकस्मिन् अपि बहुविधा: क्रीडा: भवन्ति । यथा वेगेन धावनं, दूरधावनम्, एकपादेन धावनं, स्यूतेन धावनं, मण्डूकप्लुत्या धावनं, सर्पगत्या धावनं, पादत्रयेण धावनं, अन्धो भूत्वा धावनं, चमसनिम्बूकधावनं, सूचीतन्तुधावनं, पृष्ठत: धावनम् इत्यादि । बौद्धिकक्रीडासु स्मरणशक्ति-केन्द्रिता:, भाषाज्ञानाधारिता:, श्रवणाधारिता:, सामान्यज्ञानाधारिता:, नेत्राधारिता:, समस्यापरिहाराधारिता:, अवधानाधारिता: इत्यादि । क्रीडानां क्रीडानियमानां च पूर्वघोषणा भवेत् । अत्र क्रीडानां द्वारा भाषा-शिक्षणं भवति, नावीन्यं दृश्यते, उत्साहश्च वर्धते । वयस: स्तरस्य अनुगुणं विभागा: सन्ति चेत् आबालवृद्धं सर्वे भागं वहेयु: । सुदीर्घचलनं, द्विचक्रिकया दूरयात्रा, पर्वतारोहणम् इत्यादय: साहसपूर्णा: कार्यक्रमा: विशेषतया युवकेभ्य: रोचन्ते । संस्कृतकार्यं सरलं न । अत: शरीरबलं, मनोबलं च वर्धयितुं साहसकार्यक्रमा: उपकारका: भवन्ति । ‘इदं ब्राह्मं’ केवलं न पर्याप्तम् । ‘इदं क्षात्रम्’ अपि अपेक्षितं संस्कृतोन्नत्यै । जाड्यत्यागस्य, साहसचिन्तनस्य, परिश्रमकरणस्य च सङ्केतरूपेण, स्मारक-रूपेण एते साहसकार्यक्रमा: भवेयु: प्रतिवर्षम् ।

  • छात्रशिक्षणशिबिरम्

माध्यमिकच्छात्राणाम्, उच्चमाध्यमिकच्छात्राणां, स्नातकच्छात्राणां, स्नातकोत्तरच्छात्राणां च तत्तदावश्यकतानुसारं भिन्नं भिन्नं प्रतिवर्षं किञ्चित् प्रशिक्षणशिबिरम् आयोज्यते चेत् ते सर्वे प्रमुदिता: सन्त: संस्कृतभारत्या: कार्ये संयुक्ता: भवेयु:, संस्कृतविषये तेषां प्रतिबद्धता रुचि: च वर्धेत । दिनत्रयस्य, पञ्चानां दिनानां, सप्ताहस्य, पक्षस्य वा कार्यक्रम: भवितुम् अर्हति ।

  • स्वाध्यायशिबिरम्

प्रतिमासम् एकस्मिन् सप्ताहान्ते (शनिरविवासरयो:) सर्वे एकत्र आगत्य कञ्चित् ग्रन्थं, कञ्चित् विषयं वा स्वीकृत्य अध्ययनं कुर्वन्ति । तदेव स्वाध्यायशिबिरम् । सामान्यत: व्याकरणविषयमेव स्वीकृत्य अध्ययनं कुर्वन्ति, तेन सह किञ्चन महाकाव्यमपि पठन्ति । कश्चन पाठयति, गणकार्यमपि कुर्वन्ति । चर्चारूपेण अपि अध्ययनं कुर्वन्ति । एतेन वर्षाभ्यन्तरे सर्वेषां ज्ञानं बहु वर्धते ।

  • संस्कारशिबिरम् / ग्रीष्मशिबिरम्

हिन्दुजीवनशिक्षणशिबिरं, गीताशिबिरं, योगशिबिरं, स्तोत्रशिबिरं, ललितासहस्रनामशिक्षणशिबिरं, सप्तशतीशिक्षणशिबिरं, खगोलशास्त्र-शिक्षणशिबिरं, स्वास्थ्यशिक्षणशिबिरं, रामायणशिबिरं, महाभारत-शिबिरं, वेदान्तशिबिरं, वेदशिबिरं, पूजापद्धतिशिक्षणशिबिरं, वास्तु-शिक्षणशिबिरं, मुहूर्तशिक्षणशिबिरम् इत्येवंप्रकारेण बहुविधानि सांस्कारिकशिबिराणि भवितुम् अर्हन्ति । एतावन्ति शिबिराणि आयोज्यन्ते चेत् समाजस्य सर्वे जना: कस्मिंश्चिदपि शिबिरे भागं वहेयु: एव । अद्य समाजे एतेषां विषयाणां योग्यरूपेण पाठयितार: प्रशिक्षका: एव न सन्ति । जनानाम् एतेषु विषयेषु ‘बुभुक्षा’ अस्त्येव । अत: संस्कृतभारती एतानि शिबिराणि आयोजयति चेत् समाजस्य महती आवश्यकता पूरिता स्यात् । ग्रीष्मविरामकाले विद्यालयच्छात्रा: कार्यहीना: भवन्ति । कथं तेषां समयनिर्वाह: स्यात् इति मातापितॄणामपि महती चिन्ता भवति । यदि संस्कृतभारती प्रतिदिनं 3-4 घण्टा: इव 10-15 दिनानां ग्रीष्मशिबिरम् आयोजयति, तत्र च संस्कृतसम्भाषणं, सामान्यज्ञानं, नीतिकथा:, भारतीयतासम्बद्धा: विषया:, सुभाषितानि इत्यादीनि पाठयति तर्हि बहव: छात्रा: शिक्षार्थिरूपेण आगच्छेयु: । अयं कश्चन प्रसिद्ध: छात्राकर्षक: जनाकर्षकश्च वार्षिक: कार्यक्रम: भवेत् ।

अक्षरम्

[सम्पादयतु] जिल्ला/महानगर/विभाग/राज्यस्तरे

  • अभ्यासवर्ग:

कार्यकर्तॄणां प्रशिक्षणाय, कार्यशिक्षणाय, सामूहिकचिन्तनार्थं च अभ्यासवर्ग: आयोज्यते । अयम् अभ्यासवर्ग: प्रतिवर्षं भवेत् । वर्षारम्भे भवति चेत् उत्तमम्, येन वर्षस्य कार्यदिशा निश्चिता भवेत् । योजनाया: क्रियान्वयनं सम्यग् भवेत्, प्रत्येकं कार्यकर्तु: मनसि कार्यकल्पना स्पष्टा भवेत्, कार्यपद्धतिश्च विकसेत् । आहत्य कार्यस्य वेग:, गुणवत्ता च अधिका भवेत् ।

  • भाषाबोधनवर्ग:

