सरदार वल्लभभाई पटेल

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(सरदार् वल्लभभायी पटेलः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सरदार वल्लभभाई पटेल
उपप्रधानमन्त्री
कार्यालये
१५/८/१९४७ – १५/१२/१९५०
प्रधानमन्त्री जवाहरलाल नेहरू
पूर्वगमः Position established
पादानुध्यातः मोरारजी देसाई
कार्यालये
१५/८/१९४८ – १५/१२/१९५०
प्रधानमन्त्री जवाहरलाल नेहरू
पूर्वगमः Position established
पादानुध्यातः मोरारजी देसाई
व्यक्तिगत विचाराः
जननम् 31 October 1875(1875-10-31)
नडियाद, गुजरात, भारतम्
मरणम् 15 December 1950(1950-12-15) (aged 75)
मुम्बई, भारतम्
राष्ट्रीयता भारतीयः
राजनैतिकपक्षः Indian National Congress
अपत्यानि Maniben Patel, Dahyabhai Patel
वृत्तिः अधिवक्ता
धर्मः हिन्दूधर्मः

सरदार वल्लभभाई पटेल (गुजराती: સરદાર વલ્લભલાઈ પટેલ, हिन्दी: सरदार वल्लभभाई पटेल, आङ्ग्ल: Sardar Vallabhbhai Patel) भारतस्य एकतायाः सूत्रधारः । लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः । लोहपुरुषस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत् । तस्य दृढस्वभावेन, निर्णयशक्त्या च अद्यापि सः जनमानसे चकास्ति । न केवलं भारतस्वतन्त्रताप्राप्त्यै, समग्रस्य भारतस्य एकीकरणे अपि तु भारतस्वतन्त्रताप्राप्त्यनन्तरं देशस्य भविष्यनिर्माणे सर्वोत्कृष्टं योगदानम् अस्यैवास्ति ।

अन्तर्विषयाः

कुटुम्बेतिहासः[सम्पादयतु]

एककिंवदन्त्यनुसारं लोहपुरुषस्य पूर्वजाः पञ्जाबराज्यस्य गुजरनामकक्षत्रियवंशीयाः आसन् । यवनाक्रमणेन त्रस्ताः गुजरक्षत्रियाः एकादशेऽब्दे गुजरातराज्यस्य साबरमती-महीनद्योः मध्ये स्थिते विशालभूभागे स्वनिवासं निश्चितं कृतवन्तः । केचन गुजरक्षत्रियाः नर्मदा-ताप्तीनद्योः तीरेऽपि न्यवसन् । गुजरातराज्यस्य शान्तिमये वातावरणे गुजरक्षत्रियाः कृषिकार्यं प्रारभन्त । तस्मिन् समये गुजरातराज्ये ये शासकाः आसन्, तेभ्यः गुजरक्षत्रियाः कृषियोग्यं 'पट्ट' इति भूभागं गृहीतवन्तः । नदीतीरे स्थितः समभूभागः गुजरातीभाषायां 'पट्ट' इति उच्यते । ते 'पट्ट' इत्यस्य क्रयणं कृतवन्तः । अतः 'पाटीदार' इति प्रसिद्धाः अभूवन् ।

अपरकिंवदन्त्यनुसारं गुजरक्षत्रियाः पञ्जाबराज्यस्य कृषकाः एव आसन् । यवनाक्रमणेन त्रस्ताः ते अयोध्यां गतवन्तः, ततः गुर्जरप्रान्तं प्राप्तवन्तः । पञ्जाबराज्यस्य लेउ-नामकात् ग्रामात् आगताः 'लेउआ', करड-नामकात् ग्रामात् आगताः 'कडवा' इत्येताभ्यां नामभ्यां गुजरक्षत्रियाः गुजरातराज्ये प्रसिद्धाः अभूवन् ।

गुजरवंशे उद्भूतः क्रान्तिकारी झवेरभाई पटेल गुजरातराज्यस्य आणन्दमण्डलस्य करमसद-ग्रामे वसति स्म । पारिवारिकसम्पत्तेः विभाजनपश्चात् तेन लघुभूभागः एव प्राप्तः आसीत् । अतः सः स्वपरिवारस्य पोषणपरिमितं धनार्जनमेव कर्तुं सक्षमः आसीत् । तस्मै धनसङ्ग्रहस्तु असम्भव एवासीत् । क्रान्तिकारी झवेरभाई भारतस्वतन्त्रतायाः विचारं कुर्वन् पञ्चविंशतितमे (२५) वयसि कमपि विनोक्त्वा गृहात् निर्गतः आसीत् । किंवदन्यनुसारं सः उत्तरप्रदेशं गत्वा १८५७ तमस्य वर्षस्य भारतस्वतन्त्रताविप्लवे आङ्ग्लविरुद्धे युद्धे झांसीप्रदेशस्य लक्ष्मी बाई राज्ञाः सैन्ये भारतस्वतन्त्रतार्थम् अयुद्ध्यत । झवेर-महाभागस्य पत्न्याः नाम लाडबाई आसीत् । लाडबाई अपि पतिपथगामिनी, धर्मचारिणी च आसीत् । तयोः पञ्च पुत्राः आसन् । सोभाभाई, नरसिंहभाई, विठ्ठलभाई, वल्लभभाई, काशीभाई इति । तयोः एका पुत्री अपि आसीत् । तस्याः नाम डाईबाई । झवेर-महाभागस्य चतुर्थः पुत्रः एव भारतस्य लोहपुरुषः सरदार वल्लभभाई पटेल ।

जन्म[सम्पादयतु]

लोहपुरुषस्य जन्म नडियाद-नगरे स्थिते मातुलगृहे अभूत्[१] । लोहपुरुषस्य जन्मतिथिविषये निश्चितता तु नास्ति । सरदार स्वयं कथयति स्म यत्, “शाला-तः ज्ञानेन सह जन्मतिथिमपि प्राप्तुं शक्नुमः” इति । एवं सः पौनःपुन्येन स्वजन्मतिथिविषयस्य उपहासं करोति स्म । अस्य कारणमपि आसीत् । तस्य माता आङ्ग्लदिनाङ्कं निषेधयति स्म । अतः सा बालवल्लभस्य आङ्ग्लदिनाङ्कं न दृष्टवती । परन्तु शाला-तः १८७५ तमस्य वर्षस्य 'अक्तूबर्'-मासस्य एकत्रिंशत् (३१) दिनाङ्कस्य लोहपुरुषस्य जन्मदिनाङ्कत्वेन निर्दिष्टत्वात् वयं ३१/१० दिनाङ्कमेव लोहपुरुषजयन्तीरूपेण आचरामः [२]

बाल्यम्[सम्पादयतु]

लोहपुरुषस्य पिता झवेरभाई कृषकः आसीत्, अतः तस्य सर्वे पुत्राः कृषिं कुर्वन्ति स्म । बालवल्लभोऽपि पित्रा सह कृषिं करोति स्म । तत एव बालवल्लभस्य शिक्षणस्य प्रारम्भोऽभूत् । पिता बालवल्लभं स्वविप्लवसम्बद्धां कथां पौनःपुन्येन श्रावयति स्म । पितुः कथायां विप्लवविफलतायाः कारणीभूतः भारतीयजनेषु व्याप्तः एकतायाः अभावः लोहपुरुषस्य चिन्तां वर्धयति स्म । तया चिन्तया भारतस्वतन्त्रतायै भारतैकताऽऽवश्यकीति तस्य मनसि दृढभावः उद्भूतः । गृहे माता लाडबाई बालवल्लभाय निर्भयता-साहस-पुरुषार्थादीनां परोक्षरीत्या ज्ञानं यच्छति स्म । लोहपुरुषः कथयति स्म यत्, "मम पितरौ मां कृषिक्षेत्रम् अनयेताम् । तत्र ताभ्यां पठनाय आदिष्टो भवामि स्माहम्" इति । धर्मशिक्षणमपि बालवल्लभेन परम्परया प्राप्तमासीत् । तस्य गृहजनाः धार्मिककर्मकाण्डादीनां पालनं दृढतया कुर्वन्ति स्म । पितरौ भगवतः स्वामिनारायणस्य भक्तौ आस्ताम् । प्रतिपूर्णिमायां तौ वडताल-ग्रामे स्थितं स्वामिनारायणमन्दिरं बालवल्लभं नयतः स्म । पितृभ्यां सह बालवल्लभः अपि एकादश्याः उपवासम् आचरति स्म [३] [४]

शिक्षणम्[सम्पादयतु]

करमसद-ग्रामे स्थिते प्राथमिकविद्यालये सप्तमे वयसि बालवल्लभस्य शालाप्रवेशोऽभूत् । शालायाः शिक्षकः महान् अलसः आसीत् । तं प्रश्नं प्रष्टुं यदा कोऽपि गच्छति स्म, तदा सः शिक्षकः “માંય-માંય ભણો...(मांय-मांय भणो)” अर्थात् स्वयमेव पठन्तु इति वदन् विद्यार्थिनः प्रतिप्रेषयति स्म । शिक्षकस्य दुर्गुणः बालवल्लभस्य सद्गुणस्य जनकोऽभूत् । पठनानुरागिणि, दृढसङ्कल्पिनि च बालवल्लभे स्वाध्ययनस्य अभ्यासः जातः । स्वाध्ययनस्याभ्यास एव आजीवनं लोहपुरषस्य मार्गदर्शनम् अकरोत् । प्राथमिकशालायाः प्राचार्यस्य ईप्साऽऽसीत्, बालवल्लभः शिक्षको भवेदिति । परन्तु बालवल्लभस्य मनसि तु निश्चयः आसीत् यत्, “मया तु अधिकाधिकं धनार्जनं करणीयम्” इति । अतः स्वस्य आङ्ग्लपठनस्य ईप्सां सः पितरौ अकथयत् । बालवल्लभस्य ज्येष्ठभ्राता विठ्ठलभाई नडियाद-नगरे मातुलस्य गृहे स्थित्वा आङ्ग्लशालायां पठन् आसीत् ।

द्वितीयबालोऽपि तत्र न गच्छेत् इति पित्रोः इच्छा आसीत् । किङ्कर्तव्यमूढौ पितरौ षण्मासं यावत् चिन्तनम् अकुरुताम् । तदा तृतीयकक्षापर्यन्तम् अनुमतिं प्रप्तायाः एकस्याः आङ्ग्लशालायाः प्रारम्भः करमसद-ग्रामेऽभूत् । सामान्यतः चतुर्थकक्षां पठित्वा आङ्ग्लशालायां तृतीयकक्षायां प्रवेशो भवति स्म । परन्तु बालवल्लभस्तु सप्तमकक्षां समाप्य षण्मासं यावत् गृहे स्थित्वा ततः आङ्ग्लशालायाः प्रथमकक्षां प्रविष्टवान् । तदा बालवल्लभस्य वयः चतुर्दशवर्षमासीत् । तत्र तृतीयकक्षासमाप्त्यनन्तरं पुनः अग्रे पठनाय समस्या उद्भूता । पूर्वानुभवेन सः शीघ्रं पेटलाद-ग्रामे स्थिते विद्यालये पठनाय निर्णयमकरोत् । सः विद्यालयः षोडश कि.मी. दूरे, पञ्चमकक्षापर्यन्तं चासीत् । प्रातः षड्वादने उत्थाय षोडश कि.मी. चलित्वा निश्चितसमये शालां प्राप्नोति स्म बालवल्लभः । कालान्तरे पेटलाद-ग्रामे एव गृहं भाटके नीत्वा मित्रैः सह न्यवसत् सः ।

पठनकाले आन्दोलनानि[सम्पादयतु]

