सारङ्गरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सारङ्गरागः (Saranga Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । मेघरागस्य पत्नी इति प्रसिद्धिरस्य । अस्य रागस्य "काफि थाट्" भवति । अयं रागः "ओढव" विभागस्य (जातेः) भवति । अस्यैव रागस्य नाम ग्रन्थकाराः “मध्यमादिसारङ्गः” इति कथयन्ति । अस्य रागस्य प्रशस्तकालः मध्याह्नं भवति । वादिस्वरः ॠषभः (रे) । एवं संवादिस्वरस्य पञ्चमः (प) भवति । अस्मिन् रागे रे, ध वर्ज्यस्वरौ भवतः । शृङ्गाररसः,भक्तिरसप्रधानश्च अयं रागः भवति । अस्य रागस्य “प रे नि स” स्वरसङ्गतयः रसोत्पादकाः भवन्ति ।

वीणां दधाना दृढबद्धवेणी
संख्यासमं मञ्जुलवृक्षमूले।
जांबूनदाभा च निषन्नदेहा
सारङ्गिका च कथिता मुनीन्द्रैः॥
  • आरोहः – स रे म प नि स
  • अवरोहः – स नि प म रे स
  • पक्कड – प रे, नि स रे प म

सम्बद्धरागाः[सम्पादयतु]

  • शुद्धसारङ्ग
  • मीया की सारङ्ग
  • सामन्त
  • लङ्कादहनी
  • नूर् सारङ्ग

समयः[सम्पादयतु]

अपराह्ने १२ तः ३वादनपर्यन्तं प्रशस्तकालः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सारङ्गरागः&oldid=389131" इत्यस्माद् प्रतिप्राप्तम्