सांख्ययोगः
एषः द्वितीयः अध्यायः विद्यते । निष्कामकर्मयोगस्य प्रक्रियायां कर्त्ता कर्त्तृत्वस्य अभिमानं विना कर्मणि प्रवर्तते, किन्तु तादृशः कर्त्ता कश्चित ज्ञानी पुरुषः एव भवति । ईश्वराय कर्मणां समर्पणमपि ज्ञानीजन एव स्वकीयेन भक्ति – प्रवणेन चेतसा विदधाति । अतः श्रीमद्भगवद्गीता ज्ञानमार्गस्यापि महत्त्वं स्वीकरोति । गीतोक्तज्ञानयोगः वस्तुतः सांख्यशास्त्रादिषु कहितात् ज्ञानमार्गत् भिन्नो वर्तते ।
श्रीमद्भगवदगीतायां ज्ञानयोगस्य विषयः प्रतिपादितः, तदनुसारेण ज्ञानम् आत्मनः एकतायाः पूर्णानुभवोऽस्ति । अस्य ज्ञानस्य अवस्थाद्वयं विद्यते । प्रथमावस्थायां सर्वभूतेषु आत्मनो दर्शनं ज्ञानं वर्तते, द्वितीयावस्थायां सर्वभूतानाम् आत्मनि दर्शनं ज्ञानं अस्ति ।
सर्वभूतेषु आत्मानं दर्शयेदिति यज्ज्ञानमस्ति तत्र सर्वे भूताः प्राणिनो वा आधाररुपाः सन्ति, आत्मा चाधेयरुपोऽस्ति । सर्वभूतानामात्मनि दर्शने सति आत्मा आधाररुपो भवति, आधेयरुपाः सर्वे भूताश्च तम्नुभूयन्ते । गईतोक्तज्ञानयोगस्य इदम् अवस्थाद्वयं परस्परं सम्पूरकतया तिष्ठति । यः पुरुषोऽस्य ज्ञानयोगे गृह्यमाणस्य अवस्थाद्वयस्य व्यवहारे सम्प्रयोक्ता भवति, स समदर्शीति उच्यते । तादृशज्ञानिनां कृते श्रीमद्भगवदगीताया उदघोषोऽस्ति –“ शुनि चैव श्वपाके च पण्डिताः समदर्शिनः” इति ।
ज्ञानयोगस्य प्रथमावस्थायाः अर्थात् ‘सर्वभूतस्थमात्मानम्’ इत्यस्य दृष्टान्तस्तु जगति सर्वत्र उपलभ्यते किन्तु द्वितीयावस्थायाः अर्थात् ‘सर्वभूतानि चात्मनि’ इत्यस्य दृष्टान्तो जगति नास्ति, अतएव भगवता श्रीकृष्णेन विराटरुपं दर्शयित्वा तस्य सम्पूर्तिर्विहिता । अस्य विराटाऋपस्य वैशिष्टयमिदमासीत् यत् एकस्मिन्नेव् विराजात्मनि अर्जुनो नानारुपात्मकं जगत् व्यक्त्रुपं दृष्टवान् । अस्य परिणामस्वरुपमेव अर्जुनस्य आत्मैकत्वज्ञानं यथार्थमभूत् ।
| भगवद्गीतायाः अध्यायाः |
|---|
शाङ्करभाष्यम् [सम्पादयतु]
गीतायाः द्वितीयः अध्यायः एषः वर्तते । अस्य अध्यायस्य तावत् भाष्यं वर्तते । अत्र च – ‘दृष्ट्वा तु पाण्डवानीकम्’ इत्यारभ्य ‘ ‘न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह’ इत्येतदन्तः ग्रन्थः प्राणिनां शोकमोहादिसंसारबीजभूतदोष – उद्भवकारण प्रदर्शनार्थत्वेन व्याख्येयः । तथा हि राज्यगुरुपुत्रमित्रसुहृत्स्वजनसंबन्धिबान्धवेषु ‘अहम् एषां मम एते’ इत्येवं भ्रान्तिप्रत्ययनिमित्त- स्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ ‘कथं भीष्ममहं सड्खये इत्यादिना अर्जुनेन प्रदर्शितौ । शोकमोहाभ्यां हि अभिभूतविवेकविज्ञानः स्वतः एव क्षात्रधर्मे युद्धे प्रवृत्तः अपि तस्मात् युद्धात् उपरराम । परधर्मं च भिक्षाजीवनादिकं च कर्तुं प्रववृते । तथा च शोकमोहदिदोषाविष्टचेतसां स्वभावतः एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात् । स्वधर्मे प्रवृत्तानामपि तेषां वाडमनः कायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विका एवं साहङ्कारा च भवति तत्र एवं सति