सरदारसरोवरजलबन्धः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(सरदार वल्लभभाई पटेल जलबन्धः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Sardar Sarovar Dam
सरदारसरोवरजलबन्धः
Sardar Sarovar Dam partially completed.JPG
सरदारसरोवरजलबन्धः
सरदारसरोवरजलबन्धः is located in Gujarat
भरुचमण्डलं, गुजरातराज्यं, भारतम्
देशः भारतम्
अवस्थानम् नवागाम, गुजरातराज्यम्
भौगोलिकावस्थानम् 21°49′49″N 73°44′50″E / 21.83028°N 73.74722°E / 21.83028; 73.74722
स्थितिः कार्यरतः
स्वामी नर्मदा कण्ट्रोल् अथॉरिटि
जलबन्धस्तथा जलनिकाषी व्यवस्था
जलबन्धस्य प्राकारः अभिकर्षजशक्त्याः अनुकुलः
आबन्धनम् नर्मदानदी
उच्चता (मूलभित्तिः) १६३ m ( ft)
दैर्घ्यम् १,२१० m ( ft)
जलनिष्कासनक्षमता ८४,९४९ m3/s ( cu ft/s)
जलाधारः
सम्पूर्णधारणक्षमता ९,५०,००,००,००० m3 ( acre·ft)
धारणक्षमता (सक्रिया) ५,८०,००,००,००० m3 ( acre·ft)
अववाहिका ८८,००० km2 ( sq mi)
भू-तलविस्तृतिः ३७५.३३ km2 (. sq mi)
दैर्घ्यम् (सर्वाधिकम्) २१४ km ( mi)
स्थूलता (सर्वाधिका) १.७७ km (. mi)
जलस्य स्फितिः
(साधारणतया)
१३८ m ( ft)
विद्युत्शक्तिकेन्द्रम्
सञ्चालकाः सरदार सरोवर नर्मदा निगम लिमिटेड् (Sardar Sarovar Narmada Nigam Limited)
प्रकल्पभारार्पणम् जून् २००६
घुर्णनयन्त्राणि जलबन्धे- ६x २००मेगावाट् घुर्णनयन्त्राणि
केनाल्- ५x ५०मेगावाट् घुर्णनयन्त्राणि[१]
धारणक्षमता (स्थापिता) १,४५० मेगावाट्
जालस्थानम्
www.sardarsarovardam.org

सरदारसरोवरजलबन्धः (गुजराती: સરદાર સરોવર ડેમ, हिन्दी: सरदार सरोवर डेम्) गुजरातराज्यस्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अन्यतमः अस्ति । सरदारसरोवरजलबन्धः न केवलं गुजरातराज्यस्य, अपि तु भारतस्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अपि अन्यतमः । जलबन्धनिर्माणस्य योजनायाः नाम “नर्मदायोजना” इति । एतस्मात् जलबन्धादेव गुजरातराज्यस्य विभिन्नस्थानं प्रति कुल्यायाः (canal) माध्यमेन नर्मदायाः जलं गच्छति । “गुजरातराज्यस्य विकासस्य पृष्ठे सरदार-सरोवरजलबन्धस्य निर्माणमपि एकं कारणं विद्यते” इति नेतारः वदन्ति । १९६१ तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चमे (५/४/१९६१) दिनाङ्के एतस्याः योजनायाः शिलान्यासं प्रधानमन्त्री नेहरू अकरोत्, परन्तु अद्यापि तस्य निर्माणकार्यं चलदस्ति । अनेन ज्ञायते यत्, एषः प्रकल्पः कियान् बृहत् अस्ति इति । (भारतदेशस्य राजनीतेः कीदृशी स्थितिः अस्ति इत्यस्यापि अनेन ज्ञानं भवति ।)

भौगोलिकस्थितिः[सम्पादयतु]

गुजरातराज्यस्य भरुच-नगरस्य नवागाम-ग्रामस्य समीपं सरदार-सरोवरजलबन्धः विद्यते । पूर्वं भरुचमण्डलस्य गोरागाम-ग्रामस्य समीपं नेहरु इत्यनेन नर्मदायोजनायाः शिलान्यासः कृतः आसीत् । परन्तु अभियन्तॄणां मते तत् स्थानं जलबन्धनिर्माणयोग्यं नासीत्, अतः तस्याः योजनायाः स्थानं भरुचमण्डलस्य नवागाम-ग्रामस्य समीपं निश्चितम् ।

