सत्ययुगम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सत्ययुगम्/कृतयुगम् इत्यस्मात् पुनर्निर्दिष्टम्)


चतुर्षु युगेषु सत्ययुगं अथवा कृतयुगं प्रथमं युगं भवति । यद्यपि प्राचीनवैदिकग्रन्थेषु सत्यत्रेतादीनां युगानां स्पष्टप्रसावः नास्ति तथापि स्मृतिषु पुराणेषु च विशेषतः चतुर्युगानां सविस्तारं प्रतिपादनम् अस्ति । पुराणेषु सत्ययुगस्य विषये एवं विवरणं लभते । वैशाखशुक्लस्य अक्षय्यतृतीयायां भानुवासरे अस्य युगस्य आरम्भः अभवत् । अस्य युगस्य परिमाणहः १७२८००० सौरवर्षाणि । अस्मिन् युगे भगवतः मत्स्यः कूर्मः वराहः नरसिहः इति अवताराः अभवन् । अस्मिन् कले स्वर्णमयस्य व्यवहारपत्राणि प्रचुराणि आसन् । मनुष्यः अत्यन्तं दीर्घकायः अतिदीर्घायुष्मान् आसीत् । अस्य प्रधानं तीर्थक्षेत्रं तु कुरुक्षेत्रम् आसीत् । अस्मिन् युगे ध्यानस्य ज्ञानस्य तपसः प्राधान्यम् आसीत् । प्रत्येका प्रजा पुरुषार्थसिद्धिं प्राप्य कृतकृत्या भवति स्म । अतः अस्य कृतयुगम् इति कथ्यते । चतुष्पादः (पूर्णः) धर्मः परिपालितः असीत् । मनुना अवलम्बितं शास्त्रं केवलं धर्मशास्त्रम् आसीत् । महाभारते (वनपर्वणि) अस्य युगस्य विषये विशेषमतं प्राप्यते यत् कलियुगात् अनन्तरं कल्किद्वारा अस्ययुगस्य पुनः स्थपनं भविष्यति ।

ब्रह्मणः एकः दिवसः नाम १००००भगेषु कृतेषु एकस्य चरणः इति कथ्यते ।

चतुर्युगानि
४ चरणाः (1,728,000 सौरवर्षाणि)सत्ययुगम्
३ चरणाः (1,296,000 सौरवर्षाणि) त्रेतायुगम्
२ चरणाः (८६४००० सौरवर्षाणि)द्वापरयुगम्
१ चरणाः (४३२००० सौरवर्षाणि)कलियुगम्
"https://sa.wikipedia.org/w/index.php?title=सत्ययुगम्&oldid=395969" इत्यस्माद् प्रतिप्राप्तम्