  • बालदण्डविरोधः

षष्ठमकक्षायाम् एकः पारसीशिक्षकः विद्यार्थिनः कठोरदण्डेन प्रताडयति स्म । एकदा सः एकस्मै विद्यार्थिने धनदण्डनं दत्तवान् । सः विद्यार्थी द्वितीये दिने धनं विना विद्यालयं गतः । तेन कुपितः शिक्षकः विद्यार्थिनं कक्षायाः बहिः प्रेषितवान् । एतादृशम् अन्यायं दृष्ट्वा बालवल्लभः तस्य विरोधमकरोत् । सः सर्वेभ्यः विद्यार्थिभ्यः "विद्यालयं मा गच्छन्तु" इति न्यवेदयत् । कोऽपि भयेन विद्यालयं न गच्छेदतः सः विद्यालयमार्गेषु लघुमण्डपानां स्थापनाञ्चकार । विद्यार्थिभ्यः जलादीनां व्यवस्थामप्यकरेत् । तत् विरोधप्रदर्शनं त्रीणि दिनानि यावत् अभूत् । चतुर्थे दिने प्राचार्यः बालवल्लभम् आहूय समाधानमकरोत् ।

  • शिक्षकस्य विलम्बः

एकदा अगरवाला-नामकः कश्चन शिक्षकः बहु विलम्बे सत्यपि कक्षां न प्राप्तवान् । सः शिक्षकः कार्यालये अन्यैः शिक्षकैः सह जल्पने व्यस्तः आसीत् । तेन असन्तुष्टः बालवल्लभः निर्णयमकरोत् यत्, ये शिक्षकाः वर्गं विलम्बेन प्राप्नुवन्ति, डाह्याभाई-द्वारा लिखितस्य गीतस्य गायनं कृत्वा तेषां विराधं कुर्मः इति । तदनुसारं सः गीतगायनं प्रारभत । तेन सह सर्वे विद्यार्थिनः उच्चस्वरेण गीतं गीतवन्तः । कार्यालये जल्पने मग्नः शिक्षकः तं गीतध्वनिम् अशृणोत् । धावन्-धावन् सः कक्षां प्रविष्टवान् । एकः विद्यार्थी गीतगायने कुशलः आसीत्, तेनैव गीतं प्रारब्धमिति विचिन्त्य शिक्षकः तस्मै विद्यार्थिने अकुप्यत् । मध्ये बालवल्लभः अवदत्, “भोः ! यद्यपि भवान् विलम्बेन कक्षां प्राप्तवान्, तथापि एतस्मै किमर्थं कुप्यति ? भवतां विलम्बेन वयं किमर्थं रुदिमः ? वयं तु गीतमेव गायामः खलु ? अहमेव गीतस्याम्भमकरवम्” इति । सः शिक्षकः बालवल्लभं वर्गात् बहिः निर्गमनाय आदिष्टवान् । बालवल्लभः वर्गात् बहिः निर्गमनाय सर्वान् विद्यार्थिनः अक्षिणा सङ्केतमकरोत् । अकस्मात् सर्वे विद्यार्थिनः “हूहूहूहू” नादेन सह वर्गात् बहिः निर्गतवन्तः । द्वितीये दिनेऽपि कोऽपि वर्गं न प्रविष्टवान् । सर्वे विद्यार्थिनः एकस्वरेण उक्तवन्तः यत्, वल्लभस्य वर्गप्रवेशे सत्येव वयं वर्गं प्रवेशयिष्यामः । शिक्षकः प्राचार्यम् आहूतवान् । प्राचार्यः उक्तवान्, “वल्लभ ! शिक्षकात् क्षमां याचस्व” इति । बालवल्लभः प्रत्यवदत्, “भोः आचार्य ! भवतां न्यायस्तु यथा चौरः आरक्षकं दण्डयेत् तथास्ति । अहं किमर्थं क्षमां याचे ? शिक्षकः कार्यालये स्थित्वा जल्पनमग्नो भवेत् तस्मिन् अस्माकं कः दोषः ?” बहु प्रश्न-प्रतिप्रश्नपश्चात् प्राचार्यः सर्वान् वर्गं प्रवेशाय आदिष्टवान् ।

  • वैश्यमानसः शिक्षकः

विद्यालये एकः शिक्षकः वैश्यमानसः आसीत् । सः विद्यार्थिनः बलेन कथयति स्म यत्, मत्सकाशात् पुस्तक-अङ्किनी-लेखन्यादीनां क्रयणं कुर्वन्तु इति । प्रप्रथमं तु बालवल्लभः नम्रतया शिक्षकाय एवं मा करोतु इति न्यवेदयत् । परन्तु शिक्षकस्य हठाग्रहेण बालवल्लभः विद्यालये विरोधप्रदर्शनमकरोत् । तत् प्रदर्शनं षड्दिनं यावत् आसीत् ।

पेटलाद-ग्रामे अभ्यासं समाप्य ‘मेट्रिक’-पठनं युववल्लभः वडोदरा-महानगरे अकरोत् । ‘मेट्रिक’-पश्चात् युववल्लभस्य इच्छा तु विदेशं गत्वा उच्चशिक्षणप्राप्तेः आसीत् । परन्तु आर्थिकरीत्या अक्षमता तत्र बाधाऽऽसीत् । अतः सः धनार्जनस्य निर्णयमकरोत् । वाक्कीलस्य कार्ये बहु धनमासीदतः युववल्लभः न्यायशास्त्राभ्यासं चितवान् । वाक्कीलो भूत्वा धनार्जनं कृत्वा विदेशं गमिष्यामीति निर्णयमकरोच्च । न्यायशास्त्रस्य अभ्यासः यदा चलन् आसीत्, तदा युववल्लभं नेत्रविद्रधिः (Boil on eye) अभूत् । नेत्रविद्रधेः एकैव उपचारः भवति स्म यत्, नापितः स्वस्य दग्धलोहदण्डेन तं विद्रधिं निष्कासयति स्म । युववल्लभशरीरे दग्धलोहदण्डस्पर्शकरणे यदा नापितः सङ्कोचम् अनुभूतवान्, तदा युववल्लभः स्वयमेव दग्धलोहदण्डं हस्ते नीत्वा नेत्रविद्रधिं निष्कासितवान् ।

सफलवाक्कीलः[सम्पादयतु]

१९०० तमे वर्षे लोहपुरुषः 'डिस्ट्रिक्ट् प्लीडर'-परीक्षायाम् उत्तीर्णः अभूत् । तस्मिन् एव वर्षे सः वाक्कीलत्वेन धनार्जनस्य प्रारम्भमकरोत् । स्वतन्त्रस्वभावी युववल्लभः गोधरा-नगरे स्वस्य कार्यं प्रारभत । १९०२ तमे वर्षे सः बोरसद-ग्रामं गत्वा कार्यम् अकरोत् । कारणं बोरसद-ग्रामे स्थानिकजनैः सह स्वस्य भ्रातुः विठ्ठलस्य विवादः आसीत् । समयान्तरे तस्य विवादस्य निराकरणमभूत् । परन्तु विवादे निर्गते सत्यपि युववल्लभः भ्रात्रा सह कार्यं न कृतवान् । सः तत्रापि स्वतन्त्रेण कार्यमकरोत् । अमुकवारं तु उभौ भ्रातरौ पक्षापक्षयोः अभियोगे तर्कं यच्छन्तौ आस्ताम् । भ्रात्रोः मध्ये कोऽपि विवादः नासीत् । परन्तु स्वतन्त्रस्वभावी युववल्लभः स्वतन्त्रमेव कार्यं करोति स्म । स्वस्य कुशलतया, वाग्चातुर्येण, तर्केण च सः उत्तमवाक्कीलेषु अन्यतमः अभूत् ।

ज्येष्ठभ्रात्रे त्यागः[सम्पादयतु]

बोरसद-ग्रामे त्रीणि वर्षाणि वाक्कीलस्य कार्येण युववल्लभः प्रतिष्ठया सह धनार्जनमपि कृतवानासीत् । परन्तु अमुकवारं तेन अन्य 'बेरिस्टर्' इत्येतैः सह कार्यं करणीयं भवति स्म । अतः युववल्लभस्य मनसि 'बेरिस्टर्' भवितुम् इप्साऽऽसीत् । 'बेरिस्टर्'–पदस्य मानं, धनार्जनञ्च अधिकमासीत् । अतः सः इङ्ग्लैण्ड-देशे 'बेरिस्टर्' पठनाय निर्णयमकरोत् [५] । 'थोमस् कुक एण्ड सन्स्' संस्थया सह पत्रव्यवहारं प्रारभत युववल्लभः । सः तस्य लघुनाम वी.जे.पटेल इति लिखति स्म, तस्य भ्राता विठ्ठलोऽपि वी.जे.पटेल इति लिखति स्म । एवं पत्रव्यवहारस्य अन्तिमपत्रं विठ्ठलः प्राप्तवान् । सः युववल्लभम् उक्तवान्, अहं तु ज्येष्ठः अतः अहं प्रथमं विदेशं गच्छामीति । ज्येष्ठस्य आज्ञानुसारं सः विदेशगमनाय प्रतीक्षामकरोत् । विठ्ठलः यदा विदेशमगच्छत्, तदा तस्य परिवारस्य दायित्वमपि युववल्लभः अवहत् [६]

पत्न्याः मृत्युः, मानसिकदृढता च[सम्पादयतु]

१८९३ तमे वर्षे युववल्लभः झवेरबा-नामिकया कन्यया सह विवाहं कृतवानासीत् । तयोः एका पुत्री, एकः पुत्रश्चासीत् । पुत्र्याः जन्म १९०३ तमे वर्षस्य 'एप्रिल'-मासे अभूत् । पुत्रस्य जन्म १९०५ तमस्य वर्षस्य 'नवम्बर्'-मासस्य अष्टाविंशतितमे दिनाङ्केऽभूत् । पुत्र्याः नाम मणीबेन, पुत्रस्य नाम डाह्याभाई आसीत् ।

लोहपुरुषस्य पत्न्याः उदरे ग्रन्थिः (Tumor) आसीत् । ग्रन्थिनिष्कासनाय उपचारः मुम्बई-महानगरे स्थिते कामा-नामके चिकित्सालये चलन् आसीत् । वैद्यः चिकित्सासमये उक्तावान् यत्, "अहं पञ्चदशदिनपश्चात् शल्यक्रियां (Operation) करिष्ये" इति । अतः युववल्लभः अभियोगाय न्यायालयं गतवान् आसीत् । परन्त्वत्र तस्य पत्न्याः स्वास्थ्ये शिथिले जाते सति, वैद्यः तत्कालमेव शल्यक्रियामकरोत् । शल्यक्रियापश्चात् युववल्लभस्य पत्न्याः स्वास्थ्यं सम्यक् आसीत् । परन्तु द्वितीये दिने तस्याः तस्याः मृत्युः अभूत् । पत्न्याः मृत्युः अभूत् इति दूरलेखः (telegram) युववल्लभेन न्यायालये अभियोगकाले एव प्राप्तः । दूरलेखं पठित्वा यद्यपि विचलितः अभवत्, तथापि स्वकर्तव्यं स्मृत्वा मानसिकदृढतां प्राप्य सः पुनः अभियुक्तस्य रक्षण-तर्कान् प्रास्थापयत् । अभियोगस्य समाप्त्यनन्तरं सः मित्राणि दूरलेखं प्रादर्शयत्, उक्तवाञ्च, “अहं मनसा किञ्चिदपि शिथिलः अभविष्यं चेत्, अभियुक्तस्य मृत्योः आदेशोऽपि अभविष्यत्" । अत्र युववल्लभस्य मानसिकदृढतायाः दर्शनं भवति । १९०९ तमस्य वर्षस्य 'जनवरी'-मास्य एकादशे दिनाङ्के युववल्लभस्य पत्न्याः यदा मृत्युः अभूत्, तदा तस्य वयः चतुस्त्रिंशत् वर्षमासीत् । कुटुम्बजनाः, मित्राणि च पुनर्विवाहार्थं बहु उक्तवन्तः । परन्तु युववल्लभः पुनर्विवाहं नाङ्गीकतवान् ।

