सिक्किमराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(सिक्किम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सिक्किमराज्यम्
—  "राज्यम्"  —

ध्वजः

मुद्रिका
भारतस्य मानचित्रे सिक्किमराज्यम्
Coordinates (गङ्गटोक): 27°20′N 88°37′E / 27.33°N 88.62°E / 27.33; 88.62Coordinates: 27°20′N 88°37′E / 27.33°N 88.62°E / 27.33; 88.62
Country  India
Established १६ मेई १९७५
राजधानी गङ्गटोक
Largest city गङ्गटोक
Districts 4
सर्वकारः
 • राज्यपाल: वाल्मीकिप्रसाद सिंह
 • Chief Minister पवन चामलिङ्ग (Chamling) (Sikkim Democratic Front)
 • Legislature of Sikkim Unicameral (32 seats)
जनसङ्ख्या (२०११)
 • संहतिः
 • रैङ्क् 28th
भारतीयमानसमयः(IST) (UTC+५:३०)
ऐ एस् ओ ३१६६ कोड् IN-SK
मानव-विकास-निर्देशाङ्क: increase ०.६८४ (मध्यम)
मानव-विकास-निर्देशाङ्के स्थानम् ७ (२००५)
साक्षरता ७६.६%
अधिकृताः भाषाः नेपालीभाषा (lingua franca), भूतिया, लेप्चा (since 1977),
जालस्थानम् http://www.sikkim.gov.in/


लेप्चा जनाः
सम्दृप्त्से
सिक्किमराज्ये हिमालयावलिः
सिक्किमराज्ये चारधाम

सिक्किमराज्यम् (Sikkim) भारतदेशस्य ईशान्यदिशि विद्यमानं लघुराज्यम् । अस्य राज्यस्य केन्द्रं गङ्गटोक इत्येतन्नगरम् । एषः पर्वतीयप्रदेशः वर्तते । १९७५ तमे वर्षे जनमतं सङ्गृह्य भारतदेशे समाविष्टः जातः अयं प्रदेशः । अङ्गुष्ठाकारराज्यम् इति प्रसिद्धं राज्यमिदम् । काञ्चनजङ्गा (८५८५ मी.) नामकं जगति तृतीयम् उच्चतरं शिखरम् अस्मिन्नेव राज्ये राराजते । राज्यमिदं भारतदेशे पर्यटनस्य प्रमुखकेन्द्रमपि मन्यते ।

भौगोलिकम्[सम्पादयतु]

सिक्किमराज्यस्य विस्तारः ७,०९६ चतुरस्रकिलोमीटर्मितः अस्ति । क्षेत्रफलदृष्ट्या अस्य स्थानं भारतदेशस्य राज्येषु निम्नतमाद् द्वितीयम् अस्ति । अस्य राज्यस्य पश्चिमदिशि नेपालदेशः, उत्तरदिशि चीनदेशः, पूर्वदिशि तिबेट्, आग्नेयदिशि भूतानदेशः, दक्षिणदिशि पश्चिमबङ्गलराज्यम् अस्ति । अत्र सिङ्गलिला-चोलापर्वतावली स्तः । तिस्ता, रङ्गीत, रङ्गपो च अस्य राज्यस्य प्रमुखनद्यः विद्यन्ते । अत्रस्थं वनस्पति-प्राणिवैविध्यं महत्त्वपूर्णम् ।

जनसङ्ख्या[सम्पादयतु]

अस्य राज्यस्य जनसङ्ख्या न्यूनतमा अस्ति । सिक्किमराज्यस्य जनसङ्ख्या(२०११) ६,१०,५७७ अस्ति । अस्मिन् ३,२३,०७० पुरुषाः, २,८७,५०७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ८६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९० अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ७४.८५% जनाः ग्रामेषु निवसन्ति ।

कृषिः उद्यमाश्च[सम्पादयतु]

कृषिः, उद्यमः, उद्यानपालनं, पर्यटनव्यवसायः इत्येते व्यवसायाः अत्रस्थजनानाम् उपजीविकां कल्पयन्ति । पर्यटनव्यवसायः अस्य राज्य-अर्थव्यवस्थायाः कशेरुका मन्यते । एला(cardamom)उत्पादने मण्डलमिदम् अग्रगण्यम् । तथा चायं, काफीबीजं च प्रमुखसस्योत्पादनानि । अस्मिन्मण्डले खनिजसम्पत्तिः अधिका वर्तते परं सम्पत्तेः शुद्धीकरणोद्यमानां सङ्ख्या तावती नास्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

