साबरमती आश्रमः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
साबरमती आश्रमः
સાબરમતી આશ્રમ
Sabarmati Ashram
—  अत्र आश्रमस्य समग्रं दर्शनं भवति ।  —
स्थितिः अहमदाबाद्, गुजरातराज्यम्
स्थापनातिथिः १७-०६-१९१७
स्थापकः मोहनदासकरमचन्दगान्धिः
जालस्थानम् http://www.gandhiashram.org.in

साबरमती आश्रमः (गुजराती: સાબરમતી આશ્રમ, आङ्ग्ल: Sabarmati Ashram) गुजरातराज्यस्य अहमदाबाद्नगरे साबरमतीनद्याः तीरे अस्ति । सत्याहिंसाब्रह्मचर्यादिगुणानां प्रतीकः एषः आश्रमः । महात्मागान्धीमहोदयः एतस्य आश्रमस्य स्थापनां कृतवान् । इतिहासविदां मतमस्ति यत् दधीचिर्षेः आश्रमोऽपि अत्रैव आसीदिति । एषः आश्रमः स्वतन्त्रसेनानीनाम् आन्दोलनस्य मुख्यस्थलमासीत् । एषः आश्रमः साबरमतीमुख्यकारागार-श्मशानयोः मध्येऽस्ति । महात्मनः भावः आसीत् यत् सत्याग्रहिणां गमनाय एते द्वे स्थले एव भवतः । एषः आश्रमः १९१७ तमात् वर्षात् १९३० पर्यन्तं महात्मनः आवासस्थलम् आसीत् । महात्मा १९३० तमे वर्षे आश्रमं त्यक्तवान्, प्रतिज्ञाञ्च कृतवान् यत् "यावत् पर्यन्तं भारतं स्वतन्त्रं न भविष्यति, तावत् पर्यन्तम् एतदाश्रमं पुनः न आगमिष्यामि" इति । एषः आश्रमः राष्ट्रियस्मारकेषु अन्यतमोऽस्ति ।

इतिहासः[सम्पादयतु]

यदा महात्मागान्धिमहोदयः दक्षिण-आफ्रिकादेशात् भारतं प्रत्यागतवान्, तदा तेन अहमदाबाद्नगरे कोचरबग्रामपार्श्वे प्राथम्येन एकः आश्रमः स्थापितः । १९१५ तमे वर्षे 'मे'-मासस्य २५ दिनाङ्के एतस्य आश्रमस्य स्थापना जाता आसीत् । वर्षद्वयानन्तरं महात्मा आश्रमस्य स्थलान्तरं कृतवान् । १९१७ तमे वर्षे 'जून्'-मासस्य १७ दिनाङ्के साबरमती आश्रमस्य स्थापनां कृतवान् आसीत् । एतस्याश्रमस्य नाम सत्याग्रह-आश्रमः इत्येव । परन्तु अनन्तरं महात्मागान्धीमहोदयस्य आवासस्थलत्वात् गान्धि-आश्रमः इति नामान्तरं जातम् । साबरमतीनद्याः तीरेऽस्ति इत्यतः साबरमती आश्रमः इति द्वितीयनाम्नाऽपि प्रसिद्धः अस्ति ।

आश्रमे दर्शनीयस्थलानि[सम्पादयतु]

हृदयकुञ्जः

हृदयकुञ्जः[सम्पादयतु]

यावत् समयपर्यन्तं महात्मा एतस्मिन्नाश्रमे निवासं कृतवान्, तावत्पर्यन्तं "हृदयकुञ्जः" नाम्नि कुटिरे एव न्यवसत् । एतस्य कुटीरस्य "हृदयकुञ्जः" इति नाम काका साहेब कालेलकरमहानुभावेन दत्तम् आसीत् । यथा अस्माकं हृदयं शरीराय नूतनाम् उर्जां ददाति, तथैवैतत् कुटीरम् आश्रमाय नूतनाम् ऊर्जां ददाति इति भावः । एतस्मिन् कुटीरे एव महात्मनः उत्पीठिका, 'खादी'वस्त्रेण निर्मितं युतकम्, महात्मना लिखितपत्राणि, इत्यादिवस्तूनि सन्ति ।

विनोबा भावे- मीरा कुटीरम्

विनोबा-मीरा कुटीरम्[सम्पादयतु]

महात्मा विनोबा भावेमहानुभावं स्वस्य आध्यात्मिकोत्तराधिकारीरूपेण मेने । विनोबा भावेमहानुभावेन अत्र १९१८ तः १९२१ मध्ये केचन मासाः व्यतीताः । पश्चात् १९५१ तमे वर्षे विनोबा "भूदानम्" इत्यान्दोलनस्य नेतृत्वम् अपि कृतवान् आसीत् ।

