समन्वयाध्यायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रथमोध्यायस्य प्रथमपादस्य सारः[सम्पादयतु]

प्रथमाध्यायस्य प्रथमपादे १३४ सूत्राणि ११ अधिकरणेषु विभक्तानि वर्तन्ते । समग्रे प्रथमे अध्याये प्रथमपादः अत्यन्तं प्रधानः भवति । तत्रापि आदिमचत्वारि अधिकरणानि समग्रब्रह्मसूत्रस्य सारत्वेन परिगण्यन्ते । पादस्य नाम विद्यते ’स्पष्ठब्रह्मलिङ्गश्रुतिसमन्वयः’ इति । एवं सवेर्षामपि पादानाम् एकैकं नाम दीयते । समग्रपादे एव आदिमचत्वारि अधिकरणानि अत्यन्तं प्रधानभूतानि । तानि च ब्रह्मसूत्रस्य समग्रस्य सारः । तत्र विषयप्रयोजनसिद्धिहेतुत्वं शास्त्रस्य प्रतिपादितम् । एतत्पृष्ठभूमौ एव ब्रह्मजिज्ञास्यम् । सृष्ठिस्थितिलयकारणीभूतस्य ब्रह्मणः वेदकार्यत्वं, वेदस्य च ब्रह्मकारणकमिति प्रतिपादनं कृतम् । चतुर्थाधिकरणेन प्राप्ताक्षेपस्य साङ्ख्यमतनिराकरणपुरस्सरं सिद्धान्तः प्रतिपादितः । अतः सर्वे वेदान्ताः ब्रह्मसमनुगतत्वं च सुसाधितम् । उपनिषत्सु केचन शब्दाः आनन्दमयः, आकाशः, ज्योतिः, प्राणः इत्यादयः ये दृष्ठाः, ते किं स्पष्ठब्रह्मलिङ्गपराः? उत न? प्राप्तसंशयमनूद्य इमे शब्दाः स्पष्ठब्रह्मलिङ्गपराः एव इति साधितम् ।

प्रथमोध्यायस्य द्वितीयपादस्य सारः[सम्पादयतु]

पादेऽस्मिन् तावत् ७ अधिकरणानि ३२ सूत्राणि च वर्तन्ते । अस्य पादस्य नाम विद्यते ’उपास्यब्रह्मवाचकास्पष्ठश्रुतिसमन्वयः’ इति । अधिकरणेषु कठोपनिषत्, मुण्डकम्, छान्दोग्यम्, बृहदारण्यकम् इत्यदिभ्यः उपनिषद्भ्यः वाक्यानि उद्धृतानि विद्यन्ते । अक्षि, अत्ता, वैश्वानरः इत्यादयः शब्दाः उपास्यब्रह्मस्थानं द्योतयन्ति । तत्र किं ब्रह्म उपास्यत्वेन निर्दिश्यते ? उत अन्यत् जीवः, देवतात्मा, योगी, भूताग्निः, जाठराग्निः? इति अस्पष्ठश्रुतिवाक्यानां उपास्यब्रह्मपरतया प्रतिपादनमेव अत्र पादे स्वीचिकीर्षितम् ।

प्रथमोध्यायस्य तृतीयपादस्य सारः[सम्पादयतु]

तृतीयपादे तावत् १३ अधिकरणानि ४३ सूत्राणि सन्ति । पादस्य नाम अस्ति ’ज्ञेयब्रह्मप्रतिपादकास्पष्ठश्रुतिसमन्वयः’ इति । पूर्वोक्तप्रकारेण अत्रापि उपनिषद्भ्यः वाक्यानि उदि्ध्रयन्ते । ताा उपनिषदः मुण्डकम्, तैत्तिरीयकम्, काठकम्, छान्दोग्यम्, बृहदारण्यकम्, प्रश्नोपनिषच्च । ज्ञेयब्रह्मप्रतिपादनपराः केचन शब्दाः उपनिषत्सु दृष्ठाः ते द्यौः, भूमा, अक्षरम्, दहराकाशः, आङ्गुष्ठमात्रशब्दः, शूद्रः, प्राणः, ज्योतिः,आकाशात्मना निर्दिष्ठाः । एतेषां शब्दानां ज्ञेयब्रह्मप्रतिपादकत्वेन सिद्धान्तः निरूप्यते पूर्वपक्षस्य निराकरणपुरस्सरम् ।

प्रथमोध्यायस्य चतुर्थपादस्य सारः[सम्पादयतु]

अस्मिन् पादे ८ अधिकरणानि २८ सूत्राणि च विद्यन्ते । पादस्य नामकरणम् एवं प्रकारेण कृतम् अत्र ’अव्यक्तादिपदसंदिग्धपदमात्रसमन्वयः’ इति । अत्र पादे विशेषेण श्वेताश्वतरोपनिषत्, कौषीतकिब्राह्मणं च स्वीकृतम् । अन्याः च उपनिषदः समानाः । प्रथमाधिकरणत्रयं साङ्ख्यदर्शननिराकरणपरम् । पुना कार्यविषये विगाने अवगम्यमाने कारणनिरूपणे तु अविगानमिति इति च विषयः निरूपितः । वेदान्तिनां यः प्रबलः सिद्धान्तः ब्रह्मणः अभिन्ननिमित्तोपादानकारणम् इति तस्य च उपान्त्येन अधिकरणेन साधितम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

ब्रह्मसूत्राणि

"https://sa.wikipedia.org/w/index.php?title=समन्वयाध्यायः&oldid=395975" इत्यस्माद् प्रतिप्राप्तम्