इङ्ग्लेण्ड-देशेऽध्ययनम्[सम्पादयतु]

१९१० तमस्य वर्षस्य 'अगस्त'-मासे युववल्लभः इङ्गलेण्ड-देशाय समुद्रमार्गेण यात्रां प्रारभत । प्रवासे एव सः सम्पूर्णं रोमन-न्यायशास्त्रम् (Roman Law) अपठत् । इङ्गलेण्ड-देशे यत्र युववल्लभस्य निवासः आसीत्, ततः मिडल-टैम्पल-ग्रन्थालयः विंशतिः (२०) कि.मी. दूरे आसीत् । धनाभावात् न्यायपुस्तकक्रयणेऽसमर्थः युववल्लभः प्रतिदिनं प्रातः नववादने ग्रन्थालयं गच्छति स्म, सायङ्काले षड्वादने गृहं प्रतिगच्छति स्म । अमुकवारं तु युववल्लभः दिने अष्टादशघण्टाः यावदध्ययनरतः भवति स्म ।

कुशलः 'बेरिस्टर्'[सम्पादयतु]

महता परिश्रमेण १९१३ तमस्य वर्षस्य 'फरवरी'-मासस्य त्रयोदशे दिनाङ्के युववल्लभः 'बेरिस्टर्' पदवीं प्राप्तवान् । इङ्ग्लेण्ड-देशात् मुम्बई-महानगरं प्राप्य ततः सः अहमदाबाद-महानगरं प्राप्तवान् । तदा स्वतन्त्रान्दोलनस्य कालः आसीत् । स्वतन्त्रान्दोलनस्य काले वाक्कीलाः सार्वजनिकक्षेत्रेषु परम्परानुगतं स्वयोगदानं यच्छन्ति स्म । अतः विठ्ठल-वल्लभौ देशसेवायाः यदा निर्णयमकुरुताम्, तदा झटिति विठ्ठलः वल्लभम् अवदत्, “अहं देशसेवां करिष्ये, त्वञ्च कुटुम्बसेवां कुरु” इति । एवं युवल्लभस्योपरि कुटुम्बस्य दायित्वम् आपतितम् । लोहपुरुषः कथयति, “ज्येष्ठस्य निर्णेयेन मया तु पापकर्म एव करणीयमभवत् । परन्तु भ्रातुः पुण्येऽपि मम योगदानमस्तीति चिन्तयन् अहं स्वमनसे सान्त्वनां यच्छामि स्म” इति ।

लोकसेवायै सार्वजनिकक्षेत्रे प्रवेशः[सम्पादयतु]

१९१३ तमे वर्षे विठ्ठलः मुम्बई-विधानसभायाः सदस्यः अभूत् । १९१५ तमे वर्षे गुजरातसभाद्वारा सञ्चालितायां मुम्बई-प्रेसिडन्सी-राजनैतिकसभायां लोहपुरुषः भागम् अवहत् । १९१३ तमे वर्षे अफ्रीका-देशात् पुनरागत्य महात्मना कोचरब-आश्रमस्य स्थापना कृताऽऽसीत् । महात्मा 'गुजरातक्लब' गत्वा 'गुजरातक्लब'-सदस्यानां सम्मुखं स्वविचारान् प्रकटयितुम् उद्युक्तः आसीत् । लोहपुरुषस्य मित्रं ठाकोर स्वजीवन्यां (Autobiography) उल्लिखत्, लोहपुरुषः तस्मिन् समये गान्धिविचारैः सम्मतः नासीत् । अतः सः 'ब्रिज' इति क्रीडायां सल्लग्नः आसीत् । अहमपि तेन सह स्थितः आसम् । सभां महात्मा यदा प्रविष्टवान्, तदाहं तं दृष्टुं उद्यतः अभवम् । सरदार ममोपरि व्यङ्ग्यमकरोत्, “अत्रैव तिष्ठ । एवं शौचालये स्वच्छे कृते, वस्त्रत्यागेन च स्वतन्त्रतां न प्राप्स्यामः वयम्" । तस्मिन् समये स्वयं तस्य मनसि अपि चिन्तनं नासीत् यत् सः स्वयं भविष्ये महात्मनः विचाराणां परमपथिकः भविष्यतीति । तावत् पर्यन्तं लोहपुरुषस्य मनसि राजनीतिप्रवेशस्य विचारः नासीत् । ज्येष्ठस्य राजनैतिकसफलतया राजनैतिकक्षेत्रे लोहपुरुषः अपि आकर्षितः । अतः लोहपुरुषः स्थानीयजनसेवार्थं अहमदाबाद-महानगरस्य 'म्युनिसिपल्'-कार्यालयसदस्यत्वनिर्वाचने स्वनामाङ्कनम् अकरोत् । १९१७ तमे वर्षे लोहपुरुषः निर्विरोधम् (unopposed) अहमदाबाद-महानगरस्य दरियापुर-'म्युनिसिपल्-बोर्ड्' इत्यस्य सदस्यः अभूत् । १९१७ तमे वर्षे एव लोहपुरुषः गुजरातसभायाः अध्यक्षः अभूत् । १९२४ तमे वर्षे यदा पुनः 'म्युनिसिपल्-बोर्ड' इत्यस्य निर्वाचनम् अभूत्, तदा लोहपुरुषः 'म्युनिसिपल्-बोर्ड' इत्यस्य अध्यक्षत्वेन पुनः चितः । लोहपुरुषस्य अध्यक्षतायां गुजरातसभायाः प्रथमसम्मेलनं गोधरा-नगरे अभूत् । तस्यां सभायां महात्मा अपि उपस्थितः आसीत् । तत्र महात्मा-लोहपुरुषौ स्वविचाराणाम् आदान-प्रदानम् अकुरुताम् [७]। सभायाः सम्मुखं द्वे समस्ये आस्ताम् । प्रथमा 'बेगार'-(Forced Labor without payment) प्रथायाः उन्मूलनं कथं भवेत् । द्वितीया तु खेडामण्डलस्य कृषकाणां पीडायाः निवारणं कथं भवेत् ।

तस्मिन् समये कोऽपि सर्वकारस्याधिकारी यदि कमपि ग्रामं गच्छति स्म, तर्हि 'बेगार'-इति धनं बलात् स्वीकरोति स्म । अतः गुजरातसभाध्यक्षः लोहपुरुषः तस्याः प्रथायाः विरोधमकरोत् । सः 'कमिश्नर् पैट्' इत्येनं पत्रत्रयेण न्यवेदयत् यत् “एषा प्रथा निरस्ता भवेदि”ति । परन्तु 'पैट्' तस्य निवेदनं नाङ्गीकृतवान् । चतुर्थे पत्रे लोहपुरुषः अलिखत्, "भवान् स्वयमेव एतां प्रथां निरस्तां न करिष्यति चेत् जनाः एव परिपत्रेण त्वं सूचयिष्यन्ति" ।

खेडा-सत्याग्रहः[सम्पादयतु]

खेडामण्डलस्य कृषकाणां शोषणमासीत् । अतः सत्याग्रहस्य विचारः लोहपुरुषेण कृतः [८] । दशवर्षाणि यावत् अतिवृष्टिकारणेन, आनावृष्टिकारणेन च यद्यपि सस्योत्पादनं न जातमसीत्, तथापि सर्वकारेण करः (Tax) बलात् स्वीक्रियते स्म । अस्य विरोधे सरदार आन्दोलनमकरोत् । १९१८ तमस्य वर्षस्य 'अप्रैल'-मासस्य द्वादशे दिनाङ्के 'कमिश्नर् पैट्' कृषकेभ्यः प्रत्यादेशं (warning) अयच्छत्, “कोऽपि गान्धि-वल्लभयोः अनुसरणं करिष्यति चेत् तस्य जीवने महान्तः दुःखाः एव भविष्यन्ति” इति । एतस्योत्तरं दातुं सरदार १९१८ तमस्य वर्षस्य 'अप्रैल'-मासस्य अष्टादशे दिनाङ्के कृषकान् सम्बोद्ध्य भाषणं कृतवान् । लोहपुरुषः उक्तवान्, “अस्माकं विरोधस्य मुख्योद्देशः जनेषु व्याप्तस्य सर्वकारं प्रति भयस्य उन्मूलनमस्ति । अस्माकं विरोधे धर्मस्यांशाः अधिकाः सन्ति । खेडामण्डलस्य नाम भारतीयस्वतन्त्रतायाः इतिहासे प्रप्रथमक्रमाङ्के भविष्यति । आभारतं सद्यः अस्माकं चर्चां करोति । अस्माकम् आन्दोलनं भारतस्वतन्त्रतायाः शिलान्यासवदस्ती”ति ।

'अप्रैल'-मासस्य पञ्चविंशतितमे दिनाङ्के सर्वकारेण अधिकारिणः आदिष्टाः, “ये कृषकाः करं दातुम् असमर्थाः सन्ति, तेभ्यः करं मा स्वीकुर्वन्तु” इति । एतादृशसफलतायाः पश्चात् महात्मा-वल्लभौ गुर्जरसमाचारपत्रेषु स्वनिवेदनं दन्तवन्तौ [९]। तौ उक्तवन्तौ, “खेडामण्डलस्य जनानां दृढमनोबलेन समग्रस्य भारतस्य ध्यानाकर्षणं कृतमस्ति । जनप्रयासेनैव आन्दोलनं सफलमभूत्" ।

लोहपुरुषस्य प्रशंसायां महात्मा अवदत्, “सरदार प्रप्रथमं मम सम्मुखं यदा आगतः, तदाऽहम् अचिन्तयं कीदृशः एषः व्यक्तिः इति । परन्तु तस्य नैकट्येन मम ज्ञानम् अभूत् यत्, अस्य तु महती आवश्यकता अस्ति देशाय इति । अहं चिन्तयन् आसं कः अस्माकम् उपसेनापतिः भवितुमर्हति इति । तदा मम मनसि लोहपुरुषस्यैव नाम स्फुरितम् । सरदार यदि मया सह नाभविष्यत्, तर्हि यानि कार्याणि साधितानि, तानि अशक्यानि एवाभविष्यन्” इति [१०]

'रोलट'-नियमविरोधः, असहयोगान्दोलनञ्च[सम्पादयतु]

सरदार 'रोलट'-नियमविषये अभाषत्, “एषः नियमः व्यक्तिस्वतन्त्रतायाः विरोधी अस्ति" । सरदार १९१९ तमस्य वर्षस्य 'अप्रैल'-मासस्य षष्ठे दिनाङ्के अहमदाबाद-महानगरे 'रोलट'-नियमविरोधियात्रां प्रारभत । ततः आङ्ग्लाः 'रोलट'-विरोधिसभायां पञ्जाबराज्ये नरसंहारम् अकुर्वन् (यत्, जलियावाला-बाग-हत्याकाण्ड इति कुख्यातः) । अतः १९२० तमस्य वर्षस्य ‘मई’-मासस्य पञ्चदशदिनाङ्के महात्मना निर्धारितं यत् असहयोगान्दोलनं भारतस्वतन्त्रायाः एकः एव मार्गः अस्ति इति । असहयोगान्दोलनस्य निर्णयः जनाः एव कुर्वन्तु इति उद्देश्येन गुजरातराजनैतिकसभायाः आयोजनं कोङ्ग्रेस-पक्षेण कृतमासीत् । तत्र सरदार अवदत्, “पञ्जाबराज्ये यः नरसंहारः अभूत्, तेन देशस्य स्थितिः गभीरा अस्ति । अतः असहयोगान्दोलनस्य विषये जनाः एव निर्णयं कुर्वन्तु । साम्प्रतं ये युवानः सन्ति, ते एव एतादृशम् अपमानं सोढुम् न इच्छन्ति चेत् भविष्यस्य युवानः तु एतादृशम् अपमानं कथं सोढुं शक्ष्यन्ति ? तेषामपि अस्मत्सु अधिकारोऽस्ति । वयं तेषां न्यासिनः (Trusties) स्मः । वयं तेभ्यः एतादृशस्य अपमानस्य जीवनमेव परम्परया दद्मः चेत् अस्माकं जीवनस्य को वा लाभः” ? एवं बहुषु स्थलेषु अनेकानि भाषणानि दत्तानि लोहपुरुषेण । १९२० तमस्य वर्षस्य 'अगस्त'-मासस्य प्रथमे दिनाङ्के असहयोगान्दोलनस्य घोषणा कृता । १९२१ तमस्य वर्षस्य 'फरवरी'-मासस्य पञ्चमे दिनाङ्के 'चोराचौरी'-काण्डे जाते सति द्वादशे दिनाङ्के महात्मा आन्दोलनम् अस्थगयत् । ततः महात्मनः कारावासोऽपि अभूत् । आन्दोलनस्य स्थगनेन, महात्मनः कारावासेन च जनेषु महन्निराशायाः भावः उद्भूतः । जननिराशां दृष्ट्वा सरदार अवदत्, “भवन्तः महात्मनः अहिंसा-प्रेम-सत्यादीनां यदि समर्थनं कुर्वन्ति, तर्हि तस्य एतान् विचारान् हृदि निधाय अहिंसामार्गेण असहयोगान्दोलनाय निरन्तरं कार्यं कुर्वन्तु" ।