इतिहासः[सम्पादयतु]

गुजरातविधानसभायां नर्मदायोजनायाः प्रस्तावः भाईलालभाई डी. पटेल-नामकेन एकेन निर्दलीयसदस्येन उपस्थापितः आसीत् । सः भाईकाका इति नाम्ना अपि प्रसिद्धः आसीत् । भाईकाका इत्यस्य प्रस्तावस्य जनसामान्यैः, विधानसभासदस्यैः च समर्थनं कृतम् आसीत् । गुजरातराज्ये तदा कॉङ्ग्रेस्-पक्षस्य सर्वकारस्य शासनम् आसीत् । कॉङ्ग्रेस्-पक्षस्य नेतारः भाईकाका इत्यनेन उपस्थापितस्य प्रकल्पप्रस्तावस्य समर्थं नाकुर्वन् । परन्तु जनसामान्यानां समर्थनं भाईकाका इत्यस्य पार्श्वे आसीत् । ततः राजनैतिकवातावरणं दृष्ट्वा कॉङ्ग्रेस्-पक्षस्य नेतारः अपि नर्मदायोजनायाः समर्थनम् अकुर्वन् । नर्मदायोजनायाः राजनैतिककलहस्य विषये भाईकाका स्वस्य ‘भाईकाकाना संस्मरणो’-नामके (ભાઈકાકાનાં સંસ્મરણો) पुस्तके स्वानुभवान् अलिखत् । (‘भाईकाकाना संस्मरणो’-पुस्तकं भाईकाका इत्यस्य सङ्घर्षस्य स्थितिं कथयति । अतः तत् पुस्तकमेकवारं पठनीयम् सर्वैः ।)

भाईकाका स्वयं अनुभवी अभियन्ता (engineer) आसीत् । तेन जनसेवायै राजनीतिक्षेत्रस्य उपयोगः कृतः । नर्मदायोजनया गुजरातराज्यस्य कियान् लाभः भविष्यतीत्यस्य परिकल्पना तस्मात् अधिकं न कस्यापि मनसि आसीत् । अतः गुजरात-महाराष्ट्र-मध्यप्रदेश-राज्यानां मुख्यमन्त्रिभिः सह नर्मदायोजनायाः चर्चां सर्वदा भाईकाका एव करोति स्म । प्रधानमन्त्रिणा इन्दिरा गान्धी इत्यनया सह अपि नर्मदायोजनायाः विषये सः चर्चाम् अकरोत् । ततः केन्द्रसर्वकारेण रचितस्य खोसला-समितेः सम्मुखम् अपि भाईकाका स्वविषयम् उपास्थापयत् । तस्य तीव्रतर्कान् ज्ञात्वा सर्वेषां मनसि नर्मदायोजनायाः कृते पवित्रभावः समुद्भूतः । शनैः शनैः सर्वैः भाईकाका इत्यस्य समर्थनं कृतम् । भाईकाका इत्यस्य अविरतपरिश्रमस्य पश्चादपि तस्य जीवनकाले नर्मदायोजनायाः कार्यं पूर्णं नाभवत् । यतो हि राजनीत्यां तु स्वस्वार्थपूर्त्यै एव समाजसेवायाः कार्याणि भवन्ति । राजनीतिक्षेत्रस्य निष्ठुरगुप्तकारणत्वात् तस्य जीवनस्य बृहत्स्वप्नं पूर्णं नाभवत्, परन्तु सः निराशः न भूत्वा स्वशेषजीवनं वल्लभ विद्यानगर नामकस्य नगरस्य विकासाय अयच्छत् ।

नर्मदायोजनायाः विलम्बस्य कारणानि[सम्पादयतु]

२०१४ तमे वर्षे भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदी इत्यनेन पदस्वीकारात् अष्टादश(१८)दिनानन्तरं नर्मदायोजनायाः कार्यं शीघ्रातिशीघ्रं समापनीयम् इति आदेशः दत्तः । परन्तु यः आदेशः अष्टादशदिनानन्तरम् अभवत्, ततः पूर्वम् अस्माकं देशे तत्कार्यार्थं पञ्चत्रिंशत् (५३) वर्षाणि कथमभवन् इति प्रश्नः जनसामान्यानां मनसि वर्तते ।

