नामदेव

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(साधुः नामदेवः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

सिखमतम्
विषयेऽस्मिन् एकस्याः श्रेण्याः भागः

ॐ
सिखमतस्य गुरवः एवं भक्ताः
सद्गुरुः नानक देव · सद्गुरुः अङ्गद देव
सद्गुरुः अमर दास  · सद्गुरुः राम दास ·
सद्गुरुः अर्जन देव  ·सद्गुरुः हरि गोविन्द  ·
सद्गुरुः हरि राय  · सद्गुरुः हरि कृष्ण
सद्गुरुः तेग बहादुर  · सद्गुरुः गोबिन्द सिंह
भक्तः कबीर  · शेख फरीद
भक्तः नामदेव
धर्मग्रन्थाः
आदि ग्रन्थ साहिब · दशमग्रन्थः
सम्बन्धितविषयाः
गुरद्वारा · चण्डी ·अमृतम्
लङ्गर · खालसा पन्थ


सधुः नामदेवः (१२७० - १३५०) महाराष्ट्रस्य हिन्ङ्गोलीमण्डलस्य नरसिबमनिग्रामे १२७० तमे वर्षे अक्टोबर्मासस्य २९ तमे दिनाङ्के जातः । तस्य पिता सौचिकः दाम्शेटः माता गोणाबाई । गृहस्थाश्रमस्य प्रामुख्यं सः बहु विवृणोत् स्वस्य उपदेशेषु । सः वदति वैवाहिकजीवनेन एव आत्मज्ञानं प्राप्तुं शक्यमिति सः वदति स्म ।

बाल्यं शिक्षा च[सम्पादयतु]

सन्त रामदेवः महाराष्ट्रस्य कश्चन धार्मिककविः । प्राचीनतमेषु मराठिलेखकेषु अयम् अन्यतमः । भगवद्धर्मस्य प्रचारे अग्रेसरः आसीत् । एतेन हिन्दीभाषया पञ्जाबिभाषया च तेन पद्यानि रचितानि । कीर्तनगाने तदीया भक्तिः तन्मयता च एतावान् आसीत् यत् स्वयं भगवान् पाण्डुरङ्गः उपस्थितः भवति स्म इति विश्वस्यते । धार्मिकैकतायाः साधने तदीयं योगदानं सदा तिष्ठति अनुपमम् । नामदेवस्य जन्मनः अनन्तरं तेषां कुटुम्बः पण्डरापुरं प्रति अगच्छत् यत्र भगवतः विठ्ठलस्य (विठोबस्य) प्रमुखं मन्दिरं वर्तते । तस्य पितरौ विठोबस्य भक्तौ आस्ताम् । नामदेवः अशीतिवर्षाणि यावत् पण्डरापुरे अवसत् ।कुलवृत्तौ नामदेवस्य आसक्तिः आसीत् अत्यल्पा । तदीया विठोबभक्तिः आसीत् अनन्या । आदिनम् आरात्रिः तस्य एकमेव कार्यं नाम देवध्यानम् । सः विठोबं स्वस्य भ्रातरं मित्रं वा मन्यते स्म । एवं किंवदन्ती काचित् श्रूयते यत् 'पञ्चवर्षीयः नामदेवः कदाचित् मात्रा दत्तम् आहारनैवेद्यं स्वीकृत्य विठोबाय समर्पयितुम् अगच्छत् । विठोबस्य पुरतः संस्थाप्य स्वीकर्तुं प्रार्थयत् । बहु समयं यावत् प्रतीक्षा कृता तेन । तथापि विठोबः नागतः इत्यतः खिन्नः नामदेवः अवदत् - 'भवान् यदि न स्वीकुर्यात् तर्हि अहम् आत्महत्यां कुर्याम्' इति । बालस्य नामदेवस्य भक्त्या सन्तुष्टः विठोबः प्रत्यक्षीभूय नैवेद्यं परिगृहीतवान्' इति ।

विवाहः वैराग्यम्[सम्पादयतु]

स्वस्य एकादशे वयसि नामदेवः राजाई नामिकां परिणीतवान् । तयोः चत्वारः पुत्राः - नारा, विठा, गोन्दा, महादा । एका पुत्री - लिंबाई । तस्य ज्येष्ठा अग्रजा अपि तेषां गृहे एव वसति स्म । आहत्य एकादश जनाः गृहे आसन् । १२९१ तमे वर्षे २१ तमे वयसि तस्य जीवनस्य महत्त्वपूर्णं परिवर्तनं जातं यदा तेन सन्तः ध्यानेश्वरः अमिलत् । बहुत्र इयं घटना उल्लिखिता दृश्यते - कदाचित् ध्यानेश्वरः, निवृत्तिनाथः, सोपन्देवः, मुक्ताबाई, नामदेवः, चोखमेला, विशोबा खेचर इत्यादयः धार्मिकाः एकत्र अमिलन् । ध्यानेश्वरस्य सूचनानुसारं कुम्भकारः सन्तः गोरोबः एकैकस्य शिरसि ताडयन् अध्यात्मदृष्ट्या अयं प्रबुद्धः उत न इति ज्ञातुं प्रयतमानः आसीत् । नामदेवस्य परीक्षायाः अनन्तरं गोरोबः अवदत् यत् अयं अध्यात्मदृष्ट्या अप्रबुद्धः इति । मुक्ताबाई अपि इदम् अनुमोदितवती । नामदेवः देवसमीपमेव अनयत् इमं विषयम् । विशोबखेचारस्य मार्गदर्शनम् अङ्गीक्रियताम् इति देवः असूचयत् । नामदेवः विशोबखेचारं गुरुत्वेन अङ्गीकृतवान् । तस्मात् सः देवदर्शनं प्राप्तवान् । तस्य कीर्तनेषु बहूनां ग्रन्थानाम् उल्लेखः दृश्यते इत्यतः ज्ञायते यत् तेन बहवः ग्रन्थाः पठिताः स्युः, सः महान् पण्डितः स्यादिति । नामदेवः स्वस्य कीर्तनानि गायन् भारते बहुत्र अभ्रमत् । महाराष्ट्रजनानाम् अध्यात्मिकैकतायाः साधने अयं महत्त्वपूर्णं पात्रम् अवहत् । सः पञ्जाबमण्डलस्य गुरुदासपुरे घुमन्-ग्रामे अयं २० वर्षाणि यावत् अवसत् इति श्रूयते । पञ्जाबस्य सिक्खबान्धवाः एतं स्वीयं भावयन्तः नामदेवबाबा इति प्रीत्या आह्वयन्ति स्म । बहोर्दासः, लद्धः, विष्णुस्वामी, केशवकलाधारी च तत्रत्याः शिष्याः । अयं हिन्दीभाषया १२५ अभङ्गनामकानि कीर्तनानि अरचयत् । एतेषु ६१ कीर्तनानि सिक्खानां पवित्रग्रन्थे गुरुग्रन्थसाहिबग्रन्थे 'नामदेवस्य मुखबानि' इति नाम्ना योजितानि सन्ति । राजस्थाने सिक्खजनैः नामदेवस्य मन्दिराणि निर्मितानि सन्ति ।

