सम्पूर्णकान्तियात्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१९७४ तमस्य वर्षस्य 'अप्रैल'-मासस्य एकोनविंशति(१९)तमे दिनाङ्के बिहारराज्यस्य पटना-महानगरस्थे 'गान्धि मैदान' स्थले विशालसभायाः आयोजनं कृतवान् जयप्रकाशः । तस्यामेव सभायामेव जनाः तं सम्बोधिवन्तः लोकनायक इति । ततः १९७४ तमस्य वर्षस्य 'जून'-मासस्य पञ्चे (५) दिनाङ्के सप्त कि.मी. लम्बमानस्य प्रदर्शनस्य मार्गदर्शनं कुर्वन् जयप्रकाशः बिहारराजभवनं प्रति पदयात्रां प्रारभत । तां पदयात्रां ‘सम्पूर्णकान्तियात्रा’ इति जानीमः वयम् । १९७५ तमस्य वर्षस्य 'मार्च'-मासस्य षष्ठे (६) दिनाङ्के 'सिंहासन खाली करो कि जनता आती है' इति सूत्रं छात्रेभ्यः अयच्छत् जयप्रकाशः ।