प्रविष्टसम्भाषणशिबिरा: कार्यकर्तार: च सुष्ठु संस्कृतेन वदेयु: लिखेयुश्च इति अस्माकम् अपेक्षा । अत: तेषां भाषास्तरवर्धनाय, भाषागतसामान्यदोषाणां निवारणाय, नियमज्ञापनाय च भाषाबोधनवर्गा: आयोज्यन्ते । एषा वर्ग: दिनद्वयात्मक:, दिनत्रयात्मक:, पञ्चदिनात्मक: वा भवितुम् अर्हति ।

  • शिक्षकप्रशिक्षणशिबिरम्

एतत् द्विधा - सम्भाषणशिबिरचालकानां निर्माणाय, विद्यालये संस्कृत-माध्यमेन कथं पाठनीयमिति प्रशिक्षणाय च इति । सम्भाषणशिबिरचालनप्रशिक्षणाय दशदिनानाम् आवासीयं शिबिरं भवति । विद्यालये पाठनं कथमिति विषये आनुकूल्यानुगुणं प्रशिक्षणावधि: निश्चीयते ।

  • व्याकरणशिबिरम् / सिद्धान्तकौमुदीशिबिरम्

व्याकरणांशानां ससूत्रं पाठनाय अयं कार्यक्रम: । एतेन शिक्षार्थिनां न केवलं भाषा शुद्धा भवेत् इति अपेक्षा, अपि तु अधिका: जना: व्याकरणशास्त्राध्ययने प्रवृत्ता: भवेयु:, व्याकरणे आस्थां वा कुर्यु:, व्याकरणमपि रोचकरूपेण पठितुं शक्यते इति अवगच्छेयु:, व्याकरणं कथं पठनीयम् इति जानीयु: इत्यपि अपेक्षा ।

  • संस्कृतगृहसम्मेलनम्

यद्यपि निर्मितानि संस्कृतगृहाणि न्यूनानि स्यु:, तथापि निर्माणपक्षे बहूनि गृहाणि स्यु: । तेषां द्वित्रवर्षेषु एकवारं सम्मेलनं भवति चेत् स: विषय: अग्रे गच्छेत्, समस्यानां परिहाराणां च अवगमनं भवेत्, संस्कृतोज्जीवनकार्ये संस्कृतगृहाणां महत्त्वं जनै: ज्ञातं भवेत् । किञ्च, मम गृहमपि संस्कृतगृहं भवेत् इति बहूनां प्रेरणायै भवेत् । संस्कृतगृहसदस्यानां, विशेषत: संस्कृतभाषिबालानां भावनात्मकबलं बलवत्तरं भवेत् । सामाजिकानाम् उपरि अपि महान् प्रभाव: भवेत् ।

  • शिक्षकसम्मेलनम्

संस्कृतोज्जीवनकार्ये संस्कृतशिक्षकाणां पात्रम् अत्यन्तं निर्णायकम् । विद्यालयेषु शैक्षिकपरिवर्तनं, सामाजिकानां पाठ:, साहित्यनिर्माणम् इत्यादिषु सर्वेषु कार्येषु संस्कृतशिक्षकाणां भूमिका एव महत्त्वभूता । या हिब्रूभाषा 2300 वर्षाणि यावत् मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं 1880 तमे वर्षे आरब्धम्, 1925 तमवर्षपर्यन्तं सा हिब्रूभाषा सर्वदृष्टीभि: अपि व्यवहारभाषा, जीवद्भाषा जाता आसीत् । तत्र तदानीन्तनेन टर्कशासनेन अपि तथा घोषिता आसीत् । तद् 45 वर्षात्मकम् आन्दोलनं यशस्वितया हिब्रूशिक्षका: एव साधितवन्त: आसन् । एवं संस्कृतान्दोलने अपि संस्कृतशिक्षका: एव सर्वकार्यसाधका: । अत: प्रतिवर्षं संस्कृतशिक्षकाणां सम्मेलनम् अधिवेशनं वा आयोज्य ते कार्ये योजनीया: ।

  • छात्रसम्मेलनम्

अद्यतनसंस्कृतच्छात्रा: श्वस्तनसंस्कृतशिक्षका: । अत: ते अद्यैव सज्जीकर्तव्या: । तेषां नेत्रयो: पुरत: संस्कृतस्य सुन्दरभविष्यनिर्माणस्य स्वप्ना: भवेयु: । ते उत्साहवन्त:, अग्निमन्त:, ध्येयवन्त:, ज्ञानवन्तश्च भवेयु: । संस्कृताय समयदानस्य सङ्कल्प: तेषु उत्पद्येत । ते युवान: संस्कृत-दुन्दुभिवादका:, परिश्रमशीला: कार्यकर्तार: भवेयु:, पूर्णकालिका:, विस्तारकाश्च भवेयु: । संस्कृतच्छात्राणां सर्वदृष्टीभि: योग्यमार्गदर्शनं भवेत् । एतान् सर्वान् उद्देशान् साधयितुं प्रतिवर्षं संस्कृतच्छात्रसम्मेलनानि आयोजनीयानि ।

  • महिलासम्मेलनम्

भाषाप्रसारे महिलानां महत् योगदानं भवितुम् अर्हति । एका महिला संस्कृतज्ञा, संस्कृतकार्यकर्त्री वा भवति चेत् एकं गृहं संस्कृतस्य आधार: भवति । स्वाभिमानजागरणे, सांस्कृतिकपरिवर्तने, धर्मरक्षणे, भारतीय-जीवनादर्शानां पुन: प्रतिष्ठापने, सामाजिकपरिवर्तने च महिलानामेव महत्तरा भूमिका । अत: संस्कृतमहिलासम्मेलनं कार्ये महान्तं परिणामं जनयेत् ।

  • शास्त्रगोष्ठी / शास्त्रशिबिरम्

अद्य शास्त्राणां कीदृशी दु:स्थिति: अस्ति इति जना: (संस्कृतज्ञा: अपि) न जानन्ति । न्यूनातिन्यूनं संस्कृतज्ञेषु जागर्ति: भवेत् । तेषु शास्त्राध्ययनविषये रुचि: उत्पद्येत, अत: शास्त्रगोष्ठ्य:, शास्त्रशिक्षणशिबिराणि च आयोजनीयानि । कालक्रमेण शास्त्राध्ययनं, शास्त्ररक्षणम् इत्येतदेव किञ्चित् महत्त्वभूतम् आन्दोलनं (शास्त्रान्दोलनं) भवेत् । तेन च शास्त्रपरम्परा उज्जीविता स्यात् ।

  • संस्कृतविज्ञानकार्यक्रमा:

संस्कृतवाङ्मये विज्ञानादिविषया: ये सन्ति ते प्रकाशिता: भवेयु:, किञ्च ते लोकै: ज्ञाता: भवेयु: । तदर्थं तत्सम्बन्धिन्या: प्रदर्शिन्या: आयोजनं, व्याख्यानकार्यक्रम:, पुस्तकविक्रयणं च भवेयु: । एतद्विषये विज्ञानभारत्या:, संस्कृतविश्वविद्यालयानां च सहयोग: भवितुम् अर्हति ।