धर्माधर्मोपचयात् इष्टानिष्टजनमसुखदुः खप्रात्पिलक्षणः संसारः अनुपरतः भवति इत्यतः शोकमोहौ संसारबीजभूतौ । तयोः च सर्वकर्मसंन्यासपूर्वकात् आत्मज्ञानात् निवृत्तिः, न अन्यतः इति, सर्वलोकानुग्रहार्थं तत् उअपदिदिक्षुः भगवान् वासुदेवः अर्जुनं निमित्तीकृत्य आह –‘अशोच्यान् इत्यादि’ । पूर्वपक्षः सर्वकर्मसंन्यासपूर्वकात् आत्मज्ञाननिष्ठामात्रात् केवलात् एव कैवल्यं नैव प्राप्यते । किं तर्हि ? अग्निहोत्रादिक्षौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिः इति सर्वासु गीतासु निश्चितः अर्थः इति तत्र केचित् आहुः । ‘अथ चेत्त्वमिमं धर्म्यं सङग्रामं न करिष्यसि’, ‘कर्मण्येवाधिकारस्ते’, कुरु कर्मैव तस्मात् त्वम्’ इत्यादि अस्य अर्थस्य ज्ञापकं च आहुः । हिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इति इयमपि आशङ्का न कार्या कथम् ? गुरुभ्रातृपुत्रादिहिंसालक्षणं युद्धलक्षणं क्षात्रं कर्म अत्यन्तं क्रूरमपि स्वधर्मः इति कृत्वा न अधर्माय । तदकरणे च “ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि” इति ब्रुवता यावज्जीवादिश्रुति-चोदितानां पश्चादिहिंसालक्षणानां च कर्माणां न अधर्मत्वम् इति प्रागेव सुनिश्चितं उक्तं भवति । सिद्धान्तः बुद्धिद्वयाश्रययोः ज्ञानकर्मनिष्ठयोः विभागवचनात् – तत् असत् । ‘अशोच्यान्’ इत्यादिना यावत् ‘स्वधर्ममपि चावेक्ष्य’ इति एतदन्त्तेन ग्रन्थेन यत् परमार्थात्मतत्त्वनिरुपणं भगवता कृतं तत् साड्खयम् । आत्मनः जन्मादिषड-विक्रियाभावात अकर्ता आत्मा इति प्रकरणार्त्य्हनिरुपणात् तद्विषया या बुद्धिः जायते सा साङ्ख्यबुद्धिः । येषां ज्ञानिनां सा उचिता भवति ते साङ्ख्या । एतस्याः बुद्धेः जन्मनः प्राग् आत्मनः देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वाद्यपेक्षः धर्माधर्मविवेकपूर्वकः मोक्षसाधन अनुष्ठानलक्षणनिरुपणः योगः । तद्विषया बुद्धिः योगबुद्धिः । येषां कर्मिणां सा उचिता भवति ते योगिनः । तथा च ‘एषा तेऽभिहिता साङ्खये बुद्धिर्योगे त्विमां शृणु ’ इति द्वे बुद्धी भगवता विभक्ते निर्दिष्टे । तयोश्च “ पुरा वेदात्मना मया प्रोक्ता “ इति ज्ञानयोगेन विभक्तां साङ्ख्यबुद्धयाश्रयां साङ्ख्यानां निष्ठां वक्ष्यति । तथा च “कर्मयोगेन योगिनाम्” इति कर्मयोगेन विभक्तां योगबुद्धयाश्रयां निष्ठां वक्ष्यति । कर्तृत्व-अकर्तृत्व-एकत्व-अनेकत्व-बुद्धयाश्रययोः ज्ञानकर्मणोः एकपुरुषाश्रयत्व –असम्भवं पश्यता भगवता एवं साङ्ख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते उक्ते । यथा एतत् बिभागवचनं तथा एव शातपथीये ब्राह्मणे ’एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति’ इति सर्वार्मसंन्यासं विधाय तच्छेषेण् –किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ इति दर्शितम् । तत्र एव- “ प्राग्दारप्रग्रहात् पुरुष आत्मा प्राकृतो धर्मजिज्ञासोत्तरकाल लोकत्रयसाधनं पुत्रं द्विप्रकारकं वित्तं मानुषं दैवं च तत्र मानुषं वित्तं