मीरा (मेडलीन स्लेड Madeleine Slade (Miraben)) गान्धिविचारस्य अनुसरणं कर्तुम् इङ्ग्लेण्डदेशात् अत्र आगतवती आसीत् । सा आश्रमस्य कार्येषु स्वयोगदानं ददाति स्म । सापि १९२५ तः १९५३ पर्यन्तम् अत्रैव स्थितवती ।

एतयोः नामभ्याम् एतस्य कुटीरस्य विनोबा-मीरा कुटीरम् इति नाम प्रसिद्धमस्ति ।

नन्दिनी अतिथिगृहम्
प्रार्थनाभूमिः

नन्दिनी अतिथिगृहम्[सम्पादयतु]

एतत् स्थलं आश्रमस्य मुख्यद्वारात् किञ्चित् दूरेऽस्ति । अत्र देशस्य बहवः महानुभावाः निवसितवन्तः यथा -जवाहरलाल नेह्रू, राजेन्द्रप्रसादः, रवीन्द्रनाथ ठाकुरादयः । ते यदा अहमदाबाद्-महानगरं आगच्छन्ति स्म, तदा अत्रैव निवसन्ति स्म ।

प्रार्थनाभूमिः[सम्पादयतु]

आश्रमस्थसदस्याः प्रतिदिनं प्रातःकाले-सायङ्काले च अत्र स्थित्वा प्रार्थनां चक्रुः । गान्धिकालात् अद्यापि आश्रमे इयं परम्परा चलन्ती अस्ति । महात्मना एतस्मिन् स्थले स्थित्वैव बहवः ऐतिहासिकनिर्णयाः कृताः ।

उद्योगमन्दिरम्[सम्पादयतु]

अस्य उद्योगमन्दिरस्य स्थापना १९१८ तमे वर्षे अभूत् । महात्मना हस्तनिर्मितखादीवस्त्रमाध्यमेन स्वतन्त्रतायाः यः स्वप्नः दृष्टः आसीत्, तस्य स्वप्नस्य आचरणम् इतः प्रारब्धम् आसीत् । अत्र स्थित्वा महात्मना स्वस्य सिद्धान्तानां सफलतया आचरणं कृतम् । प्रप्रथमम् इत एव तन्तुकरणयन्त्रेण ('चरखा'द्वारा) खादीवस्त्रस्य निर्माणं प्रारब्धम् आसीत्, पश्चाद् देशस्य कोणे-कोणे एतस्य प्रचारः अभूत् ।

तदा 'कस्तुरबा'द्वारा निर्मितं भोजनमपि प्रख्यातम् आसीत् । अत्र तस्याः चुल्लिका, भाण्डानि, कपाटादयः अपि स्मृतिरूपेण सन्ति ।

उद्योगमन्दिरम्
मगननिवासः

मगननिवासः[सम्पादयतु]

महात्मनः भ्रातृजः मगनः अत्र निवसति स्म । यदा सः 'फिनिक्स्'-आश्रमे निवसति स्म, तदारभ्यैव सः गान्धिविचारणां दृढः अनुयायी आसीत् । महात्मा तम् "आश्रमस्य आत्मतत्त्वम्" इति कथयति स्म । एषः तन्तुकरणयन्त्रस्य नूतनतया निर्माणं कृतवान् । तथा 'खादी'वस्त्रस्य प्रचारक्रान्तिः अस्य सहयोगेनैव सफला जाता आसीत् ।





साम्प्रतमत्र आगत्य साबरमती 'रिवर्-फ्रण्ट्' इत्यस्य हृदयाह्लादकं दृश्यमपि द्रष्टुं शक्यते ।

साबरमती 'रिवर्-फ्रण्ट्'

सम्बद्धाः लेखाः[सम्पादयतु]

कर्णावती-महानगरम्

गुजरातविद्यापीठम्

साबरमतीनदी

महात्मा गान्धी

मीराबेन

कस्तूरबा

महादेवभाई देसाई

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

साबरमती आश्रमः अहमदाबाद्

http://www.mkgandhi.org/museum/Sabarmati.htm

http://www.tripadvisor.in/Attraction_Review-g297608-d325368-Reviews-Sabarmati_Ashram_Mahatma_Gandhi_s_Home-Ahmedabad_Gujarat.html

"http://sa.wikipedia.org/w/index.php?title=साबरमती_आश्रमः&oldid=278038" इत्यस्माद् पुनः प्राप्तिः