  • शैक्षिककार्यशाला

संस्कृतशिक्षणे गुणात्मकपरिवर्तनम् इति अयं महान् विषय: वर्तते । एतस्मिन् क्षेत्रे स्वल्पामपि प्रगतिं साधयितुं बहुधा कार्यं करणीयं भवेत् । प्रथमं तदर्थं संस्कृतशिक्षकेषु एव अनुकूलवातावरणम् अनुकूलमानसिकता च आनेतव्या । अत: संस्कृतशिक्षणस्य एकैकम् अंशं स्वीकृत्य स्थाने स्थाने कार्यशालानाम् आयोजनं करणीयम् ।

  • नाटकोत्सव:

नाटकमाध्यमं संस्कृतप्रचाराय उपयोक्तुं संस्कृतनाटकोत्सवम् आयोजयाम: चेत् उत्तमं भवेत् । सामान्यरूपेण नाटकानां मञ्चनम् अथवा स्पर्धारूपेण कतिचन दिनानि यावत् अयं कार्यक्रम: भवितुम् अर्हति ।

  • सम्भाषणोत्सव: / शिबिराभियानम्

एकस्मिन् एव नगरे 51 शिबिराणि,108 शिबिराणि वा युगपत् आयोज्य अन्ते सर्वेषां शिबिराणां सामूहिकरूपेण समापनम् इति एष: कार्यक्रम: नगरे किञ्चित् वातावरणं निर्माति, उत्साहं जनयति च । एतादृशानि अभियानानि निमित्तीकृत्य बहूनां शिबिरचालकानां निर्माणमपि भवति । अभियानस्य अनन्तरम् अनुवर्तिशिक्षणाय पूर्वमेव समीचीना योजना करणीया, तदभावे अभियानस्य पूर्ण: लाभ: न भवति ।

  • व्यक्तित्वविकासशिबिरम् (नेतृत्वप्रशिक्षणम्)

राष्ट्रजीवनस्य सर्वेषु रङ्गेषु संस्कृतज्ञा: अग्रे आगच्छेयु: । तदर्थं यत् कौशलम् अपेक्षितं तत् संस्कृतच्छात्रेभ्य:, संस्कृतशिक्षकेभ्य: च दातुं तेभ्य: व्यक्तित्वविकासशिबिरं, नेतृत्वप्रशिक्षणशिबिरं च आयोजनीयम् ।

[सम्पादयतु] कार्यपद्धति:

कस्यचिद् सङ्घटनस्य विचार: / सिद्धान्त: कार्यपद्धति: चेति उभयम् एकस्यैव नाणकस्य मुखद्वयमिव भवति । कार्यकर्तार: कार्यपद्धति: इति एतौ रथस्य चक्रे इव महत्त्वभूतौ भवत: । कार्यपद्धति: अपि सङ्घटनस्य लक्ष्यसाधने साधनभूता भवति । कार्यकर्तृनिर्माणस्य प्रक्रिया, व्यवस्था, पद्धति: एव ‘कार्यपद्धति:’ भवति । सा एव सङ्घटनस्य विशिष्टा कार्यशैली । सङ्घटनसदस्यै: सर्वै: सा पद्धति: ज्ञातव्या, तया पद्धत्या एव कार्यं करणीयं च । कार्यक्रमा:, कार्यकर्तार:, कार्यपद्धति: इति त्रिषु कस्य किं महत्त्वम् ? कार्यक्रमा: उत्तमा: सफला: च यदि भवन्ति तर्हि तत: कार्यकर्तार: लभ्यन्ते । कार्यकर्तार: उत्तमा: भवन्ति चेत् न केवलं कार्यक्रमाणां विषये, अपि तु कार्यपद्धते: विषये अपि अवधानं कुर्वन्ति । कार्यपद्धति: उत्तमा अस्ति चेत् कार्यक्रमा: अपि यशस्विन: भवन्ति, तथा च विद्यमानानां कार्यकर्तॄणां विकास: भवति, नूतनानां कार्यकर्तॄणां प्राप्तिश्च भवति । अत: उत्तमा: कार्यकर्तार: सर्वदा कार्यपद्धते: उत्तमतायै, कार्यपद्धते: अनुसरणाय च विशेषास्थां प्रदर्शयन्ति । यदि कार्यकर्तृभि: कार्यपद्धति: सम्यक्प्रकारेण अनुस्रियमाणा अस्ति तर्हि कदाचित् कार्यकर्तॄणां न्यूनतासु सतीषु अपि कार्यपद्धति: कार्यक्रमान् अयशस्विन: भवितुं न त्यजति, तथैव कार्यकर्तॄन् दोषान् कर्तुर्ंं न त्यजति । अथवा ता: न्यूनता: कार्यपद्धति: एव पूरयति । अत: यथा ‘धर्मो रक्षति रक्षित:’ इति अस्ति तथा ‘पद्धति: रक्षति रक्षिता’ इत्यपि । अस्माभि: रक्षिता कार्यपद्धति: अस्मान् रक्षति, (स्खलितुं न त्यजति) कार्यं रक्षति, सङ्घटनं रक्षति च । अस्माकं कार्यशैली पारिवारिकी शैली वर्तते । परिवारे यथा परस्परम् आत्मीयतया प्रेम्णा च परस्परं पूरका: सन्त: परिवारहितमेव मनसि निधाय गणभावेन सर्वे कार्यं कुर्वन्ति, जीवनं कुर्वन्ति, पद-स्थान-अधिकार-प्रचारादिचिन्ता न भवति, तथा संस्कृतभारत्यामपि भवति । सर्वे कर्तव्यबुद्ध्या, धर्मबुद्ध्या, लक्ष्यैकचित्ता: सन्त: कार्यं कुर्वन्ति । एषा पारिवारिकता, पारस्परिकता, मुक्तता च संस्कृतभारत्या: विशिष्टता ।

