सम्पूर्णानन्द संस्कृत विश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः इत्यस्मात् पुनर्निर्दिष्टम्)
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः
सञ्चिका:विश्वविद्यालयः
ध्येयवाक्यम् विद्ययाेsमृतमश्नुते
स्थापनम् १७९१
प्रकारः साधारणम्
उपकुलपतिः प्रो0 हरेराम त्रिपाठी
अवस्थानम् वाराणसी, उत्तरप्रदेशराज्यम्, भारतम्
क्षेत्रम् नागरिकम्
अनुमोदनम् यू0 जी0 सी0
जालस्थानम् www.ssvv.ac.in

सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः एकः संस्कृतविश्वविद्यालयः अस्ति । अयं विश्वविद्यालयः भारतस्य उत्तरप्रदेशस्य वाराणस्यां वर्तते । विशेषतः संस्कृताध्ययनाय सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य संरचना कृता । संस्कृतविषये उच्चशिक्षायाः अवसरः एतया संस्थया कल्प्यते । अत्र नैके विद्वांसः संस्कृतस्याध्ययनं कृत्वा अधुना विविधेषु पदेषु विश्वविद्यालयस्य गौरवम् अग्रे सारयन्तः सन्ति। वर्तमानसमये अस्य विश्वविद्यालयस्य मान्याः कुलपतयः प्रो0 हरेरामत्रिपाठिनः वर्तन्ते।

विभागाः[सम्पादयतु]

अस्मिन् विश्वविद्यालये नैके विभागाः सन्ति।

क्रीडाङ्गणम्[सम्पादयतु]

अत्र एकं सुदीर्घं क्रीडाङ्गणं वर्तते यत्र सर्वे छात्राः विविधाः क्रीडाः स्पर्धाश्च क्रीडन्ति।

पुस्तकालयः[सम्पादयतु]

दशलक्ष्याधिकगृन्थयुतः सरस्वतीभवनपुस्तकालयः अस्मिन् विश्वविद्यालये छात्रामध्यनाय महदुपकरोति।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

* https://hi.wikipedia.org/wiki/सरस्वती_भवन_पुस्तकालय