आत्मकथा[सम्पादयतु]

'नामदेववाची'नामके ग्रन्थे नामदेवस्य २५०० कीर्तनानि सङ्गृहीतानि सन्ति । अस्मिन् 'तीर्थावली' नामकं पद्यं सन्तध्यानेश्वरेण सह स्वस्य प्रवासानुभवं कथयति । मराठीसाहित्ये इदमेव प्रथमम् आत्मचरितम् अस्ति । 'आदि' 'समाधि' 'तीर्थावली' इत्येतेषां द्वारा सः ध्यानेश्वरस्य जीवनगाथां कथयति । अतः सः मराठीसाहित्यस्य प्रथमः जीवनचरितलेखकः इत्यपि वक्तुं शक्नुमः । ध्यानेश्वरस्य मरणस्य अनन्तरं ५० वर्षाणि यावत् नामदेवः भगवद्धर्मस्य प्रचारम् अकरोत् । सन्तः तुकारामः अपि अस्मात् नितरां प्रभावितः जातः इति श्रूयते । नामदेवः अशीतितमे वयसि १३५० तमे वर्षे पण्डरापुरे भगवतः पादारविन्दौ मरणं प्राप्तवान् । सः तस्य मन्दिरस्य सोपानशिला भवितुम् इष्टवान् यस्मात् असङ्ख्यानां सत्पुरुषाणां पादस्पर्षेण अनुगृहीतः स्याम् इति ।

भक्तेः परीक्षा[सम्पादयतु]

नामदेवस्य भूतदयां परीक्षितुकामः पाण्डुरङ्गः कदाचित् शुनकरूपं धृत्वा पुण्डरीकपुरे आहाराय सर्वेषु गृहेषु विचचार । परन्तु न कोऽपि तस्नै आहारं दत्तवान् , प्रत्युत सर्वे तं ताडितवन्तः । बुभुक्षया पीडितं शुनकं दृष्ट्वा नामदेवः दयापूर्णमानसः अभवत् । झटिति एव गृहं प्रविश्य एकम् अपूपम् आनीतवान् । अपूपं शुनकाय दर्शयन् आगच्छतु आगच्छ्तु इति प्रेम्णा आहूतवान् । शुनकः समीपमागत्य तम् अपूपं गृहीत्वा पलायितः । परन्तु अपूपं न भक्षितवान् ।

तदा नामदेवः एवं चिन्तितवान् -शुनकः अपि पाण्डुरङ्गस्वरूप: एव । अस्मै रुचिकरम् अपूपं न द्त्तवान् अहम् । अत्र यदि घृतं योजितं स्यात् तर्हि रुचिकरं स्यात् इति मत्वा घृतपात्रं दर्शितवान् । शुनकः समीपम् अगच्छत तस्य मुखात् अपूपम् अपसार्य खण्डशः कृत्वा घृतम् आपूर्य दत्तवान् । शुनकः महता आनन्देन तम् अपूपम् अभक्षयत् । तदा नामदेवः आनन्दम् अनुभवन् पाण्डुरङ्गम् अस्मरत्। एतत् सर्वं दृष्ट्वा ग्रामीणाः सर्वे असौ उन्मत्तः इति उपहासं कृतवन्तः । कुक्कुरः नामदेवं प्रदाक्षिणीकृत्य अन्तर्दधौ । परन्तु नामदेवः भगवतः पाण्डुरङ्गस्य दर्शनमासीत्, सः मां त्यक्त्वा कुत्र गतः इति आक्रोशन् इतस्ततः अधावत् । जनाः कुक्कुरस्य अद्श्यतां दृष्ट्वा सः कुक्कुरः न, अपि तु पाण्डुरङ्गः एव। नामदेवः निश्चयेन पाण्डुरङ्गभक्तः । अस्माभिः तस्य विषये महान् अपराधः कृतः इति च मत्वा तस्य पादयोः अपतन् । एवं कृपालुः भगवान् भक्तान् रूपान्तरेणापि अनुगृह्णाति ।

बाह्यनुबन्धाः[सम्पादयतु]

संत नामदेव महाराज

"http://sa.wikipedia.org/w/index.php?title=नामदेव&oldid=281967" इत्यस्माद् पुनः प्राप्तिः