सरदार-सरोवरजलबन्धसदृशस्य जलबन्धस्य निर्माणं अमेरिका-देशे दशवर्षेषु पूर्णम् अभवत् । सरदार-सरोवर-जलबन्धात् किञ्चित् बृहज्जलबन्धस्य निर्माणं चीन-देशे पञ्चदशवर्षेषु पूर्णमभवत् । परन्तु भारतस्य जनविरोधिराजनीतेः कारणत्वात् लोकसेवायाः एका परियोजना पञ्चत्रिंशत् वर्षानन्तरमपि पूर्णा न अभवत् ।

जलबन्धकार्ये विलम्बस्य मुख्यकारणेषु जलबन्धस्य नाम अपि परिगण्यते । यतो हि अस्य जलबन्धस्य नाम लोहपुरुषस्य नाम्ना सरदार वल्लभभाई पटेल-जलबन्धः इति स्थापितम् अस्ति । लोहपुरुषस्य जलबन्धनामत्वात् नेहरू इत्यस्य रुचिः जलबन्धनिर्माणे नासीत् इति राजनीतिक्षेत्रस्य ज्ञातारः वदन्ति । ततः तस्यानुगामिनः सर्वेऽपि कॉङ्ग्रेस्-पक्षस्य नेतारः नर्मदायोजनायां स्वरुचिं न प्रादर्शयन् । एवं १९६१ तमे वर्षे यस्याः योजनायाः शिलान्यासः अभवत्, तस्याः कार्यारम्भः तु १९९१ तमे वर्षे अभवत् अर्थात् शिलान्यासानन्तरं त्रिंशत् वर्षपश्चात् योजनायाः कार्यस्य आरम्भः अभवत् ।

राजनीतिक्षेत्रस्य पीडया ग्रस्ता एषा परियोजना त्रिंशत् (३०) वर्षानन्तरं १९९१ तमे वर्षे आरब्धा । परन्तु नर्मदायोजनायाः कार्यारम्भात् प्राक् १९८६ तमे वर्षे एव नर्मदारक्षणान्दोलनस्य (નર્મદા બચાવો આન્દોલન/नर्मदा बचाव आन्दोलन) आरम्भः जातः आसीत् । नर्मदायोजना पूर्णा न भवेत् इति तस्य आन्दोनलस्य उद्देशः आसीत् । तत् आन्दोलनमपि नर्मदायोजनायाः विलम्बस्य कारणत्वेन परिगण्यते । नर्मदारक्षणान्दोलनस्य मुख्यव्यक्तिः मेधा पाटकर आसीत् । सा गुजरातराज्यस्य ग्रामजनान्, मध्यप्रदेशराज्यस्य ग्रामजनान् च योजनायाः विरोधाय प्रेरयति स्म । प्रारम्भे तस्याः स्वार्थप्रेरितस्य आन्दोलनस्य जनसामान्यैः समर्थनं कृतं, परन्तु कालान्तरे देशहिताय जनैः तस्यान्दोलनस्य विरोधः अपि कृतः । आन्दोलनस्य मूले स्वार्थः आसीत्, अतः आन्दोलनं सफलं नाभूत् । परन्तु आन्दोलनस्य प्रारम्भिके काले जनविरोधेन नर्मदायोजनायाः निर्माणस्य अमूल्यकालः व्यर्थः अभवत् ।

नर्मदायोजनायाः कार्यारम्भात् प्राक् एकः अन्यः विघ्नः समुत्पन्नः । पूर्वं भरुचमण्डलस्य गोरागाम-ग्रामस्य समीपं जलबन्धनिर्माणाय यत् स्थानं सर्वकारेण निश्चितम् आसीत्, तत् स्थलं जलबन्धनिर्माणयोग्यं नासीत् । अतः अभियन्तारः अन्यस्य स्थलस्य अन्वेषणं प्रारभन्त । अविरतान्वेषणानन्तरं गुजरातराज्यस्य भरुचमण्डलस्य नवागाम-ग्रामस्य समीपं सरदार-सरोवरजलबन्धाय योग्यं स्थानम् अभियन्तृभिः प्राप्तम् । एतदपि नर्मदायोजनायाः विलम्बस्य अन्यतमं कारणम् ।