डा।विश्वासः,अखिलभारतप्रशिक्षणप्रमुखः

यद्यपि सर्वेषु कार्येषु व्यक्ति: अत्यन्तं महत्त्वभूता, व्यक्ते: चिन्तनरीति: कार्यशैली, कार्यसामर्थ्यं, सक्रियता च कार्यफलं निर्धारयति, तथापि संस्कृतभारतीकार्यं व्यक्तिकेन्द्रितं न । व्यक्ति: अपरिहार्या अपि न । तत्त्वं, विचार:, सिद्धान्त: वा प्रेरणामूलम् । अत: अस्माकं तत्त्वकेन्द्रितं कार्यम् । यद्यपि सङ्घटनस्य ज्येष्ठेषु अस्माकं श्रद्धा विश्वासश्च भवति, तथापि कार्यकर्तृषु व्यक्तिनिष्ठताया: अपेक्षया सङ्घटननिष्ठताम् एव आनेतुं प्रयत्नं कुर्म: । व्यक्ते: जीवनं दृष्ट्वा प्रेरिता: चेदपि पश्चात् कार्यमेव, सङ्घटनमेव विचिन्त्य प्रेरणां प्राप्नुम: । व्यक्ते: परिश्रमं, समर्पणं च दृष्ट्वा वयं सङ्घटनसमीपम् आगता: चेदपि व्यक्ते: न्यूनता:, स्खालित्यानि वा दृष्ट्वा दूरं न गच्छाम: । ‘स: एवम् उक्तवान्, अत: अहं कार्यं न करोमि’ इति कथनम् अस्माकं चिन्तनशैली न, यत: अहं ‘तस्य’ निमित्तं कार्यं न करोमि, अपि तु ‘तत्त्व’निमित्तं करोमि ! संस्कृतभारत्यां न कोऽपि अधिकारी, न कोऽपि सेवक: । न नायक:, न अनुयायी वा । सर्वेऽपि कार्यकर्तार: - सहकार्यकर्तार: । कश्चन प्राचार्य:, तस्य महाविद्यालयस्य कर्मचारी च वर्तते इति चिन्तयाम । महाविद्यालये कश्चन कार्यक्रम: अस्ति चेत् स्वच्छताम् आसन्दव्यवस्थां च प्राचार्य: सेवकद्वारा कारयेत् । परन्तु तौ एव द्वौ संस्कृतभारत्या: कार्यक्रमे कार्यकर्तृरूपेण स्त: चेत् तत्र तौ प्राचार्यसेवकौ न स्त:, अपि तु कार्यकर्तारौ । अत: स्वच्छता-आसन्दव्यवस्थादिकं द्वाभ्यामपि मिलित्वा करणीयम् । संस्कृतभारत्या: पदाधिकारिषु अपि ‘अहम् एक: सामान्य: कार्यकर्ता’ इति भावना सदा, प्रतिक्षणं च जागरिता एव स्यात् । संस्कृतभारत्याम् अधिकारिभावनाया:, अहङ्कारस्य च स्थानमेव नास्ति । क्वचित् एवं भवति यत् कश्चन संस्कृतप्राध्यापककार्यकर्ता अस्ति चेत् स: संस्कृतभारत्यां स्वस्य च्छात्राणां द्वारा कार्यं कारयति, स्वयं न करोति । तदा स: आदर्शकार्यकर्तृरूपेण इतरेभ्य: उदाहरणभूत: भवितुं न शक्नोति ।

यद्यपि कार्यारम्भकाले कोऽपि एक: एव कार्यकर्ता भवेत्, क्रमश: तेन कश्चन गण: निर्मातव्य: । पश्चात् सर्वै: मिलित्वा गणरूपेण कार्यं करणीयम् । गणरूपेण कार्यकरणे, कार्यचिन्तने, निर्णयप्रक्रियायां च सर्वेषां सहभाग: आवश्यक: । सम्यक् कार्ययोजना कृता स्यात्, सर्वेभ्य: कार्याणि वितीर्णानि स्यु:, सर्वेषां स्वदायित्वबोध: भवेत्, यशसि प्राप्ते सर्वेभ्य: तस्य यशस: वितरणं स्यात् (न तु कोऽपि एक: यशस: उत्तरदायित्वं स्वीकुर्यात्), सङ्घटने उपरिष्टाद् अध:, अधस्ताद् उपरि इति द्विमुखरूपेण निरन्तरं विचारसंवहनं भवेत्, सामूहिकरूपेण कार्यकरणविषये सर्वेषाम् आस्था भवेत् । कार्यकरणं नाम एकव्यक्तिप्रदर्शनं नैव । सामूहिकता कार्यपद्धते: श्रेष्ठ: गुण: । सङ्घटने अनामिकरूपेण स्थित्वा स्वयं कार्यं कुर्वन्त: इतरेभ्य: कार्यं कारयन्त: च अन्यान् एव अग्रे आनयन्त: कार्यकर्तार: यावदधिका: भवन्ति तावत् सङ्घटनस्य बलम् अधिकं भवति । तादृशा: कार्यकर्तार: सर्वेभ्य: अपि प्रेरणादातार: भवन्ति । वैयक्तिकप्रसिद्धिपराङ्मुखता, अनामिकता च समाजमानसेे संस्कृतभारत्या: विशिष्टं स्थानं कल्पयति ।

वाचि, व्यवहारे, जीवने, कार्ये च निष्कपटता कार्यकर्तॄणां, सङ्घटनस्य च विश्वासपात्रतां वर्धयति । संस्कृतभारत्या: सर्वेषु अपि कार्येषु, कार्यक्रमेषु, व्यवहारेषु, कृतिषु वा पारदर्शकता स्यात् । सार्वजनिकसङ्घटनस्य निष्कलङ्कता नाम पारदर्शकता । कार्यावसरे सर्वे निर्णया: सामूहिका: भवेयु: । सम्बद्धा: कार्यकर्तार: सर्वे उपविश्य चिन्त्यमानस्य विषयस्य गुणावगुणादीनि सर्वाणि मुखानि विचिन्त्य निर्णयं कुर्यु: । तत्सम्बन्धिन्यां चर्चायां सर्वे भागं वहेयु:, मुक्तमनस्कतया वदेयु: च । निर्णयपर्यन्तं मतभेदा: भवेयु:, परम् एकवारं निर्णये जाते, स च निर्णय: सर्वमान्य: स्यात् । तावत्पर्यन्तं य: विरोधं कुर्वन् आसीत् तस्यापि स: निर्णय: एव अभिमत: । पूर्वतनं पूर्णतया विस्मर्तव्यं तेन । स: निर्णय: केनचित् कारणेन असमीचीन: इति अनन्तरकाले ज्ञातं चेदपि एतेन ‘अहं पूर्वमेव उक्तवान् आसं, भवन्त: न श्रुतवन्त:’ इति न वक्तव्यम् । सफलतायां विफलतयां च समूहेन स्वीकृतस्य निर्णयस्य सम्बन्धे स्वस्य सा पूर्णा प्रतिबद्धता स्यात् । तस्यां गोष्ठ्याम् अनुपस्थित: चेदपि तेन समूहनिर्णय: हृदयेन अङ्गीकर्तव्य: । तस्य निर्णयस्य क्रियान्वयनाय मन:पूर्वकं कार्यं करणीयम् ।