नागपुर-महानगरस्य ध्वजसत्याग्रहः[सम्पादयतु]

१९२३ तमे वर्षे सरदार महात्मना उद्बोधितस्य असहयोगान्दोलनमहत्वस्य हार्दं ध्वजसत्याग्रहमाध्यमेन भारतीयजनानां सम्मुखम् अस्थापयत् । १९२३ तमस्य वर्षस्य 'मार्च'-मासस्य अष्टादशे दिनाङ्के महात्मनः कारावासस्य एकवर्षं जातमासीत् । तस्मिन् दिने नागपुर-महानगरे सुन्दरलाल-महाभागस्य नेतृत्वे राष्ट्रियध्वजेन सह पदयात्रायाः आयोजनमासीत् । पदयात्राकाले एव सुन्दरलाल-महाभागं बन्दिमकरोत् सर्वकारः । तस्य षण्मासस्य कारावासः अभूत् । ‘मई’-मासस्य प्रथमे दिनाङ्के नागपुर-महानगरे आङ्ग्लाः १४४ नियमस्य घोषणां कृतवन्तः । इत एव प्रारम्भः जातः नागपुर-महानगरस्य ध्वजसत्याग्रहस्य । सरदार ध्वजसत्याग्रहस्य भागो भविष्यतीति निर्णयः कोङ्ग्रेसकार्यसमित्या कृतः ।

सरदार अपि नागपुरे पदयात्रादिकम् अकरोत् । सः जनान् उद्दिश्य अवदत्, “मित्राणि ! अस्माकम् एतत् आन्दोलनं भविष्ये गौरवपूर्णेतिहासरूपेण जनमनसि भविष्यति । शत्रुद्वारा ध्वजभावनाविषये मिथ्याः वार्ताः प्रसार्यन्ते । परन्तु तेषां मिथ्यावचनस्य विश्वासं मा कुर्वन्तु । महात्मनः कथनानुसारं सत्य-अहिंसा-पराक्रमादयः एव अस्माकं भारतीयसंस्कृतेः मूलाधाराः सन्ति । भारतस्वतन्त्रतायै एतेषाम् एवावश्यकतास्ति । एषः ध्वजः तेषां मूलाधाराणां प्रतीकः अस्ति” ।

सार्धत्रिवर्षं यावत् तत् आन्दोलनं अभूत् । ततः आन्दोलनस्य सफलतायाः घोषणा कृता कोङ्ग्रेस-पक्षेण । अस्मिन् आन्दोलने डा. राजेन्द्र प्रसाद अपि भागम् अवहत् । डा. राजेन्द्र प्रसादः एवं सरदार अनेन आन्दोलनमाध्यमेन परममित्रे अभवताम् । डा. राजेन्द्र प्रसादः स्वस्य जीवन्याम् (Autobiography) अलिखत्, “१९२३ तमे वर्षे नागपुर-महानगर-ध्वजसत्याग्रहे अहं लोहपुरुषस्य नैकट्यं प्राप्तवान् । एषः गौरवपूर्णः विषयोऽस्ति तथा मम विशेषाधिकारस्य परिचयः अस्ति । वल्लभस्योपरि ज्येष्ठभ्रातृत्वेन मम विशेषाधिकारः आसीत् । आजीवनम् अहं लघुभ्रातरं विहाय अन्यरूपेण तं न दृष्टवान्” ।

बोरसद-सत्याग्रहः[सम्पादयतु]

परतन्त्रे भारते गुजरातराज्ये खेडामण्डलस्य दक्षिणे बोरसदमण्डलम् आसीत् । तस्मिन् मण्डले द्वौ लुण्ठकौ आस्ताम् । बाबर-अली-नामकौ लुण्ठकौ जनान् बहु पीडयन्तौ आस्ताम् । सूर्यास्ते जाते सति कोऽपि गृहात् बर्हिर्निगन्तुं साहसं न करोति स्म । तयोः रक्षणं भवतु इति आवेदनम् आरक्षककेन्द्राय अप्रेषयन् जनाः । परन्तु जनरक्षणाय ये आरक्षकाः नियुक्ताः आसन्, तेषां वेतनादीनां भारः स्थानिकजननामुपरि आपतितः । जनानाम् एतादृशीं स्थितिं दृष्ट्वा सरदार सर्वकारनीतेः विरोधमकरोत् । सः उक्तवान्, “लुण्ठकाः तु मार्गात् भवतां धनं लुण्ठयित्वा नयन्तः आसन् । परन्तु आरक्षकरूपिणः एते लुण्ठकाः भवतां गृहात् धनं लुण्ठयित्वा गच्छन्तः सन्ति । अतः भवन्तः एव निर्णयं कुर्वन्तु, लघुकष्टनिवारणाय महतः कष्टस्याह्वानं कियत् उचितमस्ति ? अहं तु कथयामि आरक्षकेभ्यः करं मा यच्छन्तु । अनेन न केवलं धनलाभः भविष्यति अपि तु स्वमानस्य लाभोऽपि भविष्यति” ।

बोरसद-सत्याग्रहः सार्धत्रिमासं यावत् अभूत् । लोहपुरुषस्य नेतृत्वे स्थानिकजनानां साहसेन आरक्षकनियुक्त्यर्थं स्वीक्रियमाणः दण्डात्मकः करः १९२४ तमस्य वर्षस्य 'जनवरी'-मासस्य सप्तमे दिनाङ्के स्थगितः । लुण्ठकेभ्यः जनरक्षणाय अधिकाः आरक्षकाः प्रेषिताश्च । एवं बोरसद-सत्याग्रहस्य समाप्तिः अभूत् ।

बारडोली-सत्यग्रहः[सम्पादयतु]

विनोबा भावे-महापुरुषस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहुनि कारणानि सन्ति । परन्तु तेषु मुख्ये द्वे कारणे स्तः । एकं तु बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।

बारडोलीमण्डलस्य जनानां स्वभावं, चारित्र्यञ्च दृष्टवैव महात्मा १९२२ तमे वर्षे असहयोगान्दोलनस्य घोषणां कृतवान् आसीत् । परन्तु गोरखपुर-महानगरे 'चौरीचोरा'-काण्डे जाते सति महात्मा तस्यान्दोलनस्य स्थगनम् अघोषयत् । पूर्वं महात्मना या असहयोगान्दोलन-नामक-जनक्रान्तिः स्थगिता आसीत्, १९२८ तमे वर्षे लोहपुरुषेण सा पुनरारब्धा ।

पृष्ठभूमिः[सम्पादयतु]

बारडोलीमण्डले १८६५ तमे वर्षे आङ्ग्लैः प्रप्रथमं करः निर्धारितः आसीत् । १८९५-९६ वर्षे तस्य करस्य राशिं वर्धयित्वा नवीनः करः १०.५ प्रतिशतं (१०.५ %) निर्धारितः । प्रति त्रिंशत् वर्षे करराश्यां वृद्धिः भवति स्म । १९२७-२८ वर्षे करवर्धनस्य योजना आसीत् । बारडोलीमण्डले १९२७ तमस्य वर्षस्य 'जुलाई'-मासस्य नवदशे दिनाङ्के १३.९७ प्रतिशतं करवृद्धिः अभूत् । १९२७ तमस्य वर्षस्य आयव्ययवृतं (Budget) यदा मुम्बई-धारासभायां प्रस्थापितं सर्वकारेण, तदा तस्य विरोधः कृतः सर्वैः । परन्तु न कोऽपि जनानुकूलः निर्णयः अभूत् । अतः बारडोली-सत्याग्रहस्य आरम्भोऽभूत् ।

आन्दोलनस्य प्रारम्भः[सम्पादयतु]

आरम्भे तु मण्डलवासिनः आङ्ग्लेभ्यः न्यायसम्बद्धनिवेदनानि दत्तवन्तः । परन्तु आङ्ग्लैः सह वार्तालापे विफले सति सर्वे लोहपुरुषाय नेतृत्वं प्रदानाय आमन्त्रणं दत्तवन्तः । नेतृत्वग्रहणात् पूर्वं सरदार कोङ्ग्रेस-पक्षस्य विश्वस्तजनान् बारडोलीमण्डलम् अप्रेषयत् । ते आदिष्टाः यत्, “बारडोलीमण्डलं गत्वा पश्यन्तु यत् तत्रस्थाः कृषकाः सत्याग्रहस्य पीडां सोढुं समर्थाः सन्ति न वा” ? ततः सरदार सत्याग्रहनेतृत्वस्य दायित्वम् अवहत् ।

सत्याग्रहस्य सम्पूर्णदायित्वं लोहपुरुषस्यासीदतः सः १९२८ तमस्य वर्षस्य 'फरवरी'-मासस्य चतुर्थे दिनाङ्के बारडोलीमण्डलस्य कृषकप्रतिनिधीनां सम्मेलनमकरोत् । सम्मेलने नवसप्ततिः प्रतिनिधयः भागम् अवहन् । लोहपुरुषः दृष्टवान् यत्, केचन कृषकाः किङ्कर्तव्यमूढाः आसन् । अतः स्पष्टवक्ता सरदार उक्तवान्, “भवन्तः यत् किमपि कर्तुम् इच्छन्ति, तदर्थं पूर्वं शान्तमनसा चिन्तयन्तु । अहं तादृशं कार्यं न करोमि, यत्र सारल्यं भवति । मम सर्वाणि कार्याणि सङ्कटैः परिपूर्णानि, सङ्कटसम्पन्नानि वा भवन्ति । अतः ये सङ्कटान् स्वगृहम् आह्वयितुं तत्पराः सन्ति, तैः सह एवाहं भविष्यामि” इति ।

सर्वेषां तत्परतायां सत्याम् आन्दोलनस्य कार्यं सरदार प्रारभत । सः प्रप्रथमं तु न्यायरीत्या समस्यायाः निवारणं कर्तुं दृष्टवान् । अतः १९२८ तमस्य वर्षस्य 'फरवरी'-मासस्य षष्ठे दिनाङ्के सः मुम्बई-गवर्नर् जनरल् 'सर लेस्ली विल्सन' इत्येनं पत्रम् अलिखत् । पत्रे सः न्यायान्याययोः भेदं प्रास्थापयत् । सः लिखितवान्, “सर्वकारस्य करनिर्धारणस्य पद्धतिः एव दोषपूर्णाऽस्ति” । सर्वकारात् सन्तोषप्रदोत्तरस्याभावात् सर्वकाराय करं मा ददातु इति सरदार कृषकेभ्यः न्यवेदयत् । सः उक्तवान्, “स्मरन्तु सर्वे, कदाचित् अस्यान्दोलनस्य प्रारम्भानन्तरम् अस्माकं पराजयः जातश्चेत्, देशस्य महती मानहानिः भविष्यति । सर्वकारस्य पार्श्वे युद्धसाधनानि सन्ति । अस्माकं पार्श्वे सत्य-अहिंसा-साहसादयः सन्ति । मम विश्वासोऽस्ति यत्, धर्मपथेन अन्यायस्य विरोधं प्रजा कुर्यात् चेत् प्रजायाः विरोधस्य सम्मुखं महासत्ता अपि निश्चयेन नशिष्यति” ।

