सरदार् वल्लभभायी पटेलः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
सरदार् वल्लभभायी पटेलःl
उपप्रधानमन्त्री
कार्यालये
15 August 1947 – 15 December 1950
प्रधानमन्त्रिः जवाहरलाल नेह्रू
पूर्वगमः Position established
पादानुध्यातः मोरार्जी देसायी
कार्यालये
15 August 1948 – 15 December 1950
प्रधानमन्त्रिः जवाहरलाल नेहरु
पूर्वगमः Position established
पादानुध्यातः सि.राजगोपालाचारी
व्यक्तिगत विचाराः
जननम् 31 October 1875(1875-10-31)
नान्देड्, मुम्बयी, भारतम्
मरणम् 15 December 1950(1950-12-15) (aged 75)
मुम्बयी, भारतम्
राष्ट्रीयता भारतीयः
राजनैतिकपक्षः Indian National Congress
अपत्यानि Maniben Patel, Dahyabhai Patel
वृत्तिः अधिवक्ता
धर्मः हिन्दूधर्मः
सरदार् वल्लभभायी पटेलः

वल्लभभायी पटेलः (३१.१०.१८७५ - १५.१२.१९५०) बैरिस्टरपरीक्षाम्‌ उत्तीर्य सार्वजनिकसेवाम्‌ आरभत । अस्य योग्यताम्‌, उत्साहं, सङ्कल्पशक्तिम्‌ कर्तव्यपरायणत्वञ्च गुजरात् जनाः प्रीत्यसरदार् इति उपादिं दत्तवन्तः । वैदेशिका: पत्रकारा: एनम्‌ लोहपुरुषः इति उपाधिना व्यवहरन्ति स्म । स्वतन्त्रे भारते अयं भारतशासनस्य गृहमन्त्री उपप्रधानमन्त्री च अभवत्‌ । देशे विद्यमानानाम्‌ अनेकेषाम्‌ राज्ञाम्‌ राज्यानि समाप्य असौ भारतसङ्घे सम्मेलितवान्‌ । अयं भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य व्यवहारेषु महात्मागन्धिमहोदयस्य सहायकः आसीत् । वस्तुशाः स्वातन्त्र्यप्राप्तेः आरम्भकाले भारतराष्ट्रियकाङ्गेस् सदस्यैः प्रधानमन्त्रिणः स्थानार्थं चितः । किन्तु महात्मा गान्धेः आग्राहानुरोधेन तत् स्थानं जवाहर नेह्रू इत्यस्मै दत्तवान् । क्रि.श. १९९१तमे वर्षे एषः भारतरत्नम् इति प्रशस्त्या सम्मानितः ।

अन्तर्विषयाः

बाल्यं शिक्षा च [सम्पादयतु]