उपवेशन(बैठक्)विषये कस्यापि कदापि आस्था न्यूना न भवेत् । प्रत्येकम् अपि कार्यकर्ता, स: कार्यं कुर्वन्/कृतवान् स्यात्, न कुर्वन्/न कृतवान् वा स्यात् नाम, उपवेशनं प्रति गच्छेत् एव । सर्वेषाम् उपस्थिति: एव सर्वेषां प्रेरणाविषय: भवति । उपवेशनं कार्यस्य अनिवार्यभाग: । तत्र ‘विद्युत्कोषस्य पुन: शक्तिपूरणं’ भवति । उपवेशननिर्वाहक: सम्यक् पूर्वसज्जतां कुर्यात् । उपवेशनं मुक्त-स्नेहमय-विनोदपूर्ण-अनौपचारिक-वातावरणे भवेत् । उपवेशने महत्तमा: विषया: चर्चनीया: सन्ति चेत् उपवेशनात् पूर्वम् अनौपचारिकरूपेण व्यक्तिश: कैश्चित् प्रमुखै: सह तद्विषये चर्चनम् उत्तमम् । उपवेशनस्य अनन्तरमपि तथैव वार्तालाप: करणीय: । उपवेशने ‘अहं यद् वदामि तद् सर्वै: श्रोतव्यम्’ ‘मया यथा उक्तं तथैव भवेत्’ इति कस्यापि भूमिका उत्तमा न । समूहस्य इच्छा एव मम इच्छा इति पूर्णेन मनसा चिन्तनं व्यक्तौ कदापि दुराग्रहप्रवेशं कर्तुं न त्यजति । व्यक्तिदूषणं, व्यङ्ग्योक्तिप्रयोग:, उच्चध्वनिना भाषणं, मुखस्य अनुद्घाटनं च उपवेशने निषिद्धानि । अतिविनोदेन, लघुतया भाषणेन वा उपवेशनस्य गाम्भीर्यं नष्टं न भवेत् इति चिन्तनीयम् । उपवेशने कश्चन अपेक्षित: नागत: चेद् केनापि तस्य विषये चिन्ता, पृच्छा च करणीया । चिन्तनं निर्णया: वा पश्चात् श्रावणीया: । उपवेशनस्य दिनाङ्कसमयादिविषये अपेक्षितानां पर्याप्तमात्रेण पूर्वमेव सूचनं स्मारणं वा करणीयम् ।

सर्वस्यापि कार्यक्रमस्य कार्यस्य वा सफलताया: कारणं भवति - पूर्वयोजना, पूर्णयोजना च । पर्याप्तमात्रेण पूर्वमेव कार्ययोजना करणीया, सज्जता आरब्धव्या च । ‘युद्धकाले शस्त्राभ्यास:’ न भवेत् । किञ्च, करणीयस्य कार्यस्य सम्पूर्णा योजना करणीया । किं किं करणीयं, कै: कदा, कथम् इत्यादिरूपेण प्रत्येकम् अंश: चिन्तनीय:, उत्तरदायित्वानि निश्चेतव्यानि, यावद् विस्तृतं चिन्तयितुं शक्यते तावद् विस्तृततया योजना भवेत्, सूक्ष्म: अंश: अपि चिन्तनीय:, पर्याया: अपि चिन्तनीया: । कार्यकर्तृभ्य: उत्तरदायित्वदानं न पर्याप्तम्, समये समये स्मारणं, साहाय्य-करणमपि आवश्यकम् ।

समयविषये संस्कृतभारत्यां महत् नैर्भर्यं भवति । सर्वेषु अपि अवसरेषु समय: पालनीय: । निमन्त्रणपत्रे चतुर्वादनमिति लेखनम्, परम् आरम्भकरणं पञ्चवादने न भवेत् । ‘उपवेशनं, सभा, मेलनम्, अन्य: कोऽपि वा संस्कृत-भारतीकार्यक्रम: उक्ते समये भवति’ इति संस्कृतभारत्या: चित्रं भवेत् । लघूनाम् अपि विषयाणां बहु महत्त्वं भवति । तै: लघुभि: अंशै: एव महत् निर्मितं भवति । लघ्वंशानां विषये अवधानदानेन एव कार्यकर्तॄणां संस्कार: भवति, विकासश्च भवति । कार्यक्रमस्थानस्य स्वच्छताम् आरभ्य कार्यकर्तॄणां व्यवहारशैलीपर्यन्तं सर्व: विषय: योग्यायोग्यविमर्शार्थं भवेत् । शिलाया: अनपेक्षितभागस्य निष्कासनं कृत्वा प्रतिमाया: सामान्याकार-कल्पनं शीघ्रं भवति । परं पश्चात् सूक्ष्मकर्तनकार्यं समापयितुं महान् समय: आवश्यक: भवति । तेन सूक्ष्मकर्तनेन एव प्रतिमाया: सौन्दर्यं भवति । तस्मिन् कर्मणि एव शिल्पिन: कौशलम् अभिव्यक्तं भवति । एवमेव कार्यसौन्दर्यमपि कार्यविषयकेण सूक्ष्मचिन्तनेन, लघुषु अपि विषयेषु अवधानदानेन च भवति । प्रत्येकं सङ्घटनस्य ‘रीतय:’ ‘नीतय:’ च भवन्ति । ‘नीति:’ नाम विचार: सिद्धान्त: वा । ‘रीति:’ नाम पूर्वकार्यकर्तॄणां ज्येष्ठकार्यकर्तॄणाम् आदर्श-भूतै: व्यवहारै: अनुभवै: च या: उत्तमा: व्यवहारपरम्परा: निर्मिता: भवन्ति ता: । सर्वेण अपि कार्यकर्त्रा संस्कृतभारत्या: रीतिनीत्यनुगुणम् एव कार्यं करणीयम् । कस्मिंश्चिदपि कार्यक्रमे मञ्चे कतिभि: जनै: उपवेष्टव्यम् ? आहत्य द्वित्रा: पर्याप्ता: । संस्कृतभारतीसङ्घटनपक्षत: एक: उपविशति चेत् पर्याप्तम् । सर्वे पदाधिकारिण: मञ्चे एव उपविशेयु: इत्यस्य आवश्यकता नास्ति । सभायां श्रोतृवर्गे पञ्च जना:, मञ्चे आसन्देषु अष्ट जना:, तेषां पृष्ठत: ‘चित्रेषु मम अपि मुखं भवेत्’ इति विना कारणं मञ्चे तिष्ठन्त: केचन जना: ! एतत् दृश्यम् उत्तमं न । आवश्यका: एव जना: मञ्चे भवेयु: । कार्यक्रमे स्वागतावसरे मालार्पणं, पुष्पगुच्छसमर्पणं वा अतिथिभ्य: केवलं करणीयं, न तु संस्कृतभारतीपदाधिकारिणे अपि । तथैव धन्यवादसमर्पणमपि ‘गृहसदस्येभ्य:’ न कर्तव्यम् । छायाचित्रस्वीकरणावसरे अपि कश्चन संयम: आवश्यक: । यदि पादरक्षा: बहि: त्यज्यन्ते तर्हि तासां व्यवस्थितरूपेण स्थापनाय कश्चन तत्र तिष्ठेत् । मञ्चे कार्यक्रमसञ्चालक: केवलं सञ्चालनं कुर्यात् (अर्थात् अतिस्वल्पं वदेत्, स्वयं भाषणानि न कुर्यात्, अपि तु पूर्ववक्ता किं किम् उक्तवान् इति तस्य पुन: उल्लेखं न कुर्यात्, यत: सभायां विद्यमाना: श्रोतार: अवगच्छन्ति, मूर्खा: न भवन्ति !) तस्य भाषा अपि शुद्धा स्यात् । छात्रा: दोषान् कुर्वन्तु नाम, परं प्रमुखा: न कुर्यु: ।

