साइहामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Saiha district
मण्डलम्
मिझोरामराज्ये साइहामण्डलम्
मिझोरामराज्ये साइहामण्डलम्
देशः  India
मण्डलम् साइहामण्डलम्
विस्तारः १,४२१.६० च.कि.मी.
जनसङ्ख्या(२०११) ६४,९३७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://www.saiha.nic.in/
पाला तिपो (Pala Tipo(Lake)) सरोवरः
माउण्ट् मोमा(Mt.Mawma)


साइहामण्डलं(आङ्ग्ल: Saiha District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं साइहा इत्येतन्नगरम् । मिजोरामराज्ये दक्षिणविभागे विद्यमानमिदं मण्डलम् । 'मार्-लेण्ड' इति नाम्ना प्रदेशोऽयं प्रसिद्धः ।

भौगोलिकम्[सम्पादयतु]

साइहामण्डलस्य विस्तारः १,८९९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तर-वायव्यदिशोः लुङ्गलैमण्डलं, पूर्व-दक्षिणदिशोः म्यान्मारदेशः अस्ति । पश्चिमदिशि लौङ्गत्लायमण्डलम् अस्ति । अत्र २७८ से.मी.मितः वार्षिकवृष्टिपातः भवति । वनेषु वंशवृक्षाः अधिकाः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

साइहामण्डलस्य जनसङ्ख्या(२०११) ५६,५७४ अस्ति । अस्मिन् २८,५९४ पुरुषा:, २७,९८० महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ४० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -७.३४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७९ अस्ति । अत्र साक्षरता ९०.०१ % अस्ति । मण्डलेऽस्मिन् ४४.३८% जना: ग्रामेषु निवसन्ति ।

ऐतिहसिकं किञ्चित्[सम्पादयतु]

१९४७ वर्षे स्वातन्त्र्यप्राप्तिपूर्वमेव अस्य प्रदेशस्य मारजातीयाः राजकीयाः नेतारः "'लुशाइ हिल्स' इति नाम्ना अस्मभ्यम् एकं स्वयंशासितप्रदेशं ददातु" इति याचिकां तदानींतन प्रशासकाय दत्तवन्तः । प्रदेशोऽयं बर्मा-प्रशासने, आङ्ग्लप्रशासने वा भवतु इत्यपि तेषाम् आवेदनमासीत् । 'लाखेर'जनानां स्वतन्त्रं मण्डलं - 'लुशाइ हिल्स' भवतु इति तेषां आवेदनस्य भूमिका आसीत् । परम् आङ्ग्लप्रशासनेन अस्य आवेदनस्य स्वीकरणं न कृतम् । स्वातन्त्र्यप्राप्तिकाले अस्य मारप्रदेशस्य अधिकांशभागः म्यान्मारदेशे, अवशिष्टः भागः तदानीन्तने अस्सामप्रान्ते समाविष्टः । तथा अस्सामराज्ये समाविष्टः प्रदेशः इदानीं मिजोरामराज्यस्य किञ्चन मण्डलत्वेन संस्थापितः ।

कृषि:[सम्पादयतु]

कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयति । साइहामण्डलस्य अर्थव्यवस्था कृषिसम्बद्धकार्यैः अग्रे नीयते । कृषिः पारम्परिकपद्धत्या एव क्रियते । चायं, रबर, काफीबीजानि, द्विदलसस्यानि, फलानि च प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -

  • साइहा (SDO-S)
  • तुइपाङ्ग (SDO-S)

लोकजीवनम्[सम्पादयतु]

जनाः पारम्परिकजीवनपद्धतिम् अनुसरन्ति । अत्रस्थजनैः मारा, आङ्ग्लं, मिजो, हिन्दी इत्येताभिः भाषाभिः व्यवह्रियन्ते । कृषिसम्बद्धव्यवसायाः, हस्तोद्यमाः च जनानाम् उपजीविकां कल्पयन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले कानिचन वीक्षणीयस्थलानि सन्ति । तानि -

  • साइहानगरम्
  • पाला तिपो (Pala Tipo(Lake)) सरोवरः मिजोरामराज्यस्य बृहत्तम-सरोवरः ।
  • साइको इत्यत्र मिशनरीकार्यस्य केन्द्रं, क्रैस्त प्रार्थना मन्दिरम्, ऐतिहासिकस्थलम् अतः मण्डलपरम्परास्थानत्वेन घोषितं, पुरातत्वविभागेन रक्षितं च ।
  • माउण्ट् मोमा(Mt.Mawma)- मिशनरी कार्यकर्तॄणां निवासस्थानं, केन्द्रं च । केन्द्रत्वेन स्थापितस्य वास्तोः निर्माणमपि वैशिष्ट्यपूर्णं । १९२० तमे वर्षे सम्पूर्णतया काष्ठैः निर्मापितम् इदं वास्तुः ।
साइहाप्रदेशस्य विहङ्गमदृश्यम्

बाह्यानुबन्धाः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=साइहामण्डलम्&oldid=481071" इत्यस्माद् प्रतिप्राप्तम्