सर् जेम्स् सिम्सन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एडिन्बर्ग्-नगरे उद्याने विद्यमानः सर् जेम्स् सिम्प्सनस्य विग्रहः

(कालः – ०७.०६.१८११ तः ०६.०५.१८७०) अयं (SIR JAMES YOUNG SIMPSON) प्रसवावसरे निश्चेतन-औषधस्य प्रयोगं प्रथमवारम् अकरोत् । अयं स्काट्लेण्ड्देशस्य एडिन्बरोसमीपस्थे कस्मिंश्चित् ग्रामे १८११तमे वर्षे जून्मासस्य सप्तमे दिनाङ्के जन्म प्राप्नोत् । अस्य सर् जेम्स् सिम्प्सनस्य पिता अत्यन्तं निर्धनः, रोटिकायाः आपणस्य चालनं कुर्वन् आसीत् । अयं सर् जेम्स् सिम्प्सन् तस्य पित्रोः सप्तमः पुत्रः आसीत् । बाल्यात् आरभ्य अपि अत्यन्तं बुद्धिमान् सर् जेम्स् सिम्प्सन् १४ वयसि एव एडिनोबरो विश्वविद्यालयं प्रविष्टवान् । २१तमे वयसि वैद्यपदवीं प्राप्नोत् । अध्ययनस्य अन्तिमे वर्षे अनेन प्रतुतं संशोधनालेखनम् एतावत् अद्भुतम् आसीत् यत् तेन तत्क्षणम् एव प्रख्यातस्य प्राध्यापकस्य साहाय्यकरूपेण उद्योगः प्राप्तः ।

सर्वासु अपि परीक्षासु प्रथमश्रेण्याम् एव उत्तीर्णः भवति स्म सर् जेम्स् सिम्प्सन् । बाल्ये तेन दृष्टं किञ्चित् दृश्यं सदा तस्य नेत्रयोः पुरतः नृत्यति स्म । कश्चन बालकः शस्त्रचिकित्सायाः समये वेदनां सोढुम् अश्क्नुवन् उच्चैः आक्रोशति स्म । तदा एव सर् जेम्स् सिम्प्सन् “अहं यदा वैद्यः भवामि तदा एतन्निमित्तं किमपि औषधं संशोधनीयम्” इति चिन्तितवान् आसीत् । वैद्यवृत्तिम् अपि श्रद्धया कुर्वन् बहुशीघ्रं जनप्रियताम् अपि प्राप्नोत् । १८४६तमे वर्षे अमेरिकादेशे निश्चेतनौषधम् उपयुज्यते इति यदा श्रुतवान् तदा अस्माभिः अपि तत् औषधं प्रयोक्तव्यम् इति धिया बहुविधान् प्रयोगान् अकरोत् । एतदर्थं डङ्कन् तथा कील् नामकौ द्वौ सहोद्योगिनौ साहाय्यम् अकुरुताम् । स्वस्य उपरि एव क्लोरोफारं सेचनं कृत्वा सर्वेषु दिग्भ्रान्तिम् अजनयत् । तदनन्तरं वेदनारहितस्य प्रसवस्य सौकर्यम् अकल्पयत् । तेन सर् जेम्स् सिम्प्सन्नेन क्लोरोफारमस्य उपयोगः यः कृतः तदर्थं बहुभ्यः मूलेभ्यः विरोधः प्रकटितः अभवत् । सः तान् सर्वान् अपि विरोधान् समर्थतया सम्मुखीकृतवान् ।

अयं सर् जेम्स् सिम्प्सन् १८५३तमे वर्षे विक्टोरियाराज्ञ्याः आप्तवैद्यरूपेण नियुक्तः अभवत् । तस्याः राज्ञ्याः सप्तमे प्रसवे यशस्वितया क्लोरोफारमस्य उपयोगम् अकरोत् । क्लोरोफारं यदा प्रासादं प्रविष्टं तदनन्तरं तस्य अग्रे गमनम् अतीव सुलभम् अभवत् । तेन कृतस्य संशोधनस्य निमित्तं तस्मै “सर्” पदवी प्रदत्ता । सर् जेम्स् सिम्प्सन् एतावान् प्रसिद्धः अभवत् यत् सः १८७०तमे वर्षे मेमासस्य ६ दिनाङ्के यदा मृतः तदा सम्पूर्णे लण्डन्-नगरे कर्मविरामः घोषितः आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=सर्_जेम्स्_सिम्सन्&oldid=276496" इत्यस्माद् प्रतिप्राप्तम्