सन्तूर् (वाद्यम्)

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(सन्तूर् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सन्तूर

सन्तूर् (Santur) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य प्रसिद्धं तन्त्रिवाद्यम् । "सन्तूर्" इति पदं "पर्षियन् भाषातः" आगतम् । संस्कृते अस्य "शततन्त्री वीणा" इति नाम । एशिया तथा युरोपखण्डेषु यात्रिकसङ्गीतज्ञैः प्रचारं कृतवन्तः । विविधेषु देशेषु विविधविन्यासेषु इदं वाद्यं दृश्यते । ईरान, ईराक् तथा तुर्कीदेशेषु ७२ तन्त्रियुक्तं वाद्यं भवति । एतेषु देशेषु ’सन्तूर्’ इत्येव व्यवहारः अस्ति । ४५ तन्त्रियुक्तं वाद्यं चीनदेशे भवति । अस्य नामस्तु "याङ्ग्-किन्" इति व्यवहारः अस्ति । ग्रीकदेशे 'सन्तूरि' इति व्यवहारः अस्ति अस्यैव वाद्यस्य ।

भारतीयसन्तूर[सम्पादयतु]

भारते पूर्वं एतत् वाद्यं जनपदसङ्गीते उपयोगं कुर्वन्तिस्म । कालान्तरे पण्डित् शिवकुमारस्य परिश्रमेण शास्त्रीयसङ्गीतवाद्यत्वेन अस्य वाद्यस्य परिवर्तनं जातम् । प्रायः भारतीयसन्तूरवाद्ये ८२ तन्त्र्यः भवन्ति ।

प्रसिद्धिः[सम्पादयतु]

काश्मीरस्य जनपदसङ्गीतवाद्यम् आसीत् । अस्मिन् वाद्ये १०० तन्त्र्यः आसन् । सूफिसन्तजनाः स्वसङ्गीते मुख्यतया उपयोगं कुर्वन्तिस्म । पण्डित् "शिवकुमारस्य" पिता "पण्डित् उमादत्तः शर्मा" शास्त्रीयसङ्गीताय सूक्तं वाद्यं इति चिन्तितवान् आसीत् । गच्छताकालेन शिवकुमारेण विशिष्टानि परिवर्तनानि आनीतानि । भारतीय शास्त्रीयसङ्गीते आवष्यक गमकादीनां वादनसामर्त्यम् अस्मिन् वाद्ये पूर्वं नासीत् । किन्तु "शिवकामरः" एव गामकादीनां वादनसामर्थ्यम् अस्य वाद्याय अनीतवान् स्वपरिश्रमेण । तन्त्रीणाम् उपरि "कलम्" चालनसहायेन गमकादीनां वादनं शक्यते । "१९५५" वर्षे प्रप्रथमतया शास्त्रीयसङ्गीतसभायां वादनं कृतवन्तः ।

वादकाः[सम्पादयतु]

  • पण्डित् शिवकुमारशर्मा
  • भजन् सोपोरि
  • राहुल् शर्मा
  • तरुण् भट्टाचार्य

श्रव्यम्[सम्पादयतु]

दृश्यम्[सम्पादयतु]


वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=सन्तूर्_(वाद्यम्)&oldid=277598" इत्यस्माद् पुनः प्राप्तिः