सन्नियम्येन्द्रियग्रामं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सन्नियम्य इन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥ ४ ॥

अन्वयः[सम्पादयतु]

ये तु इन्द्रियग्रामं सन्नियम्य सर्वत्र समबुद्धयः अनिर्देश्यम् अव्यक्तं सर्वत्रगम् अचिन्त्यं कूटस्थम् अचलं ध्रुवं च अक्षरम् पर्युपासते सर्वभूतहिते रताः ते माम् एव प्राप्नुवन्ति ।

शब्दार्थः[सम्पादयतु]

ये तु = ये मानवाः तु
इन्द्रियग्रामम् = करणसमुदायम्
सन्नियम्य = उपसंहृत्य
सर्वत्र = सर्वस्मिन् काले
समबुद्धयः = समानचित्ताः
अनिर्देश्यम् = अवर्णनीयम्
अव्यक्तम् = इन्द्रियागोचरम्
सर्वत्रगम् = सर्वव्यापिनम्
अचिन्त्यम् = अप्रमेयम्
कूटस्थम् = निर्विकारम्
अचलम् = अकम्प्यम्
ध्रुवं च = नित्यं च
अक्षरम् = ब्रह्म
पर्युपासते = सेवन्ते
सर्वभूतहिते = सकलप्राणिहिते
रताः = आसक्ताः
ते = ते जनाः
मामेव प्राप्नुवन्ति = मामेव लभन्ते ।

अर्थः[सम्पादयतु]

ये पुरुषाः करणसमुदायं सन्नियम्य सर्वस्मिन् काले समानचित्ताः अनिर्वचनीयम् इन्द्रियाणाम् अगोचरं सर्वव्यापिनम् अप्रमेयं मायाध्यक्षम् अकम्प्यं स्थिरं च परमात्मानं सेवन्ते, सकलप्राणिहिते आसक्ताः ते जनाः माम् एव लभन्ते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]