सरदार जानाति स्म यत्, सत्याग्रहस्य साफल्याय दृढसङ्घटनस्य आवश्यकता अस्ति । अतः सः मण्डलं पञ्चविभागेषु व्यभजत् । एकैकस्य विभागस्य एकैकः विभागपतिः आसीत् । मण्डले सत्याग्रहमण्डपाः स्थापिताः । सर्वेषां मण्डपानां द्वौ प्रमुखकार्यकर्तारौ आस्ताम् । बारडोली-मण्डले सत्याग्रहस्य घोषणासमनन्तरम् एकस्य प्रकाशनविभागस्य स्थापना कृता । सत्याग्रहसम्बद्धानां येषां वृत्तान्तानाम् आवश्यकता भवति स्म, तेषाम् अस्य प्रकाशनस्य 'सत्याग्रह खबर पत्र', 'सत्याग्रह पत्रिका' इत्यनयोः वर्तमानपत्रयोः उल्लेखः भवति स्म । तयोः वर्तमानपत्रयोः विनामूल्यं वितरणं भवति स्म ।

सरदार शनैः शनैः बारडोली-सत्याग्रहं राष्ट्रियस्तरीयम् अकरोत् । ‘मई’-मासस्य द्वाविंशतितमे दिनाङ्के मुम्बई-धारासभायां बारडोली-सत्याग्रहसमर्थने अष्ट सदस्याः त्यागपत्रम् अयच्छन् । ततः सर्वकारस्य लक्ष्यम् आसीत् यत्, बारडोली-सत्यग्रहसङ्घटनस्य विभाजनं भवेदिति । अतः सर्वकारेण साप्रदायिक-विभाजनस्य विचारः कृतः । सर्वकारेण निर्दिष्टं, सामूहिकानाम् आक्षेपाणां निर्मूलनमसम्भवमस्ति । अतः एकैकः कृषकः स्वाक्षेपं कुर्यात् । परन्तु सरदार तत् निरस्तमकरोत् । १९२८ तमस्य वर्षस्य 'जून'-मासस्य द्वादशे दिनाङ्के समग्रे भारते “बारडोली-दिवस”स्य आचरणं भवतु इति घोषणा कृता । तस्मिन् दिने सर्वे स्वस्य आपण-वृत्ति-कार्याणि त्यक्त्वा विरोधप्रदर्शनम् अकुर्वन् ।

‘दिसम्बर'-मासस्य 'टाइम्स् आफ इण्डिया’ इत्यस्य ऐयर-नामकः सम्पादकः बारडोलीमण्डले न्यवसत् । सः स्वकर्मचारिणं सन्देशम् अप्रेषयत्, “बारडोलीमण्डले 'बोलसेलिज़म्' इत्यस्य प्रयोगः प्रचलति । पटेल अत्रस्थः 'लेनिन' अस्ति । सत्याग्रहिणः सर्वकारं पूर्णतया पङ्गुं कृतवन्तः सन्ति । 'जुलाई'-मासस्य अन्तिमे सप्ताहे तु विस्फोटकस्थितिः आसीत्” । अनेन आन्दोलनस्य गाम्भीर्यं ज्ञायते ।

सर्वकारेण सह सुरत-महानगरे मन्त्रणा असफला अभूत् । 'जुलाई'-मासस्य त्रयोविंशतितमे वर्षे दिनाङ्के 'गवर्नर' उक्तवान्, “बारडोली-सत्याग्रहिणां पार्श्वे चतुर्दशदिनानाम् एव समयः अस्ति । मण्डलजनाः सर्वकारेण निर्धारितनियमैः सह यदि सम्मताः न भविष्यन्ति, तर्हि सर्वकारः बलप्रयोगं करिष्यति” ।

सरदार अवदत्, “'गवर्नर' इत्यस्य शब्दाडम्बरस्य विश्वासं मा कुर्वन्तु भवन्तः ! 'गवर्नर' अनुसारं करनियमः सामान्यः अस्ति । परन्तु जनानां, सत्याग्रहिणाञ्च दृष्ट्यां करनियमः न्याययुक्तः, अन्याययुक्तः वा ? इति प्रश्नोऽस्ति” ।

समाधानम्[सम्पादयतु]

'गवर्नर जनरल्' लेस्ली विल्सन इत्यस्य मिथ्याजल्पनेन न कोऽपि सत्याग्रही प्रभावितः । एवं सम्पूर्णदेशस्य समर्थनं सत्याग्रहिभिः सह आसीत् । सर्वकारस्य स्वमानं नष्टम् अभूत् । सरदार बारडोली-सत्याग्रहस्य करसम्बद्धनियमानां निरस्तीकरणे सफलः जातः । 'अगस्त'-मासस्य एकादशे दिनाङ्के बारडोली-सत्याग्रहस्य सफलतानन्तरं सरदार अवदत्, “ईश्वरकृपया अस्माकं प्रतिज्ञा सफला अभूत् । एषः विजयः बारडोलीमण्डलस्य जनानां, मम सहकर्तॄणाञ्चास्ति” ।

बारडोली-सत्याग्रहविजयानन्तरं 'यङ्ग इण्डिया' पत्रे महादेव देसाई अलिखत्, “बारडोली-सत्याग्रहः सत्याहिंसयोः विजयः अस्ति । एषः सत्याग्रहः लोहपुरुषस्य तृतीयः विरामः अस्ति । नागपुरस्य विजयः सैद्धान्तिकाधिकारस्य विजयः आसीत् । बोरसदमण्डलस्य विजयः स्थानिकविजयः आसीत् । बारडोली-सत्याग्रहः तु अद्वितीयः विजयः अस्ति, कारणं तेन सर्वकारस्यैव न अपि तु सम्पूर्णदेशस्य ध्यानाकर्षणं कृतमस्ति” ।

कारागारवर्षम् - १९३०[सम्पादयतु]

एतस्मिन् वर्षे लोहपुरुषस्य बहुवारं कारावासयात्रा अभूत् । १९३० तमस्य वर्षस्य 'जुलाई'-मासस्य एकत्रिंशत्तमे दिनाङ्के बाळ गङ्गाधर टिळक-महाभागस्य जयन्त्यवसरे पदयात्रायाः आयोजनम् आसीत् । परन्तु सर्वकारेण पदयात्रायै अनुमतिः न दत्ता । अतः सर्वे बोरीबन्दर-रेलस्थानके स्थित्वा विरोधमकुर्वन् । ततः सर्वकारेण सरदार-मालवीय-दौलतरामादयः बन्दिनः कृताः । सर्वेषां मासत्रयस्य कारावासः अभूत् ।

'नवम्बर'-मासस्य पञ्चमे दिनाङ्के सर्वकारेण सरदार मुक्तः कृतः । परन्तु पुनः सरदार सर्वकारविरोधिभाषणं कृत्वा 'दिसम्बर'-मासे कारावासं प्रत्यगच्छत् । तस्मिन् उत्तेजके भाषणे सरदार अवदत्, “मम वाण्याः उपरि कस्यापि शासनं नास्ति । अहं यद्यपि कारागारे बन्दी भवामि, तथापि मम सन्देशान् सर्वे देशवासिनः प्राप्स्यन्ति, अनुसरिष्यन्ति च” । आङ्ग्लशासकेषु अस्य भाषणस्य भयः एतादृशः आसीत् यत्, ते अन्यान् काल्पनिकारोपान् लोहपुरुषस्योपरि आरोपयन् । आहत्य नव-मासस्य कारावासः अभूत् । एवं बहुवारं लोहपुरुषस्य कारावासयात्रा अभवत् ।

कोङ्ग्रेस-पक्षाध्यक्षः[सम्पादयतु]

१९३१ तमस्य वर्षस्य 'मार्च'-मासस्य एकत्रिंशत्तमे दिनाङ्के कोङ्ग्रेस-पक्षस्य अखिलभारतीयाधिवेशनमभूत् । तत्र सरदार वल्लभभाई पटेल कोङ्ग्रेस-पक्षस्य अध्यक्षत्वेन चितः । बारडोली-सत्याग्रहस्य सरदार भारतस्य सरदार अभूत् ।

प्रथमं 'गोमल'-सम्मेलनं १९३० तमस्य द्वादशे दिनाङ्के अभूत् । तत्र यद् समाधानं प्राप्तमासीत्, तत् गान्धि-इर्बिन्-समाधाननाम्ना प्रख्यातमस्ति । परन्तु द्वितीयं गोमल-सम्मेलनं लोहपुरुषस्य आध्यक्षे अभूत् । १९३१ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चविंशतितमे दिनाङ्के शिमला-नगरे सम्मेलनमभूत् । सम्मेलनपश्चात् महात्मा लण्डन-नगरं गतवान् । महात्मनः अनुपस्थितौ सर्वकारेण गान्धि-इर्बिन्-समाधानस्य उल्लङ्घनं प्रारब्धम् । तस्य विरोधेन सरदार-नेहरू इत्यादीनां नेतॄणां कारावासोऽभूत् । ततः महात्मा भारतं पुनरागतः । तस्यापि कारावासोऽभूत् । एवं भारतस्य प्रतिष्ठितनेतारः येरवडा-कारावासे बन्दिनः आसन् ।

येरवडा-कारावासे महात्मना सह सरदार[सम्पादयतु]

सरदार षोडशमासं यावत् (१९३२ 'जनवरी'-तः १९३३ ‘मई’-पर्यन्तं) महात्मना सह येरवडा-कारावासे आसीत् । सः कालः मम जीवनस्य महत्वपूर्णः कालः इति लोहपुरुषः वदति स्म । पुरा साबरमती-कारावासे लोहपुरुषेण धुम्रपानं त्यक्तमासीत्, येरवडा-कारावासे चाय-पेयस्य त्यागः कृतः ।

१९३२ तमस्य वर्षस्य ‘मई’-मासे सर्वकारेण महात्मा मुक्तः कृतः । कारावासात् बहिः आगत्य सः सरदारसम्बद्धलेखम् अलिखत्, “कारावासे लोहपुरुषेण सह समययापनस्य यम् अवसरम् अहं प्राप्तवान्, सः मम सौभाग्यमेवास्ति । तस्य अद्वितीयशूरवीरतायाः, ज्वलन्तदेशभक्त्याः विषये तु मम ज्ञानमासीत् । परन्तु तस्य पार्श्वे यत् मातृहृदयमस्ति, तस्यानुभवम् अहं तस्योपवासेन ज्ञातवान् । सः मह्यं यत् मातृप्रेम अयच्छत्, तेन मम मातुः स्मरणम् अभूत् । बारडोली-खेडादिसत्याग्रहेषु यथा कृषकाणां सः चिन्तां कुर्वन् आसीत्, तथा ममापि अकरोत् । तं कालम् अहं न विस्मरिष्ये” ।

१९३४ तमस्य वर्षस्य 'जुलाई'-मासस्य चतुर्दशे दिनाङ्के सरदार मुक्तोऽभूत् । सरदार कारावासे यदा आसीत्, तदा तस्य मातुः, ज्येष्ठभ्रतुः च देहान्तः अभूत् । १९३२ तमस्य वर्षस्य 'नवम्बर'-मासस्य प्रथमे दिनाङ्के मातुः, १९३३ तमस्य वर्षस्य 'अक्तूबर'-मासस्य विंशतितमे दिनाङ्के ज्येष्ठभ्रातुः वीरविठ्ठलस्य देहान्तः अभूत् ।

