साधुः तुकारामः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
साधुः तुकारामः

तुकारामस्य तैलवर्णचित्रम्
जन्मतिथिः क्रि.श. १५९८तमवर्षः ।
जन्मस्थानम् देहू, पुण्यपत्तनम्(पुणे), महाराष्टराज्यम्, भारतम्
मृत्युतिथिः क्रि.श. १६५० तमवर्षः ।

साधुः तुकारामः सप्तदशे शतके भारते दीर्घकालं प्रचलितस्य भक्त्यान्दोलनस्य प्रमुखः साधुः कविः ।

तुकारामस्य जीवनं विरक्तिः च[सम्पादयतु]

तुकारामस्य जन्म भारतदेशस्य पुण्यपत्तनस्य (पुणे) समीपे देहू इति ग्रामे क्रि.श. १९५८तमे वर्षे अभवत् । अस्य जन्मदिनस्य विषये वुदुषाम् अभिप्रायभेदः अस्ति । अस्य कुलस्य सर्वे जनाः पण्ढरापुरस्य यात्रां नियमितरूपेण कुर्वन्ति । देहूग्रामस्य महाजनः इति कारणेन अस्य कुटुम्बः श्रीलः । अस्य बाल्यः मातुः कनकाई इत्यस्याः पितुः बहेबस्य च वत्सल्येन सुखेन व्यतीतम् । कुन्तु एषः यदा१८वर्षीयः अभवत् तदा मातापितरौ दिवङ्गतौ । अस्मिन् एव देशे व्यप्तस्य क्षामस्य कारणेन अस्य प्रथमा पत्नी बालः च बुभुक्षाया पीडितौ अकालमृत्युवशं गतौ । अस्य द्वीतीया पत्नी जीजा बायी कठोरा आसीत् । एवं विपत्तीनां सागरे निमग्नः तुकारामः भवबन्धनात् विमुखः अभवत् । चित्तस्य प्रसन्नतां मनसः शान्तिं प्राप्तुं तुकारामः प्रतिदिअन्ं देहूग्रामात् बहि पर्वताग्रे उपविश्य विठ्ठलस्य नामस्मरणं करोति स्म । प्रापञ्चिकसुखात् विरतस्य परमेश्वरस्य प्राप्तये उन्मुखस्य तुकारामस्य बाबा जैतन्यनामकः साधुः श.श. १५४१तमे वर्षे मघशुद्धदशम्यां रामकृष्णहरिमन्त्रम् उपादिशत् । पश्चात् १७वर्षाणि प्रपञ्चस्य उपदेशार्थं व्यतीतवान् । अस्य सत्यवैराग्यं स्वच्छान्तःकरणं च दृष्ट्वा अस्य निन्दकाः अपि क्रमशः अस्य शिष्याः अभवन् । एवं भगवतः धर्मस्य उपदेशं कुर्वाणः परमार्थमार्गस्य अन्वेषणं कुर्वन् तुकारामः शा.श. १५७१तमवर्षे फल्गुणकृष्णद्वादश्यां देहत्यागम् अकरोत् ।

अभङ्गवाणी[सम्पादयतु]

तुकारामस्य मुखात् समये समये व सहजतया परिस्फुरिताः अभङ्गवाण्यः एव अस्य साहित्यकृतयः । अन्या कापि कृतिः इति पृथक् नास्ति । स्वस्य जीवनस्य उत्तरार्धे अनेन गीतानि, उक्तानि अस्य शिष्यैः अभिलिखितानि प्रायः ४००० अभङ्गरचनानि सन्ति । साधोः ज्ञानेश्वरस्य ज्ञानेश्वरी साधोः एकनाथस्य एकनथी भागवतम् च बारकरी सम्प्रदायवादिनां धर्मग्रन्थौ । एतयोः ग्रन्थयोः सारः तुकारामस्य अभङ्गेषु दृश्यते । तुकारामः स्वस्य साधकावस्थायां पूर्वसूरिणां ग्रन्थान् श्रद्धया गहनतया सम्यक् अधीतवान् । एतेषा त्रयाणां कृतिषु एकम् एव अध्यत्मसूत्रं दृष्यते । ज्ञानदेवस्य सुमधुरवाणी काव्यालङ्कारयुक्ता अस्ति । एकनाथस्य भाषा विसृता रसलालिता अस्ति । तुकारामस्य वाणी तु परिशुद्धा सूत्रबद्ध अल्पाक्षररमणीया मर्मभेदिका चास्ति । तुकारामस्य अभङ्गवाण्यः अत्यन्तम् आत्मपराः इति कारणेन अत्र पारमार्थिकजीवनस्य दर्शनं भवति । कौटुम्बिकापत्तिभ्यः त्रस्तः कश्चित् कुटुम्बी आत्मसाक्षात्कारी साधुः भबितुम् अर्हति इति निरूपणम् अस्य अभङ्गवाणिषु भवति । साधकस्य प्रथमावस्थायां तुकारामः मनसि कृतस्य निश्चयानुसारं संसारात् निवृत्तः पारमार्थे प्रवृत्तः इति दृश्यते । द्वितीयावस्थायां भगवतः साक्षात्कारस्य प्रयत्ने असफलम् आत्मानं संलक्ष्य आध्यात्मिकनिराशास्थितौ जीवनयापनं कृतवान् । इति भावः अस्य अभङ्गेषु दृष्यते । तृतीयावस्थायां तुकारामस्य किङ्ककर्तव्यविमूढे अन्धकारः शीघ्रमेव निवारितः । आत्मसाक्षात्कारस्य सूर्येण आलोकितः तुकारामः ब्रह्मानन्दे लीनः अभवत् । एषा एव अस्य अन्तिमा चिरवाञ्छिता सफलावस्था ।