२०१२ तमे वर्षे नर्मदा कण्ट्रोल् अथॉरिटि इत्यनया संस्थया सरदार-सरोवरजलबन्धस्य उपरि द्वारस्थापनस्य प्रस्तावः सिद्धः कृतः आसीत् । परन्तु वर्षद्वयं यावत् सः प्रस्तावः केन्द्रसर्वकारेण न स्वीकृतः । राज्यसर्वकारस्य, केन्द्रसर्वकारस्य च अन्तःकलहस्य कारणेनापि जलबन्धस्य कार्ये विलम्बः अभवत् । ततः प्रधानमन्त्रित्वेन पदारोहणस्य पश्चात् नरेन्द्र मोदी इत्यनेन अष्टादशदिनेषु प्रस्तावाय अनुमितिः प्रदत्ता ।

नर्मदायोजनायाः प्रारूपम्[सम्पादयतु]

नर्मदानद्याः उद्गमस्थानं तु मध्यप्रदेशराज्यस्य अमरकण्टक-पत्तनम् । अतः नर्मदा मध्यप्रदेशीया नदी । परन्तु गुजरातराज्यं प्रति नद्याः प्रवाहत्वात् गुजरातराज्यम् अपि नर्मदायाः जलं गच्छति । नर्मदानद्याः प्रवाहः महाराष्ट्रराज्ये अपि अस्ति । परन्तु तस्य राज्यस्य सीमायां नर्मदायाः स्वल्पभागः एव अस्ति । अतः एतस्याः योजनायाः मुख्यलाभं मध्यप्रदेश-महाराष्ट्र-गुजरातराज्यानां नागरिकाः प्राप्स्यन्ति । गुजरातराज्यस्य समीपवर्तिराज्यत्वात् राजस्थानराज्यमपि एतस्याः योजनायाः लाभं प्राप्स्यति ।

नर्मदायोजना विश्वस्य बृहत्तमासु योजनासु अन्यतमा अस्ति । तस्याः योजनायाः निदेशनं नर्मदा कण्ट्रोल् अथॉरिटि इत्याख्या संस्था करोति । तस्यां संस्थायां मध्यप्रदेश-महाराष्ट्र-गुजरात-राजस्थानराज्यानां प्रतिनिधयः भवन्ति । चर्चानन्तरं सर्वेषां सम्मत्यानुसारं निर्णयाः भवन्ति ।

नर्मदायोजनान्तर्गतौ द्वौ बृह्त्सेतू भविष्यतः । तयोः नामनी क्रमेण सरदार-सरोवरसेतुः, इन्दिरा गान्धी-सेतुः । नर्मदायोजनान्तर्गतानां पञ्चदश मध्यमस्तरसेतूनां निर्माणं भविष्यति । एतस्याः योजनायाः भागरूपेणैव त्रिसहस्राधिक-त्रिशताधिकानां (३३००) लघुसेतूनां निर्माणमपि भविष्यति । जलबन्धस्य निर्माणमपि एतस्याः योजनानन्तर्गतमेव ।

जलबन्धस्य विस्तारः, जलस्तरश्च[सम्पादयतु]

सरदार-सरोवरजलबन्धस्य जलसञ्चयक्षमता प्रतिक्षणं ३०.७ घनपादम् (cubic feet per second) अस्ति, या विश्वस्य सर्वाधिका जलसञ्चयक्षमता अस्ति । मुख्यनियामकस्य (Regulator) जलसञ्चयक्षमता प्रतिक्षणं ४०,००० घनपादं, विस्तारश्च ५३२ कि.मी. अस्ति । भारतस्य बृहत्तमेषु जलबन्धेषु तृतीयः जलबन्धः एषः । एतस्य जलबन्धस्य औन्नत्यं १६३ मी. भविष्यति । नर्मदायाः मुख्यकुल्या (main canal) विश्वस्य बृहत्तमा कृषिक्षेत्रसिञ्चनकुल्या अस्ति ।