सर्वेषां जनानां, सर्वासां व्यवस्थानां च गुणा: अपि भवन्ति, अवगुणा:, दोषा:, न्यूनता: चापि भवन्ति । ये गुणा: भवन्ति ते सर्वत्र सर्वै: सह वक्तव्या: । ये दोषा: भवन्ति ते यथास्थानं वक्तव्या: । अर्थात् सम्बद्धजनै: सह केवलं वक्तव्यम् । दोषाणां सर्वत्र चर्चनेन दोषपरिष्कार: तु न भवति, अपि तु कार्यस्य हानि: एव भवति । अत: ‘गुणानां सर्वत्र कीर्तनं, दोषा: यथास्थानम्’ इति सूत्रं स्मर्तव्यम् । यथा अवकरकण्डोले अवकरा: सुदीर्घकालं न संरक्ष्यन्ते, अपि तु तत्तद्दिने क्षिप्त्वा पात्रं स्वच्छं क्रियते तथा दोषा: न्यूनता: वा दृष्टा: चेत् यथास्थानम् उक्त्वा तत्रैव स: विषय: त्यक्तव्य:, मन: स्वच्छं कर्तव्यं च । ‘यथास्थानम्’ इत्युक्ते दोषकर्ता अथवा उपरितन: ज्येष्ठकार्यकर्ता य: सम्यक् कारयितुं शक्नुयात् स: । ‘परगुणपरमाणून् पर्वतीकृत्य नित्यं, निजहृदि विकसन्त: सन्ति सन्त: कियन्त:’ इत्यत्र यथा उक्तं तथा अस्माभि: इतरेषां परमाणुगात्र: अपि गुण: पर्वतीकृत्य वक्तव्य:, पर्वताकारोऽपि दोष: परमाणुगात्रीकृत्य वक्तव्य: । एष: आदर्श: ।

संस्कृतभारती मनुष्याणां सङ्घटनम् । कार्यकर्तार: मनुष्या: । अत: कार्याणां भारे सत्यपि, धावने सत्यपि मानवीयत्वं, तन्नाम कार्यकर्तॄणां सुखदु:खविचारणं न उपेक्षणीयम् । संस्कृतभारत्या: निधि: नाम कार्यकर्तार: । अत: तेषां विषये सर्वदा अपि अवधानं दातव्यम् । तेषां कष्टे सुखे च समरसै: भवितव्यम् । तेषां विकासश्च चिन्तनीय: ।

सर्वेषु अपि कार्यक्रमेषु सरलता, मितव्ययता, अप्रदर्शनशीलता, अनाडम्बरता च भवेयु: । मितव्ययेन, सारल्येन च सौन्दर्यं सम्पादयितुं शक्यते एव । धनं यद् व्ययीक्रियते तद् समाजेन दत्तम् । अत: स्वल्प: अपि अनावश्यक: व्यय: यथा न भवेत् तथा जागरूकता भवेत् । भित्त्यादीनामपि नेत्रे भवत: इति धारणा भवतु ! सामान्यत: संस्कृतक्षेत्रे ‘सेमिनार्’ इत्यादिकं यत्र भवति, तत्र भागग्रहीतृभ्य: ‘टि.ए.डि.ए.’ दीयते इति हेतो: सर्वेषां तस्य अभ्यास: अभवत् । परन्तु संस्कृतभारत्यां तु न केवलं मार्गव्यय:, अपि तु शिबिरशुल्कमपि अस्माभिरेव दातव्यं भवति । स्वव्ययेन कार्यकरणम् इत्येतद् संस्कृतज्ञानाम् अस्माकं मानसिकं संस्कृतप्रेम, समर्पणं च अभिवर्धयति । स्वार्थं न्यूनीकरोति । तथा तु संस्कृतभारत्यां स्वार्थस्य, लोकेषणस्य, वित्तेषणस्य च स्थानं नास्ति एव ।

संस्कृतं सर्वदा जनानां दृष्टिपथे श्रुतिपथे च भवेत् इत्येतदर्थं, जनजागरणार्थं, विचारप्रचारार्थं च वार्तापत्रेषु पत्रिकासु च इलेक्ट्रानिक्-माध्यमेषु च संस्कृतभारत्या: विषये, संस्कृतभाषाया: सम्बन्धे, अस्माकं कार्यक्रमाणां विषये च वार्ता: लेखनानि च बहुधा यथा प्रकाशितानि भवेयु: तथा प्रयत्न: करणीय: । प्रचारस्य एकोऽपि अवसर: न त्यक्तव्य: । परन्तु प्रचारस्य पृष्ठत: अपि न धावनीयम् । प्रचार: अस्माकम् उद्देश: न । किञ्च कोऽपि कार्यकर्ता स्वस्य प्रचारं न कुर्यात्, अपि तु कार्यस्य, संस्कृतभारत्या: चित्रणं यथा स्यात् तथा प्रयतेत । प्रचार: अधिक:, कार्यं न्यूनम् इत्यपि न भवेत् । राजनीतौ यत्र पञ्चशतं जना: भवन्ति तस्या: सभाया: वृत्तदानावसरे ‘पञ्चसहस्रं जना: आसन्’ इति यथा वदन्ति/उद्घोषयन्ति तथा संस्कृतभारती अनृतवादिनी अपि न भवेत् ।

प्रभाव:, शक्ति: इति उभयो: मध्ये कश्चन भेद: अस्ति । गान्धीजीकाले गान्धीविचारधारा शक्तिरूपेण आसीत्, तस्यै विचारधारायै जीवनं समर्पयितुं जना: सिद्धा: आसन् । परन्तु अद्य गान्धीविचारधारा तथा शक्तिरूपेण नास्ति । परन्तु तस्या: प्रभाव: समाजे दृश्यते । तस्या: अभिमानिन: सन्ति । अनुयायिन: न चेदपि तद्विषये चर्चा भवति । एष: एव प्रभावशक्त्यो: मध्ये विद्यमान: भेद: । संस्कृतस्य प्रभाव: अस्ति, परं शक्तिरूपेण नास्ति । अस्माकं कार्यक्रमेषु केषाञ्चित् कार्यक्रमाणां द्वारा संस्कृतप्रभाव: वर्धते । ते च यथा - वीथीनाटकं, प्रतियोगिता:, संस्कृतसप्ताह: इत्यादय: । केषाञ्चित् कार्यक्रमाणां द्वारा शक्ति: वर्धते । ते च यथा - सम्भाषणशिबिरं, साप्ताहिकमेलनं, शिक्षकप्रशिक्षणशिबिरं, संस्कृतगृहम् इत्यादय: । अस्माकं कार्ये उभयविधयो: अपि कार्यक्रमयो: सन्तुलनम् अपेक्षितम् । शक्तिवर्धककार्यक्रमाणां विषये किञ्चिदधिका एव आस्था भवेत् । एवमेव कार्यस्य, सङ्घटनस्य वा संख्यात्मकवृद्धि: गुणात्मकवृद्धि: च भवेत् । द्वयो: सन्तुलितवृद्धि: भवेत् । तथापि गुणात्मकवृद्धे: विषये अधिकम् अवधानम् आस्था च उत्तमम् ।

