सवायी गन्धर्वः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सवयी गन्धर्वः
चित्रम्:Savai gandharva.jpg
व्यैक्तिकतथ्यानि
जन्मनाम रामचन्द्र गणेश कुन्दगोळकर्
मूलतः कुन्दगोळग्रामः, जमखण्डिजनपदः धारवाडमण्डलम्, कर्णाटकराज्यम्, भारतम्
वृत्तिः सङ्गीतज्ञः, गायकः सङ्गीतगुरुः।
वाद्यानि शास्त्रीयगायकः
सक्रियवर्षाणि क्रि.श. १९०५तः क्रि.श.




सवायी गन्धर्वः (Sawai Gandharva) सुप्रसिद्धः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य गायकः आसीत् । भारवर्षस्य कर्णाटकराज्य धारवाडमण्डलस्य हुब्बळ्ळीतः १२क्रोशकदुरे कुन्दगोळः जमखण्डिसंस्थानान्तर्गतः आसीत् । एतस्मिन् स्थाने क्रि.श. १८८६तमवर्षस्य जनवरिमासस्य १९दिनाङ्के सवायी गन्धर्वः अजायत । एतस्य बाल्यनाम "रामचन्द्र गणेशा कुन्दगोळकर्" इति । पिता गणेश रावस्य जन्मस्थानं समीपे विद्यमानः ग्रामः संशि इति । माता धारवाछस्य अम्मिनहाळग्रामजा । अस्य पिता गणेश रावः बेनकनहळ्ळी नाडिगेर रङ्गनगौडस्य योजनायां कार्यं करोति स्म । सोऽपि बाल्यात् एव सङ्गीतासक्तः आसीत् । पितापुत्रौ ग्रामस्य विविधकार्यक्रमेषु स्वागतगीतं, सन्दनशोभायात्रायां भजनानि गीतानि च गायन्ति स्म ।

बाल्यं शिक्षा च[सम्पादयतु]

प्राथमिकशिक्षां स्वग्रामे एव समापितवान् । प्रौढविद्याभ्यासः हुब्बळ्ळीनगरस्य ल्यामिङ्ग्टन् प्रौढशालायाम् अभवत् । प्रतिदिनं रैलयानेन गमनागमनं भवति स्म । मातुः मरणस्य कारणेन मातृभगिन्याः आश्रये नाडिगेरवाडाप्रदेशे एव न्यवसत् । अतः प्रौढशलाशिक्षात्यागः अभवत् । किराणा घराणायाः आद्यप्रावर्तकः उस्तादः अब्दुल् करीम् खानः स्वशिष्यं नानासाहेब नाडिगेरं द्रष्टुं कदाचित् कुन्दगोळप्रदेशम् आगच्छति स्म । तत्र एव रामभावु इत्यस्य परिचयः भूत्वा शास्त्रीयसङ्गीतदीक्षाम् अयच्छत् । तत्र एव इतस्ततः सञ्चरतः बालकस्य सङ्गीतासक्तिं ज्ञात्वा खानमहोदयः बालकं स्वेन सह मिरजनगरम् अनयत् । तदानीन्तने काले आग्रा, किराणा, जैपुर, ग्वालियर्, पाटियाल, इन्दोर इत्यद्याः घराणाः प्रसिद्धाः आसन् । किराणा घराणा तु स्वरप्रधाना घराणा, आग्राघराणायां लयस्य प्राधान्यम्, अन्यघराणाः स्वरलययोः प्राथन्यं भवति ।

अब्दुल् करीं खान्[सम्पादयतु]