वल्लभाभायी झवेरभायी पटेलस्य जन्म भारतस्य गुजरातराज्यस्य नडियाद् इति ग्रामे अस्य मातुलस्य गृहे अभवत् । खेडमण्डलस्य करमसाड् इति ग्रामस्य निवासिनोः झवेरबायीलाबडादम्पत्योः चतुर्थपुत्रत्वेन अक्टोबर् ३० तमे दिने (निखरता नास्ति) अजायत । सोमाभायी, नरसीभायी ख्यातौ राजनीतिज्ञौ अस्य अग्रजौ । काशीभायी इति अनुजः दहीबा इति अनुजा च आस्ताम् । वल्लभभायी विलम्बेन शालां प्रविष्टवान् । अस्य कुटुम्बवर्गः विद्यार्जनविषये तावान् आसक्तः नासीत् । नडियादतः आरब्धः अस्य विद्याभ्यासः पेट्लाड्, बोसार्ड् इत्यादिषु प्रदेशेषु अमुन्नीतः । स्वस्य २२तमे वयसि म्याट्रिक् (अद्यतनः सप्तमक्ष्यासमानम्) परीक्षां प्रविष्टवान् । पठने सामान्यः छात्रः आसीत् । अस्य तदानीन्तनव्यवस्थायां प्लीडर् परीक्षाम् उत्तीर्य न्यायवादी भवेयम् इति इच्छा आसीत् । अतः धनसङ्गहं कृत्वा ब्यारिष्टर् पठितुम् इङ्ग्लेण्ड् गतवान् । अल्पे वयसि एव पटेलस्य विवाहः झवेरा बा इत्यनया सह सम्पन्नः । दाम्पत्यफलरूपेण क्रि.श. १९०४तमे वर्षे मणि बेन् इति पुत्री क्रि.श. १९०६तमे वर्शे दह्या इति पुत्रः अभवतान् । ब्युबोनिक् प्लेग् इतिरोगेण बाधितस्य मित्रस्य सेवारतः पटेलः स्वयं तेनरोगेण गृहीतः तदा स्वकुटुम्बं योग्यस्थानं संप्रेष्य स्वगृहं त्यक्त्वा नडियाप्रदेशस्य जीर्णदेवालये वसन् कुशलः अभवत् । क्रि.श. १९०९तमे वर्षे पत्नी दिवङ्गता । वल्लभभायी पटेलः अन्तर्मुखी इति कारणेन तस्य पत्न्याः विषये अधिकं ज्ञानं समाजस्य नासीत् । पुनः विवाहं न कृतवान् ।

विदेशयात्रा [सम्पादयतु]

कुटुम्बस्य योगक्षेमं पश्यन् एव पटेलः इङ्ग्लेण्ड् प्रवासार्थं धनसङ्ग्रहम् आरब्धवान् । यदा इङ्ग्लेण्ड प्रवासस्य अवकाशः प्राप्तः तदा तमवकाशम् अग्रजाय विठ्ठलभायीवर्याय दत्वा सङ्ग्रहीतधनमपि अर्पितवान् । स्वस्य ३६तमे वयसि इङ्ग्लेण्ड् प्रस्थाय लण्डन् नगरस्य मिड्ल् ट्म्पल् इन् महाविद्यालये प्रवेशं प्राप्तवान् । ३६मासानां प्रणालीं ३०मासेषु एव समाप्य महाविद्यालयाध्ययनस्य कापि पृष्ठभूमिः नास्ति चेदपि कक्ष्यां सर्वप्राथम्येन उत्तीर्य ततः अहमदाबाद् नगरम् आगत्य सुस्थितवान् । कालक्रमेण तत्र अग्रगण्यः ब्यारिष्टर् (नायवादी ) अभवत् ।

स्वातन्त्र्यान्दोलने सक्रियः [सम्पादयतु]

क्रि.श. १९१८तमे वर्षे समृद्धं न्यायवादिवृत्तिं, गौरवम्,बृहद्गृहम्, सम्पदं सर्वमपि त्यत्क्वा भारतस्य स्वातन्त्रसङ्ग्रामस्य सरलजीवने कष्टकार्पण्ये आत्मानं समर्पितवान् । आरम्भे स्वमित्रैः सह महात्मा गान्धेः कार्यशैल्याः राजनीतेः च उपहासं कृतवान् । किन्तु अन्निबेसेण्ट् इत्यस्याः बान्धनस्य आदेशं तिरस्कृत्य सार्वत्रिकान्दोलनं कर्तव्यम् इति गान्धिः यदा उक्तवान् तदा अस्य भावस्य परिवर्तनम् अभवत् । गान्धेः चम्पारण्यस्य सत्याग्रहान्दोलनस्य पश्चात् भारस्य स्वानन्त्र्यसङ्ग्रामे जयं प्राप्तुं गान्धिः समर्थं नायकः इति विश्वासः उत्पन्नः। तस्य ज्येष्ठपुरुषस्य भारगीयमौल्येषु श्रद्धां सरलजीवनं च दृष्ट्वा अकृष्टः पटेलः गान्धेः अप्तवलये आगतः । क्रि.श. १९१८तमे वर्षे वल्लभभायी पटेलः कङ्ग्रेस् पक्षं प्राविशत् । अस्य कार्यदर्शित्वे विद्यमाना गुजरात्सभा एव गुजरात् प्रदेशस्य कङ्ग्रेस् समितिः इति परिवर्तिता । पटेलः तस्य अध्यक्षः भूत्वा क्रि.श. १९४७तमवर्षपर्यन्तम् अपि सेवामकरोत् ।