देशीयराज्येभ्यः सङ्घर्षः[सम्पादयतु]

प्रारम्भिके काले कोङ्ग्रेस-पक्षस्य नीतिः आसीत् यत्, “देशीयराज्यानां प्रजार्थं किमपि न कर्तव्यम् । कारणं देशीयराज्यजनेषु देशभावनायाः उदयः यदा भविष्यति, तदा वयं तेभ्यः कार्यं करिष्यामः” इति । परन्तु १९३४ तमस्य वर्षस्य भारतीयशासनाधिनियमेन परिस्थितिः परिवर्तिता । तस्मिन् अधिनियमे ब्रिटिश-प्रान्तेषु यानि राज्यानि आसन्, तानि एव स्वराज्यस्य अधिकारयोग्यानि उद्घोषितानि । अनेन देशीयराज्यानि वञ्चितानि अभुवन् । अतः देशीयराज्यजनैः कोङ्ग्रेस-पक्षः प्रेरितः । ब्रिटिशराज्यवत् देशीयराज्येभ्यः अपि स्वराज्यस्थापनायै चिन्तनीयम् इति । ततः कोङ्ग्रेस-पक्षेण स्वनियमेषु परिवर्तनं कृतं तथा स्वोद्देश्येषु देशीयराज्यानामपि स्वराज्यस्य आन्दोलनं प्रारब्धम् । तस्मिन् आन्दोलने मैसूरु-राजकोट-भावनगरादीनां समस्यानां निवारणमभूत् ।

भारतविभाजनस्थितिः[सम्पादयतु]

१९४१ तमस्य वर्षस्य 'दिसम्बर'-मासस्य सप्तमे दिनाङ्के विश्वयुद्धे जपानदेशोऽपि अयुद्धत् । युद्धसमये जपान-देशः एशियाखण्डस्य देशेषु आक्रमणमकरोत्। शनैः शनैः जपान-देशस्य सेना भारतस्य समीपस्थबर्मादेशस्योपरि आधिपत्यमकरोत् । एवं भारत-देशे अपि युद्धस्थितिः उद्भूता । १९४० तमे वर्षे युद्धसम्बद्धप्रस्तावस्य विरोधं कृत्वा महात्मा कोङ्ग्रेस-पक्षात् भिन्नः जातः आसीत् । परन्तु ततः सः उक्तावान्, “तत्र मम विरोधः मम महान् दोषः आसीत्” ।

बारडोली-सत्यग्रहस्यानुभवेन सरदार तु ज्ञातवान् आसीत् यत्, देशाय कृत्रिमशान्त्याः आवश्यकता नास्ति । अतः सः अवदत्, “हिंसाऽहिंसयोः कथनं तु सद्यः विस्मरणीयमेव । सद्यः भारतं युद्धस्थितेः समीपमस्ति । गतपञ्चाशत् वर्षेषु देशः काल्पनिकशान्त्यां स्वजीवनं यापयन् अस्ति । अतः देशजनैः अशान्त्याः भयः न कर्तव्यः । युद्धं न केवलं देशद्वयोः मध्ये अपि तु अन्येषां समीपस्थानां देशानामुपरि अपि आपतति" ।

ततः सरदार करमसद-ग्रामे अवदत्, “अहं जातिवादं विस्मृतवान् अस्मि । आभारतं मम ग्रामोऽस्ति । अष्टादशवर्णजनाः मम बन्धवाः सन्ति । निम्नकुलः-उच्चकुलः, निम्नजातिः-उच्चजातिः सर्वं विस्मरन्तु” ।

पूर्वं बहुवारं स्वराज्यस्य घोषणा कृता आसीत् । परन्तु आङ्ग्लाः भारतं त्यक्त्वा गच्छन्तु इति न कोऽपि उक्तवान् आसीत् । लोहपुरुषादयः कोङ्ग्रेस-पक्षस्य नेतारः भारतस्वतन्त्रतायाः स्वप्नं पश्यन्तः आसन् । युद्धपरिस्थित्यां महात्मनः विचराः अपि परिवर्तिताः । १९४२ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे दिनाङ्के 'हरिजन' पत्रिकायां महात्मा अलिखत्, “भारतवर्षे विद्यमानानां ब्रिटिशजनानां कारणात् जपान-देशः भारतस्योपरि अपि आक्रमणं कर्तुं उद्युक्तः अस्ति । अतः भारतस्य वास्तविकसुरक्षाम् उद्दिश्य आवश्यकता अस्ति यत्, आङ्ग्लाः तत्कालमेव भारतं त्यक्त्वा गच्छेयुः” । लोहपुरुषस्य मतम् आसीत्, “एतत् युद्धम् अधिककालं यावत् न भविष्यति । अस्य पूर्णाहुतिः शीघ्रातिशीघ्रं भविष्यति । अतः जपानसैनिकानां भारतप्राप्तिपूर्वमेव आङ्ग्लाः भारतं त्यक्त्वा गच्छेयुः तथा अस्माभिः चिन्तनीयम्” । ततः १९४२ तमस्य वर्षस्य 'अगस्त'-मासस्य ७-८ दिनाङ्कयोः मुम्बई-महानगरे अखिलभारतीयकोङ्ग्रेसमहासमित्याः सम्मेलनमासीत् । तत्र 'भारत छोडो' प्रस्तावः अङ्गीकृतः ।

बहवः कोङ्ग्रेस-पक्षस्य विरोधमकुर्वन् । अतः १९४२ तमस्य वर्षस्य 'जुलाई'-मासस्य षोडशे दिनाङ्के सरदार अवदत्, “विदेशेषु सर्वकारेण प्रचारः कृतः अस्ति यत्, कोङ्ग्रेस-पक्षेण सह कोऽपि नास्ति । नवकोटिः यवनाः, सप्तकोटिः हरिजनाः, सप्तकोटिः राजशासिताः जनाः, 'रेडीकल-डेमोक्रेटिक-कम्युनिष्ट'-जनाः कोङ्ग्रेस-पक्षेण सह न सन्ति । सर्वे तस्य विरोधं कुर्वन्तः सन्ति । सर्वे यदि कोङ्ग्रेस-पक्षस्य विरोधं कुर्वन्ति, तर्हि सर्वकारः भयभीतः किमर्थं दृश्यते ? तेन तु शान्त्या कोङ्ग्रेसपक्षस्य विरोधः द्रष्टव्यः खलु ? सत्यता तु इदम् अस्ति यत्, यावत्पर्यन्तं कोङ्ग्रेस-पक्षः सर्वेषां भारतीयानां मनसि स्वतन्त्रताबीजस्य वपनं न करिष्यति, तावत्पर्यन्तं आङ्ग्लाः एवमेव मिथ्यां प्रसारयिष्यन्ति” ।

१९४२ तमस्य वर्षस्य 'अगस्त'-मासस्य नवमे दिनाङ्के आङ्ग्लाः महात्मा-सरदार इत्यादीन् नायकान् कारावासं प्रेषितवन्तः । ततः देशे निर्वाचनस्य (Election) समयः आगतः । निर्वाचिने कोङ्ग्रेस-पक्षेण एसेम्बली-स्थानेषु सप्तपञ्चाशत् (५७) स्थानानि, प्रान्तस्थानेषु त्रयोविंशत्यधिकनवशतं (९२३) स्थानानि प्राप्तानि । परन्तु मुस्लिमलीग-पक्षस्य एसेम्बली-स्थानेषु त्रिंशत्, प्रान्तस्थानेषु पञ्चविंशत्यधिकचतुःशतम् (४२५) स्थानेषु विजये जाते सति भारतस्य एकतायाः उपरि प्रश्नार्थचिह्नः अभूत् । अनेन इदं स्पष्टमभवत् यत् भारतस्य विभजनं कृत्वा पृथग्तया पाकिस्थानदेशनिर्माणपक्षे बहवः यवनाः सन्ति इति ।

'केबिनेट मिशन'[सम्पादयतु]

आङ्ग्लाः देशत्यागं कुर्वन्ति एव । तस्मात् पूर्वं तेषां सर्वकारः अन्तिमवारं भवतु इति सरदार-मतमासीत् । तस्य योजना आसीत् यत्, भारतीयसंविधानस्य निर्माणेन सह अन्तिमराजनैतिकसर्वकारः अपि भवेत्, येन संविधाननिर्माणे सर्वेषां योगदानं भवितुमर्हति । अतः १९४६ तमस्य वर्षस्य 'जून'-मासस्य षोडशे दिनाङ्के अन्तिमसर्वकारस्य उद्घोषं 'गवर्नर' कृतवान् । अन्तिमसर्वकारस्य सूचना-प्रसारण-गृहविभाध्यक्षः सरदार आसीत् । यस्मिन् दिने एतेषां विभागानां मन्त्रित्वेन लोहपुरुषस्य घोषणा अभूत्, तस्मिन् दिने मुस्लिमलीग-पक्षेण शोकदिनम् आचरितमासीत् । सः पक्षः सरदार-विरोधी आसीत् । काले व्यतीतेऽपि तेषां विरोधः न स्थगितः । तस्य पक्षस्य नेतारः लोहपुरुषस्योपरि आरोपं कुर्वन्ति स्म यत्, आकाशवाण्याः ये कार्यक्रमाः भवन्ति, तेषु हिन्दीभाषायाः प्रयोगः अधिकः भवति इति । मुस्लिमलीग-पक्षसम्बद्धाः ये समाचाराः भवन्ति, तेषां प्रसारणम् अल्पकालाय एव भवति इति अपरं दोषारोपणमासीत् । अस्य खण्डनं कृत्वा सरदार अवदत्, “गुप्तरूपेण अवैध(illegal)रीत्या च चालितानाम् आकाशवाण्याः कार्यक्रमाणां प्रसारणम् अहम् अस्थगयं कारणं तेषां कार्यक्रमाणां प्रारम्भे, अन्ते च ‘पाकिस्थान जिन्दाबाद’ इत्यस्य घोषणा भवति स्म” ।

भारतविभाजनम्[सम्पादयतु]

१९४७ तमस्य वर्षस्य 'फरवरी'-मासस्य विंशतितमे दिनाङ्के ब्रिटिशसभाद्वारा ऐतिहासिकघोषणा कृता । भारतीयेभ्यः भारतशासनदानस्य, आङ्ग्लानां देशत्यागस्य च घोषणा कृता । १९४८ तमस्य वर्षस्य 'जून'-मासे शासनहस्तान्तरणं भविष्यति इति घोषणा कृता । तया सह अन्या घोषणा अभूत् यत्, वर्तमान-'वायसराय' लोर्ड वैवल-स्थाने लोर्ड माउण्टबैटन 'वायसराय'-पदारूढो भविष्यति । १९४७ तमस्य वर्षस्य 'मार्च'-मासस्य चतुर्वंशतितमे दिनाङ्के लोर्ड माउण्टबैटन वायसराय-पदारूढो अभूत् । भारतीयराजनेतॄणां विषये माउण्टबैटन इत्यस्य भिन्नानि मतानि आसन् । सरदार-विषये तस्य मतमासीत् यत्, “सरदार पटेल दृढः, धीरः, स्पष्टवादी, व्यावहारिकः, वास्तविकतावादी चास्ति” ।

