समाजवादी पक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(समाजवादीपक्षः इत्यस्मात् पुनर्निर्दिष्टम्)
समाजवादीपक्षः
अध्यक्षः अखिलेशयादव
निर्माणम् ४ अक्टुवर्, १९९२
विचारधारा जनप्रीयतावादः
गणतन्त्रिकसमाजतन्त्रम्
धर्मनिरपेक्षतावादः
राजनैतिकस्थितिः वाम-केन्द्र्
लोकसभासदस्यसंख्या
२२ / ५४५
राज्यसभासदस्यसंख्या
८ / २४५
उत्तरप्रदेशराज्ये विधानसभायां
विजीतकेन्द्रसंख्या
२२४ / ४०३
निर्वाचनचिह्नम्
समाजवादीपक्षस्य प्रतीकम्
जालस्थानम्
Official Website

समाजवादीपक्षः(SP) भारतीयराजनैतिकपक्षाणाम् अन्यतमः । अस्य पक्षस्य स्थापना १९९२, अक्टुबर् मासस्य चतुर्थदिनाङ्के जाता । वस्तुतः उत्तरप्रदेशराज्ये समाजवादीपक्षस्य अस्तित्व वर्तते । पक्षोऽयं गणतान्त्रिकसमाजतन्त्रं समर्थयति ।
जनतादलस्य अवसानानन्तरं यथा भारतीयजनतापक्षस्य उत्पत्तिः तथैव समाजवादीपक्षस्यापि उद्भवः । मुलायमसिंहमहोदयः अस्य पक्षस्य प्रतिष्ठाता । सः उत्तरप्रदेशराज्यस्य मुख्यमन्त्री तथा भारतसर्वकारस्य रक्षामन्त्री आसीत् ।

विवरणम्[सम्पादयतु]

  • समाजवादीपक्षः प्राथमिकतया उत्तरप्रदेशे विद्यते । अयं पक्षः अनग्रसरजाति-यादव-मुस्लिमजनान् समर्थयति । यद्यपि समाजवादीपक्षः समग्रभारते लोकसभा-विधानसभानिर्वाचने प्रतिभागं करोति तथापि अस्य साफल्यं उत्तरप्रदेशे एव दृश्यते। मध्यप्रदेशराज्यस्य विधानसभानिर्वाचने २००३ तमे वर्षे समाजवादीपक्षः ७ स्थलेषु विजयी आसीत् ।
  • पञ्चदशलोकसभानिर्वाचने अस्य पक्षस्य २२ सदस्याः विजीताः आसन् । लोकसभायां तृतीयबृहत्तमपक्षश्च आसीत् ।
  • २००५ तमे वर्षे भुतपूर्वमुख्यमन्त्री 'बङ्गाराप्पा' भारतीयजनतापक्षात् बहिरागत्य समाजवादीपक्षे आगतवान् । सः समाजवादीपक्षस्य नेतारूपेण लोकसभानिर्वाचने विजयं (निर्वाचनक्षेत्र- 'सिमोगा') प्राप्तवान् ।
समाजवादीपक्षस्य पताका
समाजवादीपक्षस्य पताका

समाजवादीपक्षस्य पदधिकारिणः[सम्पादयतु]

मुलायमसिंह-प्रतिष्ठाता, लोकसभासदस्यः, भारतसर्वकारस्य भूतपूर्वरक्षामन्त्री एवं भूतपूर्वमुख्यमन्त्री (उत्तरप्रदेशराज्यम्)
अखिलेशयादव-मुख्यमन्त्री, राज्यसभाधिपति, (उत्तरप्रदेशराज्यम्)
आज़मखान्- वरिष्ठः मन्त्रीवर्यः, रष्ट्रियसाधारणसभाधिपतिः
रामगोपालयादव- साधरणसभाधिपतिः, लोकसभासदस्यः, एवं राज्यसभाप्रवक्ता
शिवपालसिंहयादव- वरिष्ठसदस्यः, मन्त्री(उत्तरप्रदेशराज्यम्)
धर्मेन्द्रयादव- लोकसभासदस्यः,
राकेश सज्जन्- लोकसभासदस्यः(फतेहपुरम्)
साइद् काजिम हासान् - विधानसभासदस्यः


"https://sa.wikipedia.org/w/index.php?title=समाजवादी_पक्षः&oldid=471335" इत्यस्माद् प्रतिप्राप्तम्