खेडाबर्साड् बार्डोलीसत्याग्रहान्दोलनानि [सम्पादयतु]

खेडाविप्लवेन पटेलः भारतस्य स्वातन्त्र्यसङ्ग्रामे प्रवेशः अभवत् । गुजरातस्य खेडा प्रान्तः तीव्रक्षामेन परितप्तः तत्रस्थकृषकाः करापकर्षार्थम् अभ्यर्थनम् अकुर्वन् । महात्मा गान्धिः सङ्घर्षार्थम् अङ्गीकृतवान् अपि चम्पारण्यस्य कार्यमग्नः इति कारणेन नेता भवितुं न शक्तवान् । खेडाविषये पूर्णावधिकार्यकर्तुः आवश्यकता आसीत् । पटेलः स्वेच्छया अग्रे आगत्य नेतृत्वं स्वीकवान् । गान्धेः अनुयायिनः नरहरिपारिखेन मोतिलालपण्ड्येन च सह पटेलः ग्रामात् ग्रामम् अटित्वा ग्रामीणानां सामस्याः परिशील्य राज्यवाप्तान्दोलने तेषां सर्वेषाम् अवलम्बम् अपृच्छत् । राज्यस्य सर्वत्र हिन्दुः मुसल्मानः इति अभेदेन सर्वेऽपि अस्य नायकत्वम् अङ्गीकृतवन्तः । सम्पूर्णः सङ्घर्षः अहिंसारहितः भवति कदापि कुत्रापि ग्रामीणा एकतायः भङ्गः न भवेत् इति सूचितवान् । पटेलस्य अस्मिन् कार्ये राष्ट्रियवादिनः अब्बस् त्याब्जी अहमदबादस्य साराभायी इत्यादयः युक्ताः अभवन् । ग्रामीणानां करापकर्षस्य सत्याग्रहान्दोलनं भञ्जयितुम् आङ्ग्लारक्षकाः आगत्य ग्रामजनानां सम्पत्तिः, पालितजन्तवः इत्यादीन् उपग्रहणं कृतवन्तः । साहस्राधिकाः कार्यकर्तारः ग्रामस्थाः बद्धाः तथापि हिंसात्मिका प्रतिक्रिया नासीत् । सत्याग्रहान्दोलननिरतेभ्यः ग्रामजनाः आहारान्, वस्त्राणि अन्यावश्यकवस्तूनि अन्वाहरन्ति स्म । करं दत्वा ये ग्रामाः सर्वकारं प्रोत्साहयन्ति तेषां बहिष्कारः कृतः । अस्य प्रतिरोधस्य समग्रे भारते सहानुभूतिः प्रदर्शितः । किन्तु एषः प्रतिरोधः केवलं गुजरातस्य स्थलीयसमस्याः विरुद्ध्य कृतः अनेन स्वातन्त्र्यान्दोलनस्य किमपि प्रयोजनं नाभवत् । क्रि.श. १९१९तमे वर्षे अवनतः सर्वकारः करदानास्य समयावकाशं दत्वा करभारमपि न्यूनम् अकरोत् । अनेन अन्दोलनेन पटेलः गुजरातस्य महानायकः इति जनप्रियतां प्राप्तवान् । समग्रस्य भारतस्य राजनीतिधुरिणानां प्रशंसां च प्राप्तवान् । क्रि.श. १९१९तः १९२८तमवर्षपर्यन्तं पटेलः अस्पृश्यता, मद्यपानम्, दारिद्र्यम्, सामाजिकमौढ्यानि च निवारयितुं विस्तृतम् आन्दोलनं कृतवान् । क्रि.श. १९२२तमे वर्षे अहमदाबादस्य नगरसभायाः अध्यक्षपदे निर्वाचितः । अनेन पटेलस्य सार्वजनिकसेवया सह राजनीतिक्षेत्रस्य प्रशासनरङ्गस्य चानुभवं प्राप्तुम् अवकाशः अभवत् । अस्य प्रसासनकालांशे अहमदाबादनगरस्य विद्युत्प्रसरणं, प्रदुष्टजननिर्गमः, नैर्मल्यम्, शिक्षा, इत्यादिषु व्यवस्थासु गणनीयं परिवर्तनम् आनीतवान् । हिन्दुमुसल्मानविवादः इति सूक्ष्मविषमपि परिशील्य जनहितदृष्ट्याः स्वनिर्णयान् अनुष्ठाने आनीत्वान् । क्रि.श. १९२८तमे वर्षे बार्डोलि दुर्दशाम् अवाप्नोत् । गुजरतस्य बहुशः भागाः क्षामेन परितप्ताः । सर्वकारः करप्रमाणम् अवर्धयत् । तद्विरुद्ध्य पटेलेन कृतम् आन्दोलनं देशे प्रासिद्धम् अभवत् । खेडा सत्याग्रहान्दोलनस्य अपेक्षया गभीररूपेण गुजरातस्य सर्वप्रदेशेषु जनाः सत्याग्रहान्दोलनम् अकुर्वन् । जनहस्तच्युताः सम्पत्तयः प्रत्यानेतुं परिश्रम् अकरोत् । अनेन बार्डोली अन्दोलनेन जनाः प्रीत्या सरदार् इति उपाधिना सम्मानितवन्तः । लक्षाधिकगुजरातीजननां पटेलः आराध्यदेवः अभवत् ।