जलबन्धस्य विस्तारः ३७,००० ‘हेक्टेर्’ अस्ति । सः २१४ कि.मी. लम्बमानः, १.७७ कि.मी. विस्तृतः अस्ति । जलबन्धस्य सामान्यजलस्तरः १३८.६८ मी. निर्धारितः । अधिकतमः जलस्तरः १४०.२१ मी., नूनातिनूनः जलस्तरश्च ११०.६४ निर्धारितः । जलबन्धस्य नूनातिनूनस्तरात् अपि यदि जलस्तरः अधः नेयः, तर्हि २५.९१ मी. जलं तु जलबन्धे अनिवार्येण भवेदेव इति नियमः ।

नर्मदायोजनायाः अनुमानितव्ययः[सम्पादयतु]

१९६१ तमे वर्षे यदा प्रप्रथमवारं नर्मदायोजनायाः प्रस्तावः अभवत्, तदा ३०० कोटिरूप्यकाणि प्रारम्भिकव्ययः इति अनुमानितम् आसीत् । केन्द्र-राज्यसर्वकारयोः उदासीनतायाः कारणेन भाईकाका अन्यरीत्या धनसङ्ग्रहस्य मार्गविषये अचिन्तयत् । अविरतप्रयासानन्तरमपि यदा धनसङ्ग्रहस्य मार्गः तेन न प्राप्तः, तदा सः अन्तिमनिर्णयत्वेन समाजात् धनं स्वीकर्तुम् अचिन्तयत् । “१०० कोटिरूप्यकाणि गुजरातराज्यस्य कृषकेभ्यः, १०० कोटि रूप्यकाणि उद्योगपतिभ्यः, १०० कोटिरूप्यकाणि ऋणदातृसंस्थाभ्यश्च स्वीकृत्य प्रकल्पं पूर्णं करिष्यामः” इति तस्य आयोजनम् आसीत् । परन्तु सर्वकारेण तस्य मतस्य प्रत्यक्षाप्रत्यक्षरीत्या खण्डनं कृतम् । अतः योजनायाः कृते धनसङ्ग्रहः नाभवत् । ततः योजनायाः विषये अधिकचिन्तनमपि नाभवत् ।

कालान्तरे यदा यदा योजनायाः अनुमानितव्यये वृद्धिः भवति स्म, तदा तदा वर्धन्तं अनुमानितव्ययं पश्यन्तः सर्वे तूष्णीं तिष्ठन्ति स्म । १९८६ तमे वर्षे योजनायाः प्रारम्भिकव्ययः ६,४०६ कोटिरूप्यकाणि इति अनुमानितम् । २००० तमे वर्षे प्रारम्भिकव्यये वृद्धौ सत्यां अनुमानितव्ययः २८,००० कोटिरूप्यकाणि अभवत् । २०१० तमे वर्षे ३९,००० कोटिरूप्यकाणि योजनायाः व्ययः भविष्यति इति अनुमानितम् आसीत् । परन्तु २०१५ तमे वर्षे नर्मदायोजना पूर्णा भविष्यति इत्यनया उद्घोणया सह योजनायाः व्ययः ४५,५०० कोटिरूप्यकाणि भविष्यति इति अनुमानितम् अस्ति ।

वीक्षणीयस्थलत्वेन सरदारसरोवरजलबन्धः[सम्पादयतु]

केवडिया कॉलनि इति जलबन्धस्य स्थानिकनाम अस्ति । जलबन्धस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । तानि वीक्षणीयानि स्थलानि द्रष्टुं चीटिकायाः (ticket) आवश्यकता भवति । ८:३० तः १७:३० पर्यन्तं यात्रिकेभ्यः जलबन्धदर्शनार्थं व्यवस्थापकैः कालः निर्धारितः । यात्रिकेभ्यः मार्गदर्शनं, चीटिकाप्राप्तिः, पथप्रदर्शकः (guide) इत्यादिव्यवस्थाः जलबन्धप्रशासनस्य मुख्यकार्यालये भवन्ति । जलबन्धात् यस्मिन् स्थले जलं पतति, तस्य स्थलस्य पुर एव अतिरमणीयम् उद्यानम् अस्ति । तत् उद्यानं यात्रिकाणाम् आकर्षणकेन्द्रमस्ति । तस्मात् जलबन्धात् दुग्धवत् पतत् जलं उद्यानस्य वातावरणं सुरम्यं करोति । तत् पतज्जलं प्रकृत्याः अलौकिकतायाः, मानवस्य विकासशीलतायाः च प्रतीकत्वेन यात्रिकाणां ध्यानम् आकर्षयति । तत्र एकः तडागः अपि अस्ति । तस्मिन् तडागे नौकाविहारस्य व्यवस्था अस्ति । अतः तत्स्थलमपि यूनां, बालकानां च कृते मनोरञ्जनस्य केन्द्रम् अस्ति । विद्यार्थिभ्यः प्रकृतिशिक्षणस्य शिबिराणि अपि जलबन्धस्य समीपं सन्ति । विद्यार्थिभ्यः वनभ्रमणमाध्यमेन प्रकृतिशिक्षणं प्राप्तुं तत् उत्तमस्थिलमस्ति ।

प्रकृत्याः अलौकिकशान्ते वातावरणे भगवतः नाम भक्ताय हृदयाह्लादं यच्छति । अतः केचन प्रवासिनः तु शिवदर्शनाय अपि तत्र गच्छन्ति । तत्र सुरपाणेश्वरनामकं प्राचीनं शिवमन्दिरं जलबन्धस्य पृष्ठभागे अस्ति । जलबन्धस्य ध्वन्यां, हरितवृक्षैः आच्छादनयुक्तवातावरणे शिवमन्दिरस्य आभा देदीप्यते ।

कृषकाः, नदीतटवर्तिजनाः, अभियन्तारः, विद्युतः उत्पादकाः, कर्मकराः, श्रमजीविनः, संशोधकाः, पर्यावरणप्रेमिणः, पर्यटकाः, विद्यार्थिनः, भक्तारः, नेतारः सर्वे सरदार-सरोवरजलबन्धस्य लाभार्थिनः सन्ति । एतादृशस्य रमणीयस्थलस्य दर्शनं कृत्वा भवता अपि लाभान्वितं भवितव्यम् ।

[[File: |1100px|alt=|
सरदारसरोवरजलबन्धस्य एकं हृदयारामं दृश्यम्]]
सरदारसरोवरजलबन्धस्य एकं हृदयारामं दृश्यम्

मार्गाः[सम्पादयतु]

नर्मदानदी गुजरातराज्यस्य नर्मदामण्डले प्रवहन्ती भरुचमण्डलस्य समीपवर्तिसमुद्रे लीना भवति । अतः तत्र गन्तुं बहवः मार्गाः सन्ति । सर्वेषु मार्गेषु अनेकानि वीक्षणीयस्थलानि, धार्मिकस्थलानि च सन्ति ।

वायुमार्गः[सम्पादयतु]

सरदार-सरोवरजलबन्धात् कर्णावती-महानगरस्य अन्ताराष्ट्रियविमानस्थानकं २०० कि.मी., वडोदरा-महानगरस्य राष्ट्रियविमानस्थानकं ९० कि.मी. दूरमस्ति ।

भूमार्गः[सम्पादयतु]

सरदारसरोवरजलबन्धः अहमदाबाद-महानगरात् २०० कि.मी., वडोदरा-महानगरात् ९० कि.मी., भरुच-नगरात् ९० कि.मी. दूरम् अस्ति । उक्तमहानगरेभ्यः, राजपीपळा-पत्तनात् , चाणोद-ग्रामत्, डभोई-ग्रामात् अपि सरदार-सरोवरजलबन्धं प्राप्तुं बस्-यानानि लभ्यन्ते ।

रेलमार्गः[सम्पादयतु]

भारतस्य विभिन्नेभ्यः नगरेभ्यः भरुच-नगराय रेलयानानि सन्ति । ततः भूमार्गेण सरदारसरोवरजलबन्धं प्राप्तुं शक्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

सरदार वल्लभभाई पटेल

जवाहरलाल नेहरु

नरेन्द्र मोदी

नर्मदानदी

एकतामूर्तिः

बाह्यानुबन्धः[सम्पादयतु]

  1. "Pumped-Storage Hydroelectric Plants - Asia-Pacific". IndustCards. Retrieved 20 January 2012. 
"http://sa.wikipedia.org/w/index.php?title=सरदारसरोवरजलबन्धः&oldid=284932" इत्यस्माद् पुनः प्राप्तिः