कर्मरुपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनं सोऽकामयत “ इति अविद्याकामवतः एव सर्वाणि श्रौतादीनि कर्माणि दर्शितानि । ‘तेभ्यो व्युत्थाय प्रव्रजन्ति’ इति आत्मानं लोकम् इच्छतः अकामस्य एव व्युत्थानं विहितम् । यदि श्रौतकर्मज्ञानयोः समुच्चयः भगवतः अभिप्रेतः स्थात् तदेतद विभागवचनम् अनुपपन्नं स्यात् । ‘ज्याय सी चेत् कर्म्णस्ते’ इत्यादिः अर्जुनस्य प्रश्नः च न अनुपपन्नः स्यात् । बुद्धिकर्मणोः एकपुरुषानुष्ठेयत्वासम्भवं भगवता पूर्वम् अनुक्तम् अशृतं कर्मणश्च बुद्धेः ज्यायस्त्वं ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन’ इति कथम् भगवति मृषा एव् अध्यायोपयेत् । किञ्च, यदि बुद्धिकर्मणोः समुच्चयः सर्वेषाम् उक्तः स्यात् अर्जुनस्यापि स उक्तः एव इति ‘यच्छेय एत्योरेकं तन्मे ब्रूहि सुनिश्चितम् ’इति उभयोः उपदेशे सति कथम् अन्यतरविषयः एव प्रश्नः स्यात् ? पित्तप्रशमनार्थिनः मधुरं शीतं च भोक्तव्यम् इति वैद्येन उपदिष्टे तयोः अन्यतरत् पित्तप्रशनकारणं ब्रूहि इति प्रश्नः न हि सम्भवति । अथ भगवदुक्तवचनार्थविवेक- अनवधारणनिमित्तः अर्जुनस्य प्रश्नः कल्पयेत् । तथापि मया बुद्धिकर्माणोः समुच्चयः उक्तः किमर्थम् इत्यं त्वं भ्रान्तः असि इति भगवता प्रश्नानुरुपं प्रतिवचनं देयम् । पुनः तु पृष्टात् अन्यदेव द्वे निष्ठे मया पुरा प्रोक्ते इति अननुरुपं प्रतिवचनम् वक्तुं न युक्तम् । स्मार्तेन एव कर्मणा बुद्धेः समुच्चये अभिप्रेते अपि विभाबवचनादि सर्वं न उपपन्नम् । किञ्च क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्मः इति जानतः “तत् किं कर्मणि घोरे मां नियोजयसि’ इति उपालम्भः अनुपपन्नः। तस्माद् गीतशास्त्रे श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य ईषनमात्रेणापि समुच्च्यः केनचित् दरेशयितुं न शक्यः । यस्य तु अज्ञानात् रागादिदोषतः वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य परमार्थतत्त्वविषयम्, एकं एव इदं सर्वम्, अकर्तृ ब्रह्म इति ज्ञानम् उत्पन्नं –तस्य कर्मणि कर्म्प्रयोजने च निवृत्ते अपि लोकसङ्ग्रहार्थं यत्रपूर्वकं यथा प्रवृत्तः तथा एव कर्मणी प्रवृत्तस्य यत प्रवृत्तिरुपं दृश्यते तत न कर्म येन बुद्धेः समुच्चयः स्यात् । यथा भगवतः वासुदेवस्य क्षात्रकर्मचेष्टितं पुरुषार्थसिद्धये ज्ञानेन न समुच्चियते तद्वत् विदुषः, फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वात् । तत्त्ववित् तु अहं न करोमि इति मन्यते , नच तत् फलम् अभिस्न्धत्ते । यथा स्वर्गादिकामार्थिनः अगिहोत्रादिकामसाधनानुष्ठानाय आहिताग्नेः काम्ये अग्निहोत्रादौ एव प्र्वृत्तस्य सामिकृते विनष्टे कामे अपि तदेव अग्निहोत्रादि अनुतिष्ठतः अपि तत् काम्यम् अग्निहोत्रादि च भवति । तथा च ‘कुर्वन्नपि’ न करोति न लिप्यते’ इति तत्र तत्र भगवान् दर्शयति । यच्च ‘पूर्वैः पूवतरं कृतम्’ कर्मणैव हि स्सिद्धिम आस्थिता जनकादयः ’ इति तत् तु प्रबिभच्य विज्ञेयम् । तत् कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्वविदः