विभाजनस्य विचारगोष्ठी यदा यदा भवति स्म, तदा तदा सरदार शीघ्रतया जिन्ना इत्यस्योपरि क्रोधं करोति स्म । तस्य मनसि शनैः शनैः आगतं यत्, विभाजनमेवोचितं भविष्यति । एतावत्पर्यन्तं विभाजनविरोधी सरदार आकस्मिकं विभाजनस्य पक्षधरः अभूत् । अनेन बहूनाम् आश्चर्यम् अभूत् । तेषु एकः आसीत् के.एस.मुन्शी । मुन्शी जनमान्यतया, किंवदन्त्या वा लोहपुरुषस्य मूल्याङ्कनं न कृतवान् । जिन्ना इत्यनेन सह सरदार कार्यं कर्तुं नेच्छति । अतः विभाजनाय तेन सम्मतिः दत्ता इति कारणं तु व्यर्थमेवास्ति इति मुन्शी जानाति स्म । मुन्शी-लोहपुरुषौ प्रतिवेशिनौ (neighbor) आस्ताम् । तौ प्रतिदिनं सायङ्काले भ्रमणाय यदा गच्छतः स्म, तदा सरदार स्वमनसः चर्चां करोति स्म । सरदार-कथनमासीत्, “भारतविभाजनसम्मत्यां मम पक्षद्वयमस्ति । प्रथमं तु वयम् अहिंसायाः पक्षधराः स्मः । अतः वयं हिंसया कार्यं कर्तुं न इच्छामः । वयम् अहिंसासम्बद्धान् अस्माकम् आदर्शान् विस्मरामश्चेदपि 'मुस्लिमलीग'-पक्षेण सह दीर्घकालस्य कलहो भविष्यति । ब्रिटिश-सर्वकारः यथा स्वारक्षकैः, सैनिकैश्च साहाय्येन शासनं कुर्वन्नस्ति, तथा वयं न करिष्यामः । द्वितीयमस्ति हिन्दु-मुस्लिम-हिंसा । विभाजनस्य प्रस्तावं यदि न स्वीकुर्मः, तर्हि नगर-ग्रामेषु हिन्दु-मुस्लिम-हिंसाः भविष्यन्ति । सैनिकाः, आरक्षकाः अपि हिन्दु-मुस्लिम-आधारेण विभक्ताः भूत्वा अन्तःकलहं करिष्यन्ति । सङ्घटनस्याभावात् हिन्दूनामेव अधिका क्षतिः भविष्यति । हिन्दवः स्वभावेनैव उदारवादिनः सन्ति । अतः हिन्दवः आक्रमकाः भवन्ति चेदपि तेषां निग्रहं सर्वकारः सरलतया करिष्यति । विभाजनप्रस्तावेन सह सम्मताः वयं देशद्वयस्य रचनां कुर्मः । अनेन हिन्दु-मुस्लिम-हिंसायाः विषये अस्माभिः अन्यदेशेन सहैव चर्चा कर्तव्या भवति, न तु ग्राम-नगरजनैः सह” ।

लोहपुरुषस्य अन्यदपि मतम् आसीत् यत्, “पाकिस्थानदेशः स्वतन्त्रततया अधिककालं यावत् न तिष्ठति । सः अराजकतायाः कारणेन पुनः भारते विलीनं भविष्यत्येव” । विश्लेषकाणां मतमस्ति यत्, “लोहपुरुषस्य एषः विचारः तु उचितः एव आसीत् । परन्तु पाकिस्थानस्य भारते विलीनता यथा न भवेत् तथा बहवः प्रयासाः कृताः अन्यदेशैः” ।

एतावत्पर्यन्तं महात्मा विभाजनाय सम्मतः नासीत् । परन्तु सरदार महात्मानम् अबोधयत्, “भ्रात्रोः कलहे जाते सति यथा तौ पृथक् गच्छतः, तथा इदानीं देशस्य भागः भवन्नस्ति” । ततः महात्मा अपि सम्मतः अभूत् ।

विभाजनप्रक्रियायां सरदार[सम्पादयतु]

विभाजनप्रक्रियायै विभाजनसमित्याः रचना अभूत् । ततः तस्याः समित्याः विभाजनपरिषद् इति नामकरणम् अभूत् । माउण्टबैटन परिषदः अध्यक्षः आसीत् । परिषदः चत्वारः सदस्याः आसन् । द्वौ कोङ्ग्रेस-पक्षतः, द्वौ मुस्लिमलीग-पक्षतः । कोङ्ग्रेसपक्षतः सरदार वल्लभभाई पटेल, डा. राजेन्द्र प्रसाद च आसीत् । मुस्लिमलीग-पक्षतः जिन्ना, लियाकत च आसीत् । भारतसम्बद्धाः विषयाः लोहपुरुषेण उपस्थापनीयाः अभवन् । परिषदः अन्तिमे सत्रे सरदार उक्तवान्, “भारतस्य इच्छास्ति विभाजनानन्तरं पाकिस्थानं भारतस्य सखराष्ट्रं भवेत् । अहं विभाजनवार्तायामेव स्पष्टं कृतवान् अस्मि यत्, पाकिस्थानस्य विषये भारतस्य मतं सद्भावनायाः एव अस्ति, भविष्यति च” ।

नवभारतशिल्पी सरदार[सम्पादयतु]

भारतेन स्वतन्त्रताप्राप्तिसमनन्तरं भारत-पाकिस्थानयोः विभाजनमभवत् । परन्तु माउण्टबैटन इत्यनेन स्वतन्त्रतायाः नियमेषु एकः मुख्यनियमः लघुशासकेभ्यः उद्घोषितः आसीत् । तस्य नियमस्य भागत्रयमासीत् ।

प्रथमभागः – लघुशासकाः स्वराज्यं भारते विलीनं कर्तुं शक्नुवन्ति ।
द्वितीयभागः – लघुशासकाः स्वराज्यं पाकिस्थाने विलीनं कर्तुं शक्नुवन्ति ।
तृतीयभागः – लघुशासकाः स्वराज्यं स्वतन्त्रं स्थापयितुम् अर्हन्ति ।

अनेन नियमने अखण्डभारतस्य स्वप्नं कठिनं अभवत् । लघुशासकेषु अन्तःकलहस्य सम्भावना आसीत् । मुख्यतः भोपाल-ट्रावनकोर-हैदराबाद-आदिराज्यानि स्वतन्त्रताम् इच्छन्तः आसन् । तेषामनुकरणेन अन्ये शासकाः अपि स्वतन्त्रतायै विचारमकुर्वन् । तस्मिन् समये भारते पञ्चषष्ठ्युत्तरपञ्चशतं (५६५) लघुराज्यानि आसन् । ते सर्वे स्वतन्त्रतामिच्छन्तः आसन् । तस्य परिणामस्वरूपं भारतस्य मानचित्रं कदाचित् एतादृशं भवेत् -

Bed india.jpg

१९४७ तमस्य वर्षस्य 'जून'-मासस्य सप्तविंशतितमे दिनाङ्के भारत-पाकिस्थानयोः राज्यविभागयोः स्थापना कृता । भारतीयराज्यविभागस्य अध्यक्षः सरदार वल्लभभाई पटेल आसीत् । एवं भारतीयराज्यानां भारतविलयस्य दायित्वं लोहपुरुषस्योपरि आगतम् ।

१९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चमे दिनाङ्के लोहपुरुषेण एकम् ऐतिहासिकं भाषणं कृतम् आसीत् । सरदार उक्तवान्, “वयं लघुराज्यैः सह स्मः । तेषां मनःस्थितिः सद्यः किदृशी अस्ति इति वयं जानीमः । परन्तु राज्यानि केवलं सुरक्षा-वैदेशिकसम्बन्ध-परिवहनेभ्यः केन्द्रसरकारान्तर्गतम् आगच्छन्तु । इतिहासः साक्षी अस्ति भारतस्य खण्डितावस्थायाः । अस्माकं अनेकतायाः च परिणामः आसीत् यत्, आक्रामकेभ्यः लघुसैन्येभ्यः अपि अस्माकं पराजयः भवति स्म । अस्माकं परस्परकलह-द्वेष-ईष्यादीनाम् कारणेनैव वयं वैदेशिकैः आक्रान्ताः । भौगोलिकसामीप्यदृष्ट्या, सांस्कृतिकदृष्ट्या, राजनैतिकदृष्ट्या च लघुराज्यानां दायित्वमस्ति यत्, तानि वर्तमानभारतस्य अखण्डतायै योगदानं दद्युः ।

भारतीयपरम्परयाः विषये येषाम् आदरः, प्रेमः, सद्भावना च अस्ति तादृशाः नागरिकाः अपि अत्र वसन्तः सन्ति । तेषामपि गौरवपूर्णा परम्परा अस्ति । एषः संयोगः एवास्ति यत्, केचन नागरिकाः ब्रिटिश-राज्येषु, लघुराज्येषु च वसन्तः सन्ति । परन्तु भारतीयोच्चपरम्परायाः, भारतीयसंस्कृतेः सिञ्चने सर्वेषां समदायित्वमस्ति । वयं तु रक्त-भावना-हितानां सम्बन्धेन बद्धाः स्मः । अस्मान् खण्डेषु विभक्तुं न कोऽपि शक्ष्यति । अस्मासु तादृशीनां समस्यानां स्थानं न भवेत्, यासां निवारणम् अशक्यं भवेत् । अतः मम परामर्शः अस्ति यत्, वयं मैत्रीभावेन सन्धिं कुर्मः इति ।

अराजकता, अव्यवस्था च बाल-वृद्धान्, धनिक-निर्धनान् सर्वान् समानरूपेण विनाशं प्रति नेष्यति । भविष्यस्य सन्तानाः अस्मभ्यः अभिशापं दद्युः तथा अस्माभिः न किमपि कार्यं करणीयम्” ।

षड्दिनस्य परिश्रमपश्चात् Instrument of Accession पत्रस्य निर्माणमभूत् । अस्मिन् सन्धिपत्रे राज्यैः सह सर्वकारस्य सन्धिनियमाः लिखिताः आसन् । तानि राज्यानि भारते विलीनानि सन्ति इत्यस्य प्रमाणमपि एतत् पत्रमासीत् । राज्यानां राजानः अस्योपरि स्वहस्ताक्षरं कृत्वा भारते विलयस्य घोषणां कुर्वन्ति स्म । एतत् पत्रं भारतीयसंविधानस्य भागः अस्ति ।

भारतीयसंविधानसभायां सर्वप्रथमं पटियाला-बीकानेर-राज्ययोः राजानौ प्रवेशपत्रस्योपरि (Instrument of Accession) हस्ताक्षरम् अकुरुताम् । ततः धौलीपुर-भरतपुर-विलासपुर-नाभा-ग्वालियरादीनि राज्यानि भारते विलीनानि अभूवन् । तथापि बहूनि राज्यानि भारतविलये सम्मतानि नासन् । तेषु ट्रावनकोर-जोधपुर-भोपाल—इन्दौरादीनि राज्यानि आसन् ।

१९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य एकादशे दिनाङ्के देहली-महानगरस्य रामलीला-क्षेत्रे सरदार भाषणं कृतवान्, “चत्वारि दिनानि अवशिष्टानि सन्ति । पश्चात् वैदेशिकाः गमिष्यन्ति । अतः लघुराज्यानां पार्श्वे 'अगस्त'-मासस्य पञ्चदशदिनाङ्कपर्यन्तं समयः अस्ति भारते विलयकरणाय । ततः लघुराज्यैः सह कठोरव्यवहारः भविष्यति । सद्यःपरिस्थित्याम् एकाकीभवनं क्लिष्टकरमस्ति । प्रचण्डवायोः आगमनेन एकाकीनां वृक्षाणां पतनं भवत्येव । परन्तु अन्यवृक्षाणां सङ्घटने ये भवन्ति, ते निश्चयेन रक्षिताः भवन्ति । भवन्तः तु श्रीरामचन्द्रस्य, अशोकस्य च वंशजाः सन्ति । परन्तु सद्यः भवन्तः आङ्ग्लानां निम्नाधिकारिणम् अपि प्रणमन्ति । भवताम् अधुनापर्यन्तं विश्वासः एव नास्ति यत्, 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के आङ्ग्लाः गमिष्यन्ति । ते यदा गमिष्यन्ति, तदैव भवतां ज्ञानं भविष्यति” ।