धर्मरक्षणं मौढ्यखण्डनम्[सम्पादयतु]

एवम् ईश्वरप्राप्तेः साधनसम्पन्नताया पश्चात् अस्य मुखारविन्दात् या उपदेशवाणी प्रकटीभूता सा अत्यन्तम् अर्थपूर्णा अभवत् । स्वभावतः स्पष्टवादी इति कारणतः अस्य वाणिषु कठोरता दृश्यते । किन्तु उद्देशः तु समाजतः दुष्टानां निर्दलनं कृत्वा धर्मस्य संरक्षणम् । एषः सर्वदा सत्यस्य एव अवलम्बनं कृतवान् । कस्यचिदपि प्रसन्नतायाः अथवा अप्रसन्नतायाः विषयम् अनुलक्ष्य धर्मसंरक्षणेन सह मौढ्यस्य खण्डनम् अपि निरन्तरम् अकरोत् । दाम्बिकं साधुम्, अनुभवशून्यं दम्बपण्दितं, दुराचरीधर्मगुरुं च तीव्रतया आक्षिप्तवान् । तुकारामः मनसा भाग्यवादी आसीत् अतः अनेन चित्रितः मानवीयसंसारः निराशा, विफलता, उद्वेगः इत्यादिभिः पूर्णम् अस्ति । तथापि संसारिणां संसारं त्यजतु इति कदापि उपदेशं न दत्तवान् । संसारस्य क्षिणिकभोगेषु निरतैः मानवैः शाश्वतसुखस्य परमार्थप्राप्तेः विषये प्रयत्नः करणीयः इत्येव अस्य उपदेशः । तुकारामस्य अधिकांशकाव्यरचनं कैवल्याभङ्गछन्दसि भवति स्म । तथापि रूपकात्मकरचनानि अपि कृतवान् । सर्वाणि रूपकणि काव्यदृष्ट्या उत्कृष्टम् अस्ति । अस्य वाणि श्रोतॄणां कर्णे पतति चेत् तेषां हृदयं परिगृह्णाति एव । अस्य काव्येषु अलङ्काराणां शब्दचमकृतेः च आधिक्यं दृश्यते । अस्य अभङ्गानि सूत्रबद्धानि भवन्ति । अल्पैरेव पदैः महार्थप्रतिपादनस्य अस्य शैली मराठीभाषासाहित्ये अद्वितीया अस्ति ।

तुकारामस्य मूलशिक्षा[सम्पादयतु]

तुकारामः छत्रपतेः शिवाजीमहाराजस्य गुरुः अभवत् । साधुः तुकारमः अस्मिन् विषये दृढमतिः यत् मनुष्यः ईश्वरस्य सन्तानम् इति कारणेण सर्वे समानाः । अनेन समर्थरामादासेन च महाराष्ट्रधर्मप्रसारः अभवत् । यस्य सिद्धान्तः भक्त्यान्दोलनेन प्रभावितः आसीत् । महाराष्ट्रधर्मस्य प्रभावः तत्कालीनसमाजिकविचारधारायां नितराम् अभवत् । यद्यपि अनेन वर्णव्यवस्थायां कुठाराघातं कर्तुम् अवसरः न प्राप्तः तथापि वर्णव्यवस्थां शिथिलां कर्तुम् अवश्यं सफलः अभवत् ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=साधुः_तुकारामः&oldid=262622" इत्यस्माद् पुनः प्राप्तिः