भारतस्य विभाजनम् [सम्पादयतु]

महम्मद् आलि जिन्ना इत्यस्य नायकत्वे प्रतिदिनं वर्धते स्म मुसल्मानानां प्रत्येकतावादः । अनेन खिन्नः वल्लभभायी पटेलः भारतस्य विभजनम् अनिवार्यम् इति नीर्णीतवत्सु काङ्ग्रेस् नेतृषु पटेलः अन्यतमः । एतन्मध्ये शान्तिसन्धानस्य प्रयत्नं विफलयित्वा जिन्ना हिंसात्मकान्दोलं प्रचोदितवान् इति पटेलः अतीव दुःखमनुभूतवान् । जवाहरनेह्रू आदयः विभजनम् अङ्गीकृतवन्तः । पश्चात् अत्यन्तं दुःखितं गान्धिमहोदयस्य अनुमतिप्रापणस्य दायित्वं पटेलः कृतवान् ।

विभजनोत्तरभारतम् [सम्पादयतु]

पटेलः विभागस्य अनन्तरं भारतस्य प्रशासनयन्त्रस्य सम्पतेः वितरणस्य पर्यवेक्षणं कायं कृतवान् । भारतस्य अपेक्षया जनसङ्ख्यया आकारेण च लघुतरस्य पाकिस्तानस्य कृते जिन्ना अधिकभागं न स्वीकुर्यात् इति पटेलः जगरितः अभावत् । नेह्रू पटेलः च केन्द्रस्य मन्त्रिमण्डलं संरूप्य पटेलः उपप्रधानी अभवत् । स्वस्य ७२तमे वयसि ५६५ राजसंस्थानानि भारते विलीनानि कृत्वा प्रजाप्रभुत्वम् अचाययत् । देशस्य रक्षणव्यवस्थापनस्य देशैकीकरणस्य दायित्वं पटेलः स्वीकृतवान् । अनेन सह अधिकारविकेन्द्रीकरणं, धार्मिकसामरस्यं, सम्पदधिकारः, इत्यादीन् विषयान् विषदीकृत्य भारतस्य संविधानस्य रचानायां गण्यं योगदानम् अस्ति ।

