सरस्वती देवी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सरस्वती
विद्या, कला
विद्या, कला
देवनागरी सरस्वती, शारदा, वीणावादिनी, वाग्देवी
शक्तिविशेषः सनातनदेवी
निवासः सत्यलोकः
मन्त्रः ॐ सरस्वत्यै नमः
अस्त्रम् वीणा, जपमाला
सहधर्मी ब्रह्मा
वाहनम् हंसः, मयूरः
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ऋग्वेदे उल्लिखिता काचित् नदी एषा । सरः(जलम्) अस्त्यस्याः इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या वाक् उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि शारदा, वागीश्वरी, ब्राह्मी, महाविद्या इत्यादीनि । सृष्टिकर्तुः ब्रह्मणः पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।

ज्ञानदात्री[सम्पादयतु]

एषा देवी सर्वस्य ज्ञानस्य, कलानां, विज्ञानस्य च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं हंसः मयूरश्च । चित्रेण पिच्छकलापेन मयूरः विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव मोक्षः इति वदतीव । परमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘ज्ञानमार्गः’भक्तिमार्गः’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः ।

आराधनफलम्[सम्पादयतु]

नवरात्रोत्सवे आदौ दिनत्रयं दुर्गापूजा भवति । अनन्तरं दिनत्रयं यावत् लक्ष्मीपूजा भवति । अन्ते दिनत्रयं देव्याः सरस्वत्याः पूजा भवति । दुर्गापूजया दुर्गुणान् जित्वा लक्ष्मीपूजया च शमदमक्षमावात्सल्यादीन् अन्तस्सत्त्वगुणान् प्राप्य अन्ते शुद्धेन मनसा सरस्वतीं संपूज्य आत्मज्ञानं प्राप्नोति मनुष्यः । दशमे दिने अहङ्कारस्य प्रतिकृतेः दहनेन सह उत्सवः समाप्तिम् एष्यति । तदैव च विद्यारम्भः च भवति । मन्दबुद्धीनां सरस्वत्याः तत्त्वानि अधिकहितकराणि भवन्ति । बौद्धिकक्षमतायाः विकासनार्थं चित्तस्य चञ्चलतां दूरयितुं सरस्वतीसाधना विशेषतया प्रयोजनकारिणी वर्तते । मस्तिष्कतन्त्रसम्बद्धेषु अनिद्रा, शिरोवेदना, आयासः, पीनसः इत्यादिषु रोगेषु सरस्वतीसाधना प्रभावशालिनी भवति । चिन्तनशक्तेः अभावः, निर्णये द्वैविध्यम्, विस्मरणम्, दीर्घसूत्रता, सर्वविषयेषु अरुचिः, इत्यादीनि शमयितुम् अपि सरस्वत्याः आराधनम् आवश्यकं भवति । शिक्षायाः विषये जनमानसेषु अधिकोत्साहं जागरयितुम्, अध्यात्मिकस्वाध्यायस्य गम्भीरतायाः ज्ञापनार्थं सरस्वत्याः पुजनं भवति । धनार्जनस् , बलवर्धनस्य, साधनसङ्ग्रहस्य, आमोदप्रमोदस्य, च अपेक्षया बुद्धिशक्तिः अमूल्यं सम्पत् ।

स्वरूपम्[सम्पादयतु]

सरस्वत्याः एकं मुखं चत्वारः बाहवः सन्ति । हस्तद्वये वीणा कलात्मकतायाः सञ्चारस्य च प्रतीका । एकेन हस्तेन ज्ञानस्य प्रतीकं पुस्तकं धरति । अपरेण हस्तेन ई शनिष्ठायाः सात्त्विकतायाः च प्रतीकाम् अक्षमालां धरति । सौन्दर्यस्य मधुरस्वरस्य च प्रतीकः मयूरः अस्याः वाहनम् । सनातनधर्मानुयायिनः सर्वे अध्ययनस्य आरम्भात् पूर्वं सर्वस्वत्याः पजां कुर्वन्ति ।

सरस्वतीस्तोत्राणि[सम्पादयतु]

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥1॥
शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं
वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌।
हस्ते स्फटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌॥2॥
"http://sa.wikipedia.org/w/index.php?title=सरस्वती_देवी&oldid=278693" इत्यस्माद् पुनः प्राप्तिः