सावित्री (कुरुक्षेत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सावित्री (कुरुक्षेत्रम्)- एतत् शक्तिपीठं भारतस्य हरियाणाराज्यस्य कुरुक्षेत्रसमीपे तानेसर् इत्यत्र (पूर्वतन-स्थानेश्वरम् ) अस्ति ।

सम्पर्कः[सम्पादयतु]

कुरुक्षेत्रं प्रति देशस्य नानाभागेभ्यः सम्पर्कः अस्ति ।देहलीनगरात् नातिदूरे अस्ति । समीपस्थं विमानस्थानकं देहली तथा अम्बाला । समीपरेलस्थानकं कुरुक्षेत्रम्।

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः पादस्य मीनखण्डः पतितः इति विश्वासः । अत्रत्या देवी सावित्रीनाम्ना अत्रत्यशिवः स्थाणुनाम्ना पूज्यते । अत्र पूजादिकैङ्कर्याणि निरन्तरं प्रचलन्ति । महाभारतकाले प्रवृत्तस्य युध्दस्य स्थानम् एतत् । भीष्‍मः अत्र एव शरशय्याम् आश्रितवान् आसीत् । वैशम्पायनसरोवरम् अत्रत्यं प्रेक्षणीयम् स्थानम् अस्ति।