सम्भाषणम्:आल्फ्रेड् नोबेल्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शुभामहोदया आल्फ्रेड् नोबेल् इति तु भवत्या शुद्धशीर्षकं कृतम् । परन्तु तत्र यत् पुरातनम् अशुद्धं लिखितमासीत्, तदैव वद्यते । अतः मया परिष्करणियानि इति वर्गः स्थापितः आसीत् । वैज्ञानिकाः भवतु, परन्तु सः वर्गः अपि आवश्यकः एव । तस्मिन् पृष्ठे ऎ ऒ इत्यदियः त्रुटयः सन्ति । ताः निराकरणीया एव । भविष्यत्काले कोपि परिष्कर्तुम् उद्युक्तः भवति चेत्, तस्य ज्ञानं भवेत् वर्गे गत्वा । अहं जानामि यत् मम कार्यशैल्या भवती सन्तुष्टा नास्ति । परन्तु यत् उचितं भवति, तत्र भवति स्वीकरोति चेत् लाभाय ।

अन्यत् अपि वक्तुम् इच्छामि । अस्माभिः चालनं (शीर्षकपरिवर्तनं) यदा क्रियते, तदा तेषां पृष्ठानामेव प्रतिनयनं भवेत्, येषां पृष्ठानां परिसन्धिः अन्यैः पृष्ठैः सह अस्ति । अन्यथा अयोग्यानि पृष्ठानि अधिकानि भविष्यन्ति । उदा. महॆन्द्र सिङ्ह् धॊनि इत्यत्र भवत्या प्रतिप्रेषणं कृतं परन्तु तस्य पृष्ठस्य परिसन्धिः अन्यस्य पृष्ठेन सह नासीत् । तत् पृष्ठं भ्रान्त्या रचितम् आसीत् । अतः तत् निराकरणीयमेव । यथा अहं भारतीयसंसद् इत्यस्य स्थाने भाकतीयसंसद् इति भ्रमेण अरचम् । यदि तस्य अयोग्यस्य पृष्ठस्यापि अहं मूलपृष्ठं प्रति नयामि चेत् अयोग्यमेव । यस्य आवश्यकता न भवति, यस्य अन्वेषणं न भवति, तेषां अयोग्यानां पृष्ठानां का आवश्यकता । तस्य इतिहासः रक्षणीयः इति सम्यक् परन्तु यत् अयोग्यं तस्य रक्षणं किमर्थम् ?

अस्मिन् पृष्ठे, कैस्तजनैः निर्मितेषु बहुषु पृष्ठेषु च एतत् चिन्तनमेव योग्यम् इति मे मतिः ।


अत्र एकः जनः माम् अशिक्षयत् यत्, "शीर्षकपरिवर्तनान्तरं यदि पुरातनं शीर्षकं निष्काशनीयं चेत् सरलमेव । " 1 शीर्षकं परिवर्त्याम् । 2 शीर्षकं परिवर्तितम् इति सूचनायाः पृष्ठं यत् आगच्छति तत्र पुरानते पृष्ठे गन्तव्यम् । 3 तस्मिन् पृष्ठे delete वर्गः स्थापनीयः

अनेन इतिहासस्य रक्षणमपि भवति, शुद्धं शीर्षकम् अपि भवति । -ले, NehalDaveND १०:४७, १० अप्रैल २०१४ (UTC)