अपि प्रवृत्तकर्माणः स्युः ते लोकसङ्ग्रहार्थं ‘गुणा गुणेषु वर्तन्ते’ इति ज्ञानेन एव संसिद्धिम् आस्थिताः । कर्मसंन्यासे प्राप्ते अपि कर्मण सह एव संसिद्धिंम् आस्थिताः कर्मसंन्यासं न कृतवन्तः इति एषः अर्थः । अथ ते न तत्त्वविदः । ईश्वरसमर्पितेन साधनभूतेन कर्मणा संसिद्धिं सत्त्वशुद्धिं , ज्ञानोत्पत्तिलक्षणां संसिद्धिं वा जनकादयः आस्थिताः इति व्याख्येयम् । भगवान् एतमेव अर्थं – सत्त्वशुद्धये कर्म कुर्वन्ति’ इति वक्षयति । “स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः “ इत्युक्त्वा सिद्धिं प्राप्तस्य “ सिद्धिं प्राप्तो यथा ब्रह्म” इत्यादिना पुनः ज्ञाननिष्ठां वक्ष्यति । तस्मात् गीतासु केवलात् तत्त्वज्ञानात् एव मोक्षप्राप्तिः न कर्म समुच्चितात् इति निश्चितः अर्थः । यथा च अयमर्थः तथा प्रकारणशः विभज्य तत्र तत्र दर्शयिष्यामः
श्लोकानाम् आवलिः [सम्पादयतु]
- २.०१ तं तथा कृपया…
- २.०२ कुतस्त्वा कष्मलम्…
- २.०३ क्लैब्यं मा स्मगमः…
- २.०४ कथं भीष्मम्…
- २.०५ गुरूनहत्वा हि…
- २.०६ न चैतद्विद्मः…
- २.०७ कार्पण्यदोषोपहतः…
- २.०८ न हि प्रपष्यामि…
- २.०९ एवमुक्त्वा हृषीके…
- २.१० तमुवाच हृषीके…
- २.११ अशोच्यानन्…
- २.१२ न त्वेवाहम्…
- २.१३ देहिनोस्मिन्…
- २.१४ मात्रास्पर्शाः…
- २.१५ यं हि न व्यथयन्ति…
- २.१६ नासतो विद्यते…
- २.१७ अविनाशितु तत्…
- २.१८ अन्तवन्त इमे…
- २.१९ य एनं वेत्ति हन्तारं…
- २.२० न जायते म्रियते…
- २.२१ वेदाविनाशिनम्…
- २.२२ वासांसि जीर्णानि…
- २.२३ नैनं छिन्दन्ति…
- २.२४ अच्छेद्योऽयम्…
- २.२५ अवक्तोयम्…
- २.२६ अथ चैनं नित्य…
- २.२७ जातस्य हि धृवो…
- २.२८ अव्यक्तादीनि…
- २.२९ आश्चर्यवत्…
- २.३० देही नित्यम्…
- २.३१ स्वधर्ममपि…
- २.३२ यदृच्छया चोपपन्नम्…
- २.३३ अथ चेत्वमिमम्…
- २.३४ अकीर्तिम् चापि…
- २.३५ भयाद्रणादुपरतम्…
- २.३६ अवाच्यवादान्…
- २.३७ हतो वा प्राप्स्यसि…
- २.३८ सुखदुःखे समे…
- २.३९ एषा तेऽभिहिता…
- २.४० नेहाभिक्रमशः…
- २.४१ व्यवसायात्मिका…
- २.४२ यामिमां पुष्पिताम्…
- २.४३ कामात्मानः…
- २.४४ भोगैश्वर्यप्रसक्तानाम्…
- २.४५ त्रैगुण्यविषयाः…
- २.४६ यवानर्थ उदपाने…
- २.४७ कर्मण्येवाधिकारः…
- २.४८ योगस्थः कुरु …
- २.४९ दूरेण ह्यवरं…
- २.५० बुद्धियुक्तो जहाति…
- २.५१ कर्मजं बुद्धियुक्ता…
- २.५२ यदा ते मोहकलिलम्…
- २.५३ श्रुतिविप्रतिपन्ना ते…
- २.५४ स्थितप्रज्ञस्य का…
- २.५५ प्रजहाति यदा…
- २.५६ दुःखेष्वनुद्विग्नमनाः…
- २.५७ यः सर्वत्रानभिस्नेहः…
- २.५८ यदा संहरते चायम्…
- २.५९ विषया विनिवर्तन्ते…
- २.६० यततोह्यपि कौन्तेय…
- २.६१ तानि सर्वाणि…
- २.६२ ध्यायतो विषयान्…
- २.६३ क्रोधात् भवति…
- २.६४ रागद्वेषवियुक्तैस्तु…
- २.६५ प्रसादे सर्वदुःखानाम्…
- २.६६ नास्तु बुद्धिः…
- २.६७ इन्द्रियाणां हि…
- २.६८ तस्माद्यस्य महा…
- २.६९ या निशा सर्व…
- २.७० आपूर्यमाणमचलप्रतिष्ठम्…
- २.७१ विहाय कामान्…
- २.७२ एषा ब्राह्मी…