करीं खानः देहलीनगरस्य समीपस्थे किराना इति ग्रामे अजायत । कालन्तरेण मीरज् प्रदेशे न्यवसत् । खानः सङ्गीतप्रसारार्थं मिरज़्, पुणे, मैसूरु, बेळगावी,नगरेषु आचार्य सङ्गीतविद्यालयः इति नाम सङ्गीतशालां प्रचालयति स्म । अस्य शिष्या ताराबायी एव अस्य पत्नी अभवत् । प्राचीनशैल्याः अस्मिन् गुरुकुले प्रत्येकं शिष्येण ८वर्षाणि निरन्तरं सङ्गीताभ्यासं करोमि इति सन्धिप्रत्रे हस्ताक्षरं करणियम् आसीत् । तत्र सङ्गीतशिक्षा अतिविशिष्टा असीत् । प्रतः अपराह्णः, सायं च तोडि, मुल्तानी, पूरिया इति रागत्रयस्य अभ्यासः करणीयः आसीत् । सङ्गीतशिक्षायाः पश्चात् उदरपोषणार्थं नाटकसमवायं प्रविष्टवान् । तस्मिन् काले सङ्गीतनाटकेषु प्रसिद्धः बालगन्धर्वस्य अपेक्षया अभिनये सङ्गेते च दशाङ्गुलधिकः इति रामभावु कुन्दगोळकरः सवायी गन्धर्वः इत्येव अभिधानं प्राप्तवान् । मैसूरु, महाराष्ट्रम्, उत्तरकर्णाटकस्य भागेषु च अस्य अव्याहतः सङ्गीताभ्यासः प्राचलत् । स्वरप्रस्तारेषु नियन्त्रणं साधयित्वा अनेकहोराकालं कार्यक्रमं प्रदर्शितवान् । ख्यातः सङ्गीतविद्वान् मञ्जीखानः प्रशंसितवान् । ओङ्कारनथकोलकतापरिषदि ख्यातः स्वरविद्वान् फियाज़्खानः अनन्दाश्रुणा प्रशंसाम् अकरोत् । क्रि.श. १९३२ तमवर्षतः नववर्षाणि कुन्दगोळस्य दत्तात्रेयभजनं दत्तगुरुशक्ति इति गीतवान् । पुणेपत्तनतः सपत्नीकः हुब्बळ्ळिनगरं गत्वा गङ्गूबायी हानगल् इत्यख्यायाः गृहे न्यवसत् । तत्र अस्याः कृते उन्नतस्तरस्य सङ्गीतपाठं कृतवान् । क्रि.श. १९४६तमे वर्षे सवायी गन्धर्वस्य आयुः ६०वर्षाणि । अस्य प्रियशिष्याः पुणेपत्तने गौरवार्थं सङ्गीतोत्सवान् आयोजितवन्तः । तस्मिन् काले रामकृष्ण बुव, वझे, भास्कर बुव बखले, हरिमत् खन् सहेबः, मञ्जीखान् सहेब, इत्यादयः अन्यघराणायाः ज्येष्ठसङ्गीतविद्वासः भागम् अवहन् । ग्रामोफोन् ध्वनिमुद्रिकाः अब्दुलखानस्य गीतेभ्यः पूर्वम् अस्य आगताः ।

वैवाहिकजीवनम्[सम्पादयतु]

अस्य पिता गदगप्रदेशस्य प्रसिद्धवैद्यकुटुम्बस्य सीताबायी इति कन्यया सह विवाहं कारितवान् । केवलेन सङ्गीतेन जीवननिर्वहणं कष्टं भवति इति निश्चित्य नाटकसमवायेषु कार्यं कर्तुम् आरब्धः । बालगन्धर्वः इति ख्यातः नारायणरावः क्रि.श. १९०८तमे वर्षे अमरावती नगरे नूतनसङ्गीतनाटकमण्डल्याम् आसीत् । हीराबायी बडोदेकर् नूतननाट्यशालायां क्रि.श. १९३२तमे वर्षे कार्यं कृतवान् । सुभद्रायाः पात्रं क्रुत्वा "किति किति साङ्गति तुवा "इति गानेन रङ्गप्रवेशं कृतवान् । अग्रपङ्क्तौ अवलोकयतः करीं खानः मूकविस्मितः अभवत् । अकस्मात् गुरुं दृष्ट्वा चकितः अभवत् ।

पञ्चविंशतिवर्षीया शिष्यपरम्परा[सम्पादयतु]

क्रि.श. १९१६ वर्षतः १९४१ तमवर्षपर्यन्तं २५वर्षाणि शिष्यपरम्परां निर्मितवान् । वि.ए.कागल्, नीलकण्ठ बुवा, गडगोळि वेङ्कटराव, रामदुर्ग कृष्णाबायी, गङ्गूबायी हानगल्, फिरोज़् दस्तार्, भीमसेन जोशी. बसवराज राजगुरुः इत्यादयः सवायीगन्धर्वस्य कन्नडशिष्याः । क्रि.श.१९३५ तमे वर्षे गान्धिजयन्त्याः निमित्तं प्रचलिते सङ्गीतकार्यक्रमस्य अध्यक्षस्थाने वीर नारिमन् आसीत । हैदराबाद कर्णाटकमण्डली, मानपत्रम्, धरपुरस्य महाराजस्य स्वर्णपदकं, पूरियाराग पिया गुनान्त, पूरिय धनाश्री रागः,अपारकर् अरज सुनो, भौरविरागस्य बिन् देखॆ परे नाही चैन इत्यादीनां ३ध्वनिमुद्र्काः लोकार्पिताः ।

  • क्रि.श. १९३८ तमे वर्षे हुब्बळ्ळी म्यूसिक् सर्कल् वार्षिकोत्सवस्य अध्यक्षपदवी ।
  • क्रि.श. १९२९ तमे वर्षे कोलकता बेङ्गाल म्यूसिक् कान्फरेन्स विशेषगौरवेण सुवर्णपदकं दत्वा सम्मानितम् एव अयं कार्यक्रमः आकाशवाण्याप्रसारितः आसीत् ।
  • क्रि.श. १९२० तमे वर्षे महान् सं अबासाहेब मुजुम्दार गृहे सङ्गीतकार्यक्रमः आयोजितः आसीत् ।