१९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशदिनाङ्के हैदराबाद-जुनागढ-काठियावाड-भोपाल-ट्रावनकोरादीनि राज्यानि भारते विलीनानि जातानि । काश्मीरराज्यं विहाय सर्वाणि राज्यानि भारते विलीनानि अभवन् । कालान्तरे काश्मीरराज्यमपि भारते विलीनमभूत् । भारते राज्यानां विलीनीकरणे वी.पी.मेनन कुशलतया लोहपुरुषस्य सहकारम् अकरोत् । सः स्वजीवन्याम् अलिखत्, “विलयनीत्याः सफलतायाः कारणं लोहपुरुषः अस्ति । राज्ञैः सह तस्य कुशलतापूर्णव्यवहारः विलयनीतिसाफल्यस्य मुख्यकारणमस्ति । शासकेभ्यः सः दृढशक्तिस्वरूपः, न्यायस्वरूपश्च आसीत् । शासकान् प्रति विश्वसनीयता-विनम्रता एव लोहपुरुषस्य शक्तिः आसीत् । इत एव तस्मिन् लोहपुरुषत्वम् दृष्टं सर्वैः । अर्थात् सर्वे तं लोहपुरुषत्वेन अङ्गीकृतवन्तः” ।

संविधानसभायै योगदानम्[सम्पादयतु]

संविधानसभायाः तिसॄणां मुख्योपसमितीनाम् अध्यक्षः सरदार आसीत् । ताश्च उपसमितयः मौलिकाधिकारोपसमितिः, अल्पसङ्ख्याकोपसमितिः, प्रन्तीयसंविधानोपसमितिः । अन्यप्रावधानरचनायामपि लोहपुरुषस्य मुख्यभूमिका आसीत् । यथा – शक्तिशालिकेन्द्रस्थापना, संविधानस्य सङ्कटकालीनव्यवस्था, स्वतन्त्रनिर्वाचनायोगः, देशीयराज्यविलयः, सर्वकारसेवा, जम्मू-कश्मीरराज्यविलयनसम्बद्धः अनुच्छेदः ३७० प्रावधानः, भाषानीतिः ।

सरदार मुस्लिमविरोधी ?[सम्पादयतु]

स्वस्य ‘इण्डिया विंस फ्रीडम’ पुस्तके मौलाना अबुल् कलाम् आजाद् लोहपुरुषः मुस्लिमविरोधी इति लिखितवान् आसीत् । अतः अद्यापि मुस्लिमसङ्घटनेषु सरदार मुस्लिमविरोधी, हिन्दुसम्प्रदायवादी चासीत् इति भावना प्रचलिता दृश्यते । परन्तु लोहपुरुषेण लिखितानां पत्राणां गहनाध्ययनेन सत्यज्ञानं भवति ।

लोहपुरुषः हिन्दुः आसीत् । अतः हिन्दुत्वे सः गर्वान्वितः आसीत् । हिन्दुत्वे प्रेमः, आदरः, विश्वासः कोऽपि राष्ट्रियापराधः नास्ति । हिन्दुत्वसमर्थनेन, आचरणेन च मुस्लिमविरोधः कदापि न भवति इति तस्य मतमासीत् । स्वभाषणेषु लोहपुरुषेण स्पष्टम् उक्तमस्ति, “राष्ट्रभक्तस्य मुस्लिमजनस्य भारतसङ्घे तत्पदमेवास्ति यत् राष्ट्रभक्तस्य हिन्दुजनस्यास्ति । तेभ्यः मुस्लिमजनेभ्यः अहं कठोरः अस्मि ये भारतविभाजनात् पूर्वं मुस्लिमलीग-पक्षस्य समर्थनम् अकुर्वन्, स्वतन्त्रतानन्तरमपि पाकिस्थानगमनस्य चिन्तनं कुर्वन्तः आसन्” ।

मुस्लिमजनैः सह यद्यपि स्वस्य मृदुता आसीत्, तथापि सः देशहितं ध्यात्वा उक्तवान्, “अहम् अद्यापि बहु विनम्रभावेन वदन् अस्मि यत्, अहं मुस्लिमजनानां मित्रमस्मि, मित्रस्य कर्तव्यमस्ति सत्यवचनं तथा अकृतघ्नता । अहं स्पष्टतया वक्तुमिच्छामि यत् अधुना हिन्दुस्थानाय पूर्णप्रेम येषां हृदि अस्ति, ते एव हिन्दुस्थाने वासाय अधिकारिणः सन्ति । ते सर्वदा स्मरेयुः यत्, यस्यां नावि ते स्थिताः सन्ति, तस्याः नावः हितमेव चिन्तयेरन् कारणं तया नावा एव तेषां जीवनमस्ति” ।

'स्टेच्यू ओफ यूनिटि'[सम्पादयतु]

स्टेच्यू ओफ यूनिटि अर्थात् एकतामूर्तिः गुजरातराज्ये निर्माणाधीनः सर्वोत्कृष्टः नवीनः प्रकल्पः (project) अस्ति । अस्माकं लोहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति यतो हि लोहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लोहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।

एकतामूर्तिप्रकल्पे लोहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्माणस्य योजना (planning) अस्ति । सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं भविष्यति । तस्मात् जलबन्धात् ३.२ कि.मी. दूरे निर्माणं भविष्यति भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिःभारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके (Sadhu island of Narmada River) द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तेः निर्माणं भविष्यति ।

एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः (a bridge connecting the statue on Sadhu island to the bank), सरदार-स्मारकः, अभ्यागतभवनानि (buildings for visitors), स्मारकोद्यानम्, अतिथिभवनं (a five star hotel), सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् ।

एकतामूर्तिप्रकल्पाय गुजरातसर्वकारेण रदार ल्लभभाई टेल राष्ट्रियैकता संस्थायाः – सवपरास (Sardar Vallabhbhai Patel Rashtriya Ekta Trust - SVPRET) स्थापना कृता अस्ति ।

लोहपुरुषप्रशंसाकाव्यानि[सम्पादयतु]

રાષ્ટ્ર સપૂત

કરમસદનો કર્મવીર ને, બારડોલીનો તારણહાર;
ગાંઘીસૈન્યનો અદનો સૈનિક, ભારતનો સ્વીકૃત સરદાર.

માંધાતાના મદ છોડાવે, એવો તારો રણ ટંકાર;
વાણીનો વિલાસ ગમે ના, શબ્દ કર્મમાં એકાકાર.

શબ્દ-શસ્ત્ર ને નીતિ-અસ્ત્રનો, પરમ ઉપાસક નવ ચાણક્ય;
શાસકને તેં સાધક કીધા, રાષ્ટ્ર-યજ્ઞના સહ યાચક.

સંઘ-શક્તિનો અજોડ સાઘક કાર્ય સિદ્ધિનો આહ્વાહક;
એક તિરંગાની છાયામાં, એખંડ ભારતનો સર્જક.

બાપુને પગલે તું ચાલ્યો, બની ભક્ત, શૂર, દૃઢ પ્રતિજ્ઞ;
અદ્ભુત ઐક્ય દઈ ભારતને, પૂર્ણ કર્યો જીવનનો યજ્ઞ.

સ્વરાજ્યની ચાલીસી ટાણે, સુરાજ્ય ઝંખે સૌ નર-નાર;
સ્મરે સ્નેહથી, સાદર વન્દે, જય જય રાષ્ટ્ર સપૂત સરદાર.
                                 - હરગોવિંદ ચન્દુલાલ નાયક (અમદાવાદ, 1986)

ખેડૂતોનો તારણહાર

કોની હાકે મડદાં ઊઠ્યાં ?
કાયર કેસરી થઈ તડૂક્યા ?
કોની પાડે કપટી જૂઠા,
જાલીમોનાં ગાત્ર વછુટ્યાં ?
ખેડૂતોનો તારણહાર,
જય સરદાર ! જય સરદાર
ખેડૂતોની મુક્તિ કાજે,
સિંહ સમો ગુજરાતે ગાજે,
તાજ વિનાનો રાજા રાજે,
કોણ હવે જને વલ્લભ આજે !
ખેડૂતોનો તારણહાર,
જય સરદાર ! જય સરદાર
માટીમાંથી મર્દ બનાવી,
સભળી સત્તાને થંભાવી,
ગુર્જરી માને જેબ અપાવી,
ભારતભર ઉષા પ્રગટાવી.
ખેડૂતોનો તારણહાર,
જય સરદાર ! જય સરદાર
લીલા નંદનવન ભેલાડે,
રાંકડી રૈયતને રંજાડે,
એવા નંદી નાથ્યા કોણે ?
પળમાં દીધા પૂરી ખૂણે.
ખેડૂતોનો તારણહાર,
જય સરદાર ! જય સરદાર
                     - કલ્યાણજી મહેતા (બારડોલી, 1928)

पटेल के प्रति

यही प्रसिद्ध लोहपुरुष प्रबल,
यही प्रसिद्ध शक्ति की शिला अटल,
हिला इसे सका कभी न शत्रु दल,
पटेल पर
स्वदेश को
गुमान है ।
सुबुद्धि उच्च श्रृंग पर किये जगह,
हृदय गंभीर है समुद्र की तरह,
कदम छुए हुए ज़मीन की सतह,
पटेल देश का
निगहबान है ।
हरेक पक्ष के पटेल तौलता,
हरेक भेद को पटेल खोलता,
दुराव या छिपाव से इसे गरज ?
कठोर नग्न सत्य बोलता ।
पटेल हिंद की नीडर जबान है ।
                 - हरिवंशराय बच्चन (1950)

His Works are actions

Cross legend he sits with a stony stoop
And dark deep furrowed face
Eyes at once undaunted searching kind
A head too cool a nook for fire anged words

Have you ever heard him speak?
It is not words he utters.
He musters the strength of the shriveled soul
Of a vast famishing people;
And ever his steep stark personality
Forges word winged weapons.

It is his wont to fling
Barbed words at feasting ill
But of the from his soul sling
Darts forth not words but will
His words are actions.

                    - Umashankar Joshi (Ahmedabad, 1948)

सम्बद्धाः लेखाः[सम्पादयतु]

मणिबेन

एकतामूर्तिः

सत्याग्रहः

उपप्रधानमन्त्रिणः

टिप्पणी[सम्पादयतु]

  1. The Indomitable Sardar. भारतीय विद्या भवन. १९७७. pp. ४. "वल्लभभाई पटेल" 
  2. गान्धी, राजमोहन (१९९०). Patel: A Life. भारतम्: नवाज़्. pp. ३. OCLC 25788696. 
  3. गान्धी, राजमोहन. Patel: A Life. pp. ८. 
  4. सरदार वल्लभभाई पटेल, भारतस्य लोहपुरुषः. ईन्दस्. १९९६. pp. ७. ISBN 81-7223-211-X. http://books.google.co.in/books?ei=43WhTb-_JcfxrQeWgpnrAg&ct=result&id=-iZuAAAAMAAJ. 
  5. गान्धी, राजमोहन. Patel: A Life. pp. १३. 
  6. गान्धी, राजमोहन. Patel: A Life. pp. ३३. 
  7. पटेल, आर्. हिन्द के सरदार. pp. ३३. 
  8. गान्धी, राजमोहन. Patel: A Life. pp. ४३. 
  9. पारिख. सरदार वल्लभभाई पटेल(१). pp. ५५. 
  10. पटेल, आर्. हिन्द के सरदार. pp. ३९. 

बाह्यानुबन्धाः[सम्पादयतु]

http://www.sardarpateltrust.org/

http://timesofindia.indiatimes.com/topic/sardar-vallabhbhai-patel

https://www.facebook.com/VALLABHBHAI

http://www.ndtv.com/topic/sardar-vallabhbhai-patel

"http://sa.wikipedia.org/w/index.php?title=सरदार_वल्लभभाई_पटेल&oldid=278517" इत्यस्माद् पुनः प्राप्तिः