शक्त्यनुसारमेव कार्यं स्वीकरणीयम् । संस्कृतस्य ह्रासं पश्याम: चेत्, करणीयानां कार्याणां विषये चिन्तयाम: चेत्, दैवेन दत्तान् अवसरान् पश्याम: चेत् सर्वमपि करणीयम्, इदानीमेव करणीयं, महता प्रमाणेन करणीयम् इति इच्छा: भवन्ति । परन्तु वास्तविकी स्थिति: तथा न भवति । अस्माकं कार्यकर्तृबलम्, अन्यसाधनानि च तावन्ति न भवन्ति । अत: सर्वम् एककाले एव न आरब्धव्यम्, शक्तिसञ्चयपर्यन्तं प्रतीक्षा करणीया, एकस्य अनन्तरमेव अन्यत् स्वीकरणीयम् । चिन्तनसमये तु हिमालयवत् महोन्नतं चिन्तनं करणीयं, परं पदं तु एकैकश: एव निधातव्यम् ।

संस्कृतभारत्या: कार्यकर्ता कोऽपि सङ्घटने कार्यक्रमे वा स्वस्य स्थानविषये, स्वस्य पदविषये वा न चिन्तयति । पदे सति, पदाभावे सत्यपि स: समानतया कार्यं करोति । तस्य मनसि तु ‘अहमेक: सामान्य: कार्यकर्ता’ इत्येव चिन्तनं भवति । ‘पदं नास्ति चेत् अहं कथं कार्यं करोमि’, ‘कथं (किमिति) मम परिचयं कारयामि’ इति कस्यापि मनसि प्रश्न: अपि न आगच्छेत् । सभा-उपवेशनादिषु मञ्चं विना सामान्यकार्यकर्तृरूपेण उपवेष्टुं मन: सज्जं भवेत् । अस्माकं दृष्टि: अधिकारे न, अपि तु कर्तव्ये ।

अन्यत्र सम्मेलनानि भवन्ति चेत् तत्र जना: आगच्छन्ति, गच्छन्ति । मध्ये मध्ये गमनागमनं कुर्वन्त: नगरभ्रमणमपि समापयन्ति । परन्तु संस्कृतभारत्यां प्रत्येकमपि कार्यकर्ता सर्वेषु अपि कार्यक्रमेषु सम्पूर्णतया उपस्थित: भवेत् । मध्ये बहि: नगरं प्रति गमनागमनं, कदाचित् आगत्य उपस्थितिसूचनम् इत्यादिकम् अत्र निषिद्धम् । संस्कृतज्ञानां मध्ये मतभेदकारणत: विविधा: गणा: भवितुम् अर्हन्ति । परम् अस्माभि: कस्मिंश्चिदपि गणे न पतनीयम् । विस्तारक: पूर्णकालिक: वा अस्ति चेदेव कार्यं भवति, नो चेत् न इति कस्यापि मनसि विचार: न भवेत् । संस्कृतभारत्या: कार्यं तावद् स्थानीयकार्यकर्तृकेन्द्रितं कार्यम् । कार्यकर्तॄणां चरित्रम्, आर्थिकशुचिता इत्यादीनां विषये अस्माकं महती आस्था भवति । यत: समाज: कार्यकर्तॄणां द्वारा एव संस्कृतभारतीम् अवगच्छति । कार्यक्रमानन्तरं कार्यक्रमविषये, वर्षान्ते वर्षस्य कार्यसम्बन्धे च प्रमुख-कार्यकर्तृभि: उपविश्य मूल्याङ्कनं करणीयम् । तत: पाठा: पठनीया: । प्रशंसापरम्परा संस्कृतक्षेत्रस्यैव वैशिष्ट्यम् । संस्कृतप्रशंसा, आत्म-प्रशंसा, परस्परप्रशंसा इति प्रशंसाकरणं त्रिविधम् । संस्कृतभारत्यां व्यक्तिप्रशंसा (स्वस्य प्रशंसा, परस्परयो: प्रशंसा वा) न क्रियते । प्रशंसया व्यक्ते: अहङ्कार: वर्धते इति तावान् एव लाभ: । संस्कृतप्रशंसावसरेऽपि अस्माभि: कथ्यते - ‘संस्कृतेन वदतु, न तु संस्कृतविषये’ इति । सम्मानन-परम्परा अपि अद्य विकृता जायमाना अस्ति । संस्कृतज्ञ: चेत् राङ्कवेण सम्माननम् इति समाजमानसे भावना स्थिता अस्ति । किञ्च संस्कृतज्ञा: अपि तथैव - ‘अहं भवत: सम्माननं करोमि, भवान् मम सम्माननं करोतु’ इति परस्परं वदन्त: तदनुगुणम् एव व्यवहरन्ति । किं वयं मानसम्मानहार-राङ्कवादिभि: विना संस्कृतकार्यं कर्तुं न शक्नुयाम ? कार्यकर्तॄणां भाषणशैली, प्रयुज्यमाना भाषा च बहु परिणामं जनयति । ‘भवन्त: सर्वे संस्कृतस्य प्रचारं कुर्वन्तु’ इति वयं नैव वदाम: । ‘वयं सर्वे कार्यं कुर्म:’ इति सर्वदा अस्मच्छब्दबहुवचनस्यैव प्रयोग: क्रियते, न कदापि युष्मच्छब्द: भवच्छब्द: वा । नकारात्मकम् अभावभाषणमपि न, परदूषणं न, टीकाटिप्पणीकरणं न, परोपदेश: अपि न । भाषणं विचारपूर्णं चेदपि जीवनं क्रियाविहीनं चेद् तदपि प्रेरणां न ददाति ।

[सम्पादयतु] अधिष्ठानम्

राष्ट्रस्य सर्वाङ्गीण: विकास: अस्माकं कार्यस्य अन्तिमं लक्ष्यम् अस्ति । एतद् अस्माकं राष्ट्रं किञ्चन पुरातनं राष्ट्रम् अस्ति । किञ्चन सबलं चैतन्ययुक्तं सम्पन्नं राष्ट्रजीवनम् अत्र आसीत् । धर्मार्थ-काममोक्षेति जीवनस्य चतुर्विधपुरुषार्थानां कल्पनाभि: युक्तस्य समग्रस्य एकात्मजीवनदर्शनस्य आधारेण एतस्मिन् राष्ट्रजीवने श्रेष्ठतमजीवनादर्शानां विकास: अभवत् । तस्य राष्ट्रस्य, तेषां जीवनादर्शानां च नाम एव ‘हिन्दु:’ इति । आन्तरिकशैथिल्यस्य वैदेशिकाक्रमणानां च कारणत: एतस्य राष्ट्र-जीवनस्य अवनति: जाता ।