नागपुरे अपूर्वप्रशंसा[सम्पादयतु]

सवायी गन्धर्वः तत्र सभासदानां प्रतिक्रिया प्रशंसनीया नासीत् । नागपुरे सार्वजनिकसभायां तस्य प्रियश्रोतारः सवाय् इति पदवीं दत्वा सममानयन् । मराठीभाषायां सवायी नाम अमितसामर्थ्यम् इति अर्थः । क्रमेण सवायिगन्धर्वस्य आरोग्यं नियन्त्रणच्युतम् अभवत् । अपि च नाटकसमवायस्य स्मामित्वमपि निरूढव्यम् अभवत् । व्यवाहरे अचतुरः सवायीगन्धर्वः अन्ते स्वस्य गृहं भूमिं, सम्पदः च विक्रीय ऋणविमुक्तः अभवत् । क्रि.श. १९४१ तमे वर्षे नाटकप्रदर्शनेन आगतं धनं ऋणदातृभ्यः प्रत्यर्प्य ॠणमुक्तः अभवत् । यदा एषः ३०तमे वयसि आसीत् तदा अस्य पितृवियोगः अभवत् । तस्मिन् काले तस्य गुरुबन्धुः शङ्करराव सर् नायक साहाय्यम् आचरितवान् । नाटकेषु सवायिगन्धर्वस्य पुरुषभूमिकायाः पुरतः शङ्कर रावः स्त्रीभूमिकां निर्वहति स्म । एतयोः परिश्रमेण नाटकानि जनप्रियाणि अभवन् । सन्त तुलसीदासः इति नूतननाटकस्य प्रयोगविषये यदा चिन्तयन् आसीत् तदैव नाटकसमवायः आर्थदारिद्र्यात् बाधितः पिहितः अभवत् ।

परिवारः[सम्पादयतु]

सवायी गन्धर्वस्य एकः पुत्रः एका पुत्री चास्ताम् । पुत्रः मानसिकताया अप्रबुद्धः, पुत्री प्रमीळा डा. देशपाण्डे इति वैद्यन सह विवाहं प्राप्तसुखेन अवसत् । सवायी गन्धर्वस्य अन्तिमदिनेषु एषा एव आश्रयं साहाय्यं च दत्तवती । क्रि.श. १९४२ तमे काले गन्धर्वः पार्श्ववायुना पीडितः अभवत् । क्रि.शा. १९४६ तः १९४९ पर्यन्तं स्वशिष्यायाः गङ्गूबायी हानगल् इत्यस्याः गृहे वसन् वैद्यचिकित्सां प्राप्तवान् । २०शतकस्य समग्रधारवाडमण्डलम् रत्नसदृशानां सङ्गीतकाराणां माहाजननी अभवत् । तेषु सङ्गीतविद्वत्सु प्रमुखाः

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • हैदराबाद कर्णाटकमण्डल्याः मानपत्रम् ।
  • धरपौरस्य महारजस्य स्वर्णपदकम् ।
  • क्रि.श. १९२८तमे वर्षे हुब्बळ्ळी म्यूज़िकल् सर्कल वाषिकोत्सवस्य अध्यक्षपदम् ।
  • क्रि.श. १९३९ तमे वर्षे कोल्कता बेङ्गाल म्यूजिक कन्फरेन्सतः विशेषस्वर्णपदकम् ।
  • देशस्य विविधाकाशवाणी केन्द्रेषु कार्यक्रमस्य प्रसरणाम् ।

नाटकप्रयोगः[सम्पादयतु]

कदाचित् सवायी गन्धर्वस्य नाटकसमवायः प्रतिष्टापिते स्थाने एव बालगन्धर्वस्यापि नाटकप्रदर्शनं प्रचलति स्म । तदा द्रौपदी इति नाटकं बालगन्धर्वेण प्रदर्शितं चेत् तदेव कथावस्तु स्वीकृत्य गन्धर्वः आत्मतोच इति नाटकं प्रदर्शयति स्म । दौपदीभूमिकां तत्र बालगन्धर्वः करोति अत्र रामभावू करोति स्म । अभिनये अधिकसामर्थ्यं नासीत् चेदपि अस्य किराणा घराणायाः शास्त्रीयसङ्गीतमूलभूतज्ञानम् अभिनयस्य योग्यतां समपादयत् । सवायी गन्धर्वस्य गानं श्रुत्वा बालगन्धर्वः बहुधा आकृष्टः । स्वस्य भूमिकानिर्वहणानन्तरं वर्णाभूषाः च निष्कास्य सवायी गन्धर्वस्य पात्रं सङ्गीतं च दृष्टुम् आगत्य उपविशति स्म । एवम् एतयोः मैत्रीभावः उभयोः गौरवस्य कीर्तेः धनस्य च वृद्धये कारणम् अभवत् ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=सवायी_गन्धर्वः&oldid=236348" इत्यस्माद् पुनः प्राप्तिः