भारतस्य राजनीत्येकीकरणम् [सम्पादयतु]

५६५ अर्धस्वतन्त्रसंस्थानेषु विकीर्णंस्त भारतस्य एकीकरणस्य महत्कार्यार्थं पटेलः एव अनुरूपा व्यक्तिः इति काङ्ग्रेस् पक्षस्य मौण्ट् ब्याटन् इत्यादीनां ब्रिटिश् अधिकरिणाम् अभिप्रायः आसीत् । राज्यस्य समस्याः एतवत्यः तीव्राः भवान् एव ताह् परिहर्तुं समर्थः नान्यः इति गान्धिमहोदयः पटेलम् उक्तवान् । एतादृशं गुरुतरं कार्यं कर्तुम् आवश्यकं स्थैर्यम्, चातुर्यम्, निर्धारणशक्तिः, अनुभवः, नेतृत्वं च पटेले आसीत् । क्रि.श. १९४७तमवर्षस्य मे मासस्य षष्टे दिने पटेलः राजभिः साह संस्थानानां विलीनस्य चिन्तनम् आरब्धवान् । भारस्य भव्य भवितव्यस्य विषये अग्रे सम्भाव्यमानस्य घर्षणं नियन्त्रयितुं च पटेलः चिन्तनसभामकरोत् । अनेका संस्थानिकराजान् स्वगृहम् आहूय भोजनदिसत्कारं कृत्वा विलीनस्य चिन्तनम् आरब्धवान् । कङ्ग्रेस् राज्ञां च मध्ये वेशेषं वाग्युद्धं नाभवत् । प्रजानां हितार्थे एव राज्यानि भारते विलीनानि कुर्वन्तु इति विज्ञापितवान् । विलीनस्य पश्चात् अग्रिमवंशाजाः अपि राजधनं प्राप्स्यन्ति इति विश्वासमपि दत्तवान् । स्वस्य गुजरातराज्ये विद्यमानस्य जुनागडस्य विषये प्रकृत्या आदरः आसीत् । तत्रस्थान् नवाबान् सर् शा नवाज् बुट्टो पाकिस्ताने विलनाः भवितुम् आग्रहंकृतवान् । जुनागडः पाकिस्तानात् बहुदूरम् अस्ति । अपि च तस्मिन् ८०%हैन्दवाः वसन्ति । अतः बलप्रदर्शनेन वा जुनागडं भारते एव रक्षणीयम् इति पटेलस्य आशयः । अतः जुनागडस्य तिस्रषु सीमासु अपि सेनागणं प्रेषितवान् । प्रजासर्वकारे रचिते बोट्टेनवाबयोः विरोधः यदा विफलः अभवत् तदा तौ पाकिस्तानं पलायनम् अकुर्वताम् । बलप्रयोगेन हैदराबाद् राज्यं विलीनं कारयति चेत् हैन्दवमुसस्मानविप्लवस्य कारणं भवेदिदि नेह्रू मौणट् ब्याटन् च चिन्तितवन्तौ । किन्तु पटेलः अवदत् हैदराबाद्राज्यं त्यजति चेत् भारतस्य प्रतिष्ठायाः प्रश्नः भवति । अपि च तेन हैन्दवाः मुसल्मानाः वा सुखेन उषितुं नैव शक्नुवन्ति । किन्तु अन्ते कस्यचिदपि पौरस्य सङ्घर्षणेन विना हैदराबाद्राज्यस्य विलीननेन भरतीयमुसल्मानाः सन्तुष्टाः । अग्रे निजामः पटेले क्षामाम् अयाचत । पटेलः मनसः वैर अत्यजत् ।

वीथिका [सम्पादयतु]

बाह्यसम्पर्कतन्तुः [सम्पादयतु]