सहस्राधिकवर्षाणां पराधीनताया: अनन्तरं वयं स्वतन्त्रा: अभवाम । राष्ट्रस्य नवनिर्माणस्य, तस्य शक्तकरणस्य वैभवसम्पन्नकरणस्य च अवसर: इदानीम् अस्माभि: प्राप्त: अस्ति । तद् लक्ष्यं प्राप्तुम् अस्माभि: गतैकसहस्रवर्षात्मके कालावधौ या: विकृतय: उत्पन्ना: ता: सर्वा: निवारणीया:, निष्कासनीया: च । शाश्वततत्त्वानि सुरक्षितरूपेण रक्षद्भि: अस्माभि: तेषाम् आधारेण वर्तमानयुगस्य आवश्यकताया: अनुरूपं नूतनरचना निर्मातव्या भवेत् । पुरातनाधारभूम्यां नूतनस्य निर्माणं भवेत् । संस्कृतभाषा एतस्य राष्ट्रस्य समानसांस्कृतिकभाषा । कस्यचिदपि राष्ट्रस्य उन्नत्यै तस्य राष्ट्रस्य सांस्कृतिकभाषा अनिवार्या भवति । पूर्वं संस्कृतं भाष्यमाणभाषा आसीत् । मातृभाषा आसीत्, जनभाषा आसीत् । शिक्षाया:, प्रशासनस्य, वाणिज्यस्य, साहित्यस्य, कलानां, बौद्धिकचर्चानां, संवादानां च माध्यमभाषारूपेण समग्रे भारते प्रयुज्यमाना आसीत् । सहस्रवर्षात्मके पराधीनताकाले सा ह्रासं गता । ब्रिटिश्शासन-काले तु योजनापूर्वकं संस्कृतस्य निष्कासनं कृतम् । संस्कृतविद्यालयानां पिधानं कृत्वा आंग्लविद्यालयानाम् आरम्भ:, संस्कृतं मृतभाषा इति निरन्तरप्रचार:, संस्कृतशिक्षणविधिपरिवर्तनम्, संस्कृतशिक्षकाणाम् इतरविषयशिक्षकेभ्य: न्यूनवेतनम्, आंग्लाध्ययनं धनोपार्जनस्य प्रतिष्ठाया: च मूलम् इति व्यवस्थानिर्माणम् इति एतै: पञ्चभि: उपायै: आंग्लेयै: संस्कृताय प्राणान्तिकप्रहार: दत्त:, कुठाराघात: कृत: ।


राष्ट्रजीवनस्य सर्वेषु क्षेत्रेषु संस्कृतस्य पुन:प्रतिष्ठापनम् अस्माकं कर्तव्यम् । संस्कृतसम्भाषणेन संस्कृतभाषापुनरुज्जीवनं भविष्यति । भाषापुनरुज्जीवनेन सांस्कृतिकपुनरुत्थानं भविष्यति, यत: भाषा संस्कृतिश्च अविभाज्ये, परस्परं पूरके, एकस्यैव नाणकस्य मुखद्वयभूते च । सांस्कृतिकपुनरुत्थानेन राष्ट्रस्य वैभवं भविष्यति, यत: ‘राष्ट्रम् इत्येतद् सांस्कृतिकी अवधारणा, न तु भौगोलिकी, राजनैतिकी वा, न वा आर्थिकी । परं संस्कृत्याम् अर्थचिन्तनमपि अस्ति । राष्ट्रवैभवेन विश्व-कल्याणम् । यत: शक्तिहीनस्य राष्ट्रस्य विचाराणां कुत्रापि मान्यता न भवति । शक्तिसम्पन्नस्य आदर: । भारतं शक्तं समृद्धं च भवति चेदेव विश्वे तस्य स्थानम् । अत: वैभवोपेतस्य राष्ट्रस्य निर्माणमेव संस्कृत-सम्भाषणान्दोलनस्य गन्तव्यम् । राष्ट्रस्य पुनर्निर्माणकार्यं कस्यचिद् एकस्यैव सङ्घटनस्य कार्यं न । बहुभि: बहुषु क्षेत्रेषु कार्यं करणीयम् । संस्कृतक्षेत्रे अस्माभि: अपि कार्यं क्रियते । आर्थिकक्षेत्रं, राजनैतिकक्षेत्रं, विधिक्षेत्रं, तत्त्वशास्त्र-प्रबन्धविज्ञान-सङ्गणक-इतिहास-पुरातत्त्व-कला-विज्ञान-गणित-वास्तु-वैद्यकीयादिषु सर्वेषु अपि क्षेत्रेषु प्राचीनभारतस्यापि महत् गभीरं च चिन्तनम् अस्ति । तच्च चिन्तनं सर्वं संस्कृते एव अस्ति । अत: राष्ट्रस्य नवनिर्माणे संस्कृतस्य, अर्थात् संस्कृतभारत्या: महत्त्वभूता भूमिका भविष्यति । न केवलं भारतस्य नवनिर्माणे, अपि तु विश्वशान्तिस्थापने एव संस्कृतेन प्रमुखभूमिका निरुह्येत !

सामाजिकपरिवर्तनं सदा अपि सर्वकारद्वारा न भवति, जनानां द्वारा भवति । संस्कृतस्य पुनरुज्जीवनकार्ये सर्वकारस्य सहायकभूमिका भवितुम् अर्हति । परन्तु मूलतया परिवर्तनात्मकं कार्यं सामाजिकै: अर्थात् संस्कृतज्ञै: एव करणीयं भवति । समाजे संस्कृतविषये आस्था वर्धेत, संस्कृतपठने रुचि: वर्धेत, संस्कृतस्य अनिवार्यता अनुभूयेत च । समाजे तादृशं परिवर्तनम् आनेतव्यं चेत् तदर्थम् आदौ संस्कृतज्ञेषु दृष्टिपरिवर्तनं भवेत् । इदानीं तु संस्कृतज्ञा: संस्कृतोन्नत्यर्थं सर्वकारमुखं पश्यन्त: सन्ति । पञ्चाशदधिक-वर्षाणां व्यर्थप्रतीक्षाया: अनन्तरं वा अस्माभि: पाठ: अवगन्तव्य: । अस्माभि: अस्माकं प्रयत्नेन एकैकाम् इष्टिकां संस्थाप्य संस्कृतभवनं निर्मातव्यं भवेत् । संस्कृतज्ञानाम् अस्माकं दृष्टिपरिवर्तने जाते संस्कृतक्षेत्रे अपि परिवर्तनं भवेत् । संस्कृतार्थं कार्यं कुर्वाणा: सर्वे जना:, सर्वा: संस्था: (सङ्घटनानि वा) च अस्मदीया: इति अस्माकम् अत्यन्तम् उदारभावना अपेक्षिता । तेषां न्यूनता: अपि अस्माकमेव न्यूनता:, तासां समीकरणस्य उत्तरदायित्वमपि अस्माकमेव ।


[सम्पादयतु] बाह्यसम्पर्कतन्तुः

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु