सरस्वतीकण्ठाभरणविद्यापीठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सरस्वतीकण्ठाभरणविद्यापीठम्
अढाइ दिन का झोपडा
अन्तस्तात् एतत् 'मस्जिद्' मन्दिरवत् दरीदृश्यते[१]
सरस्वतीकण्ठाभरणविद्यापीठम् is located in India
सरस्वतीकण्ठाभरणविद्यापीठम्
Shown within India
अवस्थानम् अजमेर, राजस्थानम्
प्रदेशः भारतम्
भू-निर्देशाङ्काः २६°२७′१५″उत्तरदिक् ७४°३७′२७″पूर्वदिक् / 26.4541489°उत्तरदिक् 74.6242793°पूर्वदिक् / २६.४५४१४८९; ७४.६२४२७९३
प्रकारः विद्यापीठम्
इतिहासः
निर्माता(रः) विग्रहराज चौहान
निर्मितः विग्रहराजस्य शासनकाले
परित्यक्तः ११९२ तमे वर्षे
विशेषघटनाः
  • ११९२ तमे वर्षे नरायन-आख्यस्य राज्ञः पराजयानन्तरं तुर्क-जनानां राक्षसतायाः (हैवानीयत)[२] परिणामेन विद्यापीठं नष्टम् अभवत् ।
  • एकादश्यां शताब्द्यां पञ्जाब-प्रदेशात् पञ्जाब शाह पीर इति विस्थापितो भूत्वा अजमेर गतः । तस्य मरणोपरान्तं तस्य विद्यापीठस्य पूर्णरीत्या 'मस्जिद्' इत्यस्मिन् परिवर्तनम् अभवत् ।
  • १८६५ तमे वर्षे जनरल् कनिङ्घम् आख्यः पुरातत्ववेत्ता 'ढाई दिन का झोपडा' इत्यस्य प्राङ्गणे उत्खननम् अकारयत् ।
  • उत्खननकाले ततः अनेके शिलालेखाः प्राप्ताः ।
स्थलवैशिष्ट्यम्
खननदिनाङ्काः १८६५ तमे वर्षे[३]

सरस्वतीकण्ठाभरणविद्यापीठम् ( /ˈsɑːrəsvətkənthɑːbhərənəvɪdjɑːpthəm/) (हिन्दी: सरस्वती कण्ठाभरण विद्यापीठ, आङ्ग्ल: Sarswati Kanthabharan Vidyapith) आदिकालात् अजमेर-प्रदेशे स्थितम् अस्ति । एतस्य विद्यापीठस्य निर्माणं चौहाणवंशीयराजा विग्रहराजः अकारयत् । एतस्मिन् विद्यापीठे एव पृथ्वीराजतृतीयः (पृथ्वीराज चौहान) अध्ययनम् अकरोत् । शिल्पकलायां प्रवीणः सः स्वराज्ये शिल्पकलायाः पठनपाठनाय एतस्य विद्यापीठस्य स्थापनाम् अकरोत् । अधुना एतस्य नाम 'अढाई दिन का झोपडा' इति अस्ति । एतस्य पृष्ठे मान्यता अस्ति यत्, एतस्य विद्यापीठस्य विध्वंसं तुर्क-जनाः एकस्मिन् दिने उत दिनद्वये कर्तुं न शक्तवन्तः, अपि तु एतस्य विध्वंसे सार्धद्विदिनस्य कालः अभवत् । अतः एतस्य विद्यापीठस्य स्थाने स्थापितस्य 'मस्जिद्' इत्यस्य नाम 'अढाई दिन का झोपडा' इति अस्ति [४] [५] । 'अढाई दिन का झोपडा' इत्यस्य नाम्नः पृष्ठे अन्याः अपि किंवदन्त्यः श्रूयन्ते । सुप्रसिद्धस्य एतस्य विद्यापीठस्य ध्वंसः तुर्क-देशीयैः यवनैः कृतः । यतो हि एतत् 'मस्जिद्'-विशेषं मन्दिरस्य, विद्यापीठस्य च ध्वसानन्तरं तयोः अवशेषेभ्यः निर्मितम् अस्ति, अतः अन्तस्तात् एतस्य 'मस्जिद्' इत्यस्य स्थापत्यं मन्दिरवत् दरीदृश्यते ।

इतिहासः[सम्पादयतु]

विग्रहराजेन स्थापितस्य संस्कृतविद्यापीठस्य नाम सरस्वतीकण्ठाभरणविद्यापीठम् आसीत् । तस्मिन् विद्यापीठे पुरातत्त्वस्य, वास्तुशिल्पस्य च अध्ययनम्, अध्यापनं च भवति स्म । आभारतं तस्य विद्यापीठस्य प्रसिद्धिः आसीत् । ११९२ तमे वर्षे नरायन-आख्यस्य राज्ञः पराजयानन्तरं तुर्क-जनानां राक्षसतायाः (हैवानीयत)[२] परिणामेन विद्यापीठं नष्टम् अभवत् । ततः तस्य मन्दिरस्य अवशेषेभ्यः एव 'मस्जिद्' इत्यस्य निर्माणं कारितवन्तः ते।

द्वादशशताब्दीतः अष्टादशशताब्दीपर्यन्तं केवलं 'मस्जिद्' इति जनाः तत् विद्यापीठम् आह्वयन्ति स्म । एकादश्यां शताब्द्याम् अजमेर-प्रदेशे मराठावंशीयानाम् आधिपत्यम् आसीत् । तस्मिन्नेव काले पञ्जाब-प्रदेशात् विस्थापितो भूत्वा एकः दरिद्रः (फकीर) सरस्वतीकण्ठाभरणविद्यापीठे न्यवसत् । सः दरिद्रः पञ्जाब शाह पीर इति प्रसिद्धः आसीत् । तस्य मरणोत्तरं विद्यापीठस्य पूर्णरीत्या 'मस्जिद्'-रूपेण परिवर्तनम् अभवत् । तस्य दरिद्रस्य स्मरणे अन्ये दरिद्राः प्रतिवर्षं तत्र सार्धद्विदिनात्मकं सम्मेलनं कुर्वन्ति । अतः तस्य विद्यापीठस्य नाम 'मस्जिद्' इत्यस्यानन्तरं 'ढाई दिन का झोपडा' इति अभवत् ।

नष्टविद्यापीठस्य अवशेषेभ्यः 'मस्जिद्' इत्यस्य निर्माणस्य आरम्भिकं कार्यं कुत्बुद्दीन् ऐबक्-आख्यः आक्रान्ता अकारयत् । परन्तु १२१३ ई. मध्ये अल्तमश इत्यस्य काले निर्माणकार्यं पूर्णम् अभवत् । तस्मात् स्थानात् प्राप्तेन एकेन फारसी-शीलेखेन ज्ञायते यत्, हिरात् ५९६ इत्यस्मिन् 'मस्जिद्' इत्यस्य कार्यं पूर्णम् अभवत् । [६]

सरस्वतीकण्ठाभरणविद्यापीठस्य प्राङ्गणे अद्यापि चौहानवंशस्य मूल्यवन्तः अवशेषाः भूगर्भिताः सन्ति । १८६५ तमे वर्षे जनरल् कनिङ्घम् आख्यः पुरातत्ववेत्ता 'ढाई दिन का झोपडा' इत्यस्य प्राङ्गणे उत्खननम् अकारयत् । उत्खननकाले ततः अनेके शिलालेखाः प्राप्ताः । परन्तु आक्रान्तॄणां प्रहारैः जीर्णाः ते शिलालेखाः अनेकेषु विभागेषु विभक्ताः आसन् । तेषां विभागानां सङ्गटनं कृत्वा चतुर्णां पूर्णशिलालेखानां निर्माणम् अपि अभवत् । संस्कृतज्ञेभ्यः, पुरातत्वविद्भ्यश्च ते शिलालेखाः महत्त्वपूर्णाः सन्ति । तेषु चतुर्षु शिलालेखेषु द्वयोः संस्कृत-प्राकृत-भाषयोः अज्ञातनाटकयोः अंशाः अङ्किताः सन्ति । अन्यद्वयोः एकस्मिन् विग्रहराजस्य राजकविना सोमदेवन रचितः "ललितविग्रहराजः" ग्रन्थः अङ्कितः अस्ति । चतुर्थे शिलालेखे विग्रहराजद्वारा शिवमहाराजस्य (छत्रपति शिवाजी) प्रशंसायां रचितः "हरिकेलि"-आख्यः ग्रन्थः अङ्कितः अस्ति । चौहाणप्रशस्तिः इत्याख्यस्य ग्रन्थस्यापि अवशेषाः ततः प्राप्ताः [७] । ललितविग्रहराजः, हरिकेलि-नाटकम् इत्यन्योः ग्रन्थयोः शिलायाम् उत्कीणस्य कार्यं भास्कर-आख्यः शिल्पी अकरोत् [८]

ललितविग्रहराजः[सम्पादयतु]

सोमदेवकृतः ललितविग्रहराजः ग्रन्थः विग्रहराजस्य यशोगाथा अस्ति । सरस्वतीकण्ठाभरणविद्यापीठस्य प्राङ्गणात् ये शिले प्राप्ते, तयोः एकस्यां ३८ पक्तयः, द्वितीयायां ३७ पङ्क्तयः सन्ति । प्रथमशिलायाः चत्वारः विभागाः, द्वितीयशिलायाः नव विभागाः च आसन् । प्रत्येकस्य विभागस्य काष्ठस्य चतुरङ्गे क्रोडीकरणेन सम्पूर्णस्य शिलायाः रक्षणं चिरकालस्य कृते अभवत् । कुत्रचित् कानिचन अक्षराणि अपि खण्डितानि सन्ति, परन्तु शिल्पकारस्य अद्भुतलेखनपद्धत्या शुद्धाक्षराणां ज्ञानं बहुधा भवति ।

महीपतेः विद्वान् पुत्रः भास्करः स्वयं ध्यानेन अक्षराणि व्यलिखत् । नाटकस्य संस्कृतभाषा अतिसरला अपि अस्ति । तस्मिन् शिलालेखे शार्दूलविक्रीडितः, वसन्ततिलका, अनुष्टप्, स्रग्धरा, आर्या, मन्द्रक्रान्ता इत्यादीनि छन्दांसि सन्ति । प्राकृतभाषायाः अपि बाहुल्येन प्रयोगः कृतः अस्ति । डॉ. पिशेल आख्यस्य इतिहासविदः मतम् अस्ति यत्, ललितविग्रहराजनाटकेऽस्मिन् हेमचन्द्राचार्यस्य व्याकरणनियमानाम् आधिक्येन अनुसरणम् अभवत् [९] । विग्रहराजेन स्थापिते सरस्वतीकण्ठाभरणविद्यापीठे ललितविग्रहराजस्य उत्कीणतायाः कार्यं पूर्णम् अभवत् । ततः तस्मिन् विद्यापीठे एव सोमदेवकृतः सः ग्रन्थः प्रस्थापितः आसीत् । इत्यनेन सिद्धं भवति यत्, ललितविग्रहराजस्य नाटकं सत्यार्थोपस्थापनात्मिका कृतिः अस्ति । तस्मिन् नाटके घटितानां घटनानां वर्णनम् ऐतिहासिकसाहित्यस्रोतस्त्वेन ललितविग्रहराजनाटकस्य महत्त्वं वर्धयति ।

हरकेलि[सम्पादयतु]

सरस्वतीकण्ठाभरणविद्यापीठस्य प्राङ्गणे उत्खननकाले द्वे शिले प्राप्ते । तयोः प्रथमशिलायां लिङ्गोद्भव-आख्यस्य द्वितीयाङ्कस्य उत्तरार्धः, तृतीयाङ्कस्य पूर्वार्धश्च उत्कीर्णः अस्ति । प्रथमाङ्कस्य शिला इतोऽपि न प्राप्ता । एकस्यां शिलायां क्रौञ्चवधम् इत्याख्यस्य पञ्चमाङ्कस्य अङ्कनम् अस्ति । अनेन इतिहासविदां मतम् अस्ति यत्, सम्पूर्णनाटकस्य विभाजनं चतुर्षु उत पञ्चसु भागेषु भवेत् । द्वितीयशिलायां यत्र अङ्कस्य समाप्तिः भवति, तत्र अङ्कसमाप्तौ रचयितृत्वेन विग्रहराजस्य नाम अङ्कितम् अस्ति[१०]

१२१० विक्रमसंवत्सरस्य माघमासस्य शुक्लपक्षस्य पञ्चमम्यां (५/२/१२१०) तिथौ रविवासरे हरिकेलि-नाटकं पूर्णम् अभवत् ।

भोजराजस्य विद्यापीठेन सह तुलना[सम्पादयतु]

यादृशी स्थितिः विग्रहराजेन स्थापितस्य सरस्वतीकण्ठाभरणविद्यापीठस्य अस्ति, तादृशी स्थितिः भाजराजेन (ई. १०१५-१०५५) स्थापितस्य सरस्वतीकण्ठाभरणविद्यापीठस्य अस्ति । उभयोः विद्यापीठयोः नामनी समाने स्तः । उभयोः स्थितिः अपि समाना अस्ति । उभयोः विद्यापीठयोः स्थाने सद्यः 'मस्जिद्' अस्ति । विग्रहराजेन स्थापितस्य सरस्वतीकण्ठाभरणविद्यापीठस्य नाम 'अढाई दिन का झोपडा', भोजराजेन स्थापितस्य सरस्वतीकण्ठाभरणविद्यापीठस्य नाम 'कमल मौला' च अस्ति ।

उभयोः स्थानयोः उत्खननेन संस्कृतसाहित्यस्य शिलालेखाः प्राप्ताः । यथा 'अढाई दिन का झोपडा' इत्यस्मात् स्थानात् सोमदेवस्य, विग्रहराजस्य कृतयः प्राप्ताः, तथैव 'कमल मौला' इत्यस्मात् स्थानात् भोजराजस्य अनेकाः कृतयः प्राप्ताः । 'अढाई दिन का झोपडा' इत्यस्मात् स्थानात् ललिकविग्रहराजः, हरिकेलि-नाटकं, चौहानप्रशस्तिः इत्यादयः शिलालेखाः प्राप्ताः । 'कमल मौला' इत्यस्मात् स्थानकात् कूर्मशतं, पारिजातमञ्जरी इत्यादीनां शिलालेखाः प्राप्ताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

विग्रहराजः

चौहानवंशः

हिन्दुधर्मः

संस्कृतसाहित्यम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://panchjanya.com/arch/2001/4/22/File18.htm Archived २०१२-१०-२७ at the Wayback Machine

http://hindi.nativeplanet.com/ajmer/attractions/adhai-din-ka-jhopra/

उद्धरणम्[सम्पादयतु]

  1. एपिग्राफिया इण्डिका, मुस्लोमिका, ई. १९११-१२, ई. डेनिसन् रास्,
  2. २.० २.१ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६२. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  3. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. 63. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  4. J.L. Mehta. Medieval Indian Society And Culture 3. Sterling. p. 175. ISBN 978-81-207-0432-9. "...Adhai din ko Jhompra at Ajmer were built by him out of the material of demolished Hindu temples...the masjid at Ajmer was erected on the ruins of a Sanskrit college" 
  5. सार्धद्विदिनेषु संस्कृतमहाविद्यालयस्य विनाशः
  6. एपिग्राफिया इण्डिका, मुस्लोमिका, ई. १९११-१२, ई. डेनिसन् रास्, पृ. १५
  7. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ७१. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  8. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६९. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  9. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६४. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  10. "इति महाराजाधिराज विग्रहराज देव कवि विरचिते" इति शिलालेखे अङ्कितम् अस्ति।

अधिकवाचनाय[सम्पादयतु]

मन्दिरस्य स्थाने मस्जिद्