लेप्चा, नाओङ्ग, चङ्ग, मोन इत्यादयः अत्रस्थपुरातन्यः जनजातयः सन्ति । एतेषां जनजातीनाम् सामोपचारेण एकत्र निवासार्थं तुर्-वे-पा-नो अर्थात् पुनू अयं यतितवान् । १७ शतके तिबेटन् स्थलान्तरम् अभवत् । तदा भूतिया इति तत्रस्थाः जनजातिजनाः बहुसङ्ख्यया सिक्किम राज्यं प्रविष्टवन्तः । सिक्किमनिवासिजनाः प्रमुखतया निसर्गपूजकाः आसन् । यदा भूतियाजनानाम् आगमनम् अभवत् तदा तैः मूलसिक्किमजनानां बौद्धमतान्तरणाय यतितम् । दक्षिणसिक्किमप्रदेशे तदा 'सक्य' राज्ञः आधिपत्यमासीत् । अनन्तरं १६४२ तमवर्षतः ३३२ वर्षाणि यावत् नामग्यालवंशस्य प्रशासकानाम् आधिपत्यमासीत् । १८ शतके नेपालीजनानां विस्तारवादीभूमिका वर्धमाना आसीत् । नेपालजनाः चीनदेशस्योपरि आक्रमणं कर्तुं यतितवन्तः । परं चीनजनैः नेपालजनानां पराजयः कृतः । नेपालजनाः सिक्किम-राज्य-आक्रमणाय अपि यतितवन्तः । परं तदा भारतदेशे आङ्ग्लानाम् आधिपत्यम् आसीत् । आङ्ग्लप्रशासकैः स्वार्थरक्षणाय सिक्किम जनेभ्यः साहाय्यं दत्तम् । १८१४ तमे वर्षे आङ्ग्ल-नेपालयुद्धम् अभवत् । नेपालदेशः पराजितः । १८१७ तमे वर्षे आङ्ग्लैः सिक्किम प्रशासकैः सह 'Treaty Of Titalia'-सन्धिः कृता । आङ्ग्लानां डार्जीलिङ्ग स्थलविषये रुचिः आसीत्, कारणं दार्जिलिङ्ग स्थलतः तिबेट, नेपाल, सिक्किम इत्येतेषु प्रदेशेषु व्यापारः, प्रशासनं च समीचिनं भवेत् । अतः आङ्ग्लानां तथैव व्यवहारः आसीत् । अन्ततः १८३५ तमे वर्षे नामग्यालप्रशासकेन दार्जिलिङ्ग स्थलम् आङ्ग्लप्रशासकेभ्यः निश्चितं धनं स्वीकृत्य दत्तम् । एषः व्यवहारः चोग्याल-नामग्याल इत्यनेन प्रशासकेन कृतः । १९४७ तमवर्षपर्यन्तम् अयमेव क्रमः आसीत् । १९४७ तमे वर्षे भारत-संयुक्त-राष्ट्रनिर्माणसमये सिक्किमराज्यस्य स्वतन्त्रम् अस्तित्वं संस्थाप्य भारतदेशः रक्षणकर्ता (Protectorate) भविष्यति एवं योजनां कृत्वा स्वस्थानं संरक्ष्य अयं प्रदेशः भारतदेशे समाविष्टः जातः । तदा ताशी-नामग्याल इति शासकस्य आधिपत्यमासीत् । अनन्तरं प्रशासकयोः मध्ये सङ्घर्षः जातः । १९७० तमे वर्षे एषः सङ्घर्षः उच्चतमः आसीत् अन्ते १९७३ तमे वर्षे नामग्यालशासकानां प्रशासनं समाप्तिं गतम् । १६ मे १९७५ दिनाङ्के सिक्किम भारत देशस्य २२ तमराज्यत्वेन समाविष्टं जातम् ।

मण्डलानि[सम्पादयतु]

लोकजीवनम्[सम्पादयतु]

अत्र बहूनां जनजातीनां वैविध्यपूर्णम् एकत्र वास्तव्यं भवति । लेप्चा, भूतिया, नेपाली जनजातयः तेषु प्रमुखाः । अत्रस्थजनाः उत्सवप्रियाः सन्ति । उत्सवदिनेषु सिक्किमराज्यस्य छद्ममुखधारकाणां नृत्यप्रकारः प्रसिद्धः । उत्सवदिनेषु बाजरी इत्यस्य 'चङ्ग' इति विशिष्टसंस्कृतपदार्थः जनैः वेणुस्थाल्यां भुज्यते । 'फाङ्ग ल्हाब्सोल' इति विशिष्टोत्सवः । एतम् उत्सवं काञ्चनजङ्गा इति अत्रस्थदेवतायै धन्यवादवितरणार्थं जनाः विशिष्टतया आचरन्ति । सिक्किमनूतनवर्षस्य २८,२९ तमे च दिने 'कग्यत' इति नृत्यं विशिष्टत्वेन नृत्यन्ति । 'दसेन'(दसरा) इति बृहत्तमः उत्सवः अत्रस्थाः नेपाळी, हिन्दुजनाः च ओक्टोबर् मासे आचरन्ति । अत्रस्थानि वेणुकाष्ठैः तक्षितानि वस्तूनि, पटाः, चित्राणि च विशिष्टाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • White Hall
  • दो-द्रुल स्तूपः
  • सोलोफोक चारधाम
  • युमथाङग व्हेली-कन्दरं
  • पेलिङ्ग
  • उष्णजलकुण्डानि
  • गुरोः पद्मसम्भवस्य बौद्धविहारः
  • रूमटेक मठः
  • ताशी लिङ्ग
  • ऑर्किड् अभयारण्यम्
  • सोमगो निर्झरः
  • दो द्रूल चोर्टेन
  • इञ्चे मठः
  • ताशीदिङ्ग मठः
  • सङ्गा-चोलिङ्ग मठः
  • पेमायङ्गत्से मठः
  • पेमायनस्ती मठः
  • बाबा हरभजन सिंह 'मेमोरियल'


बाह्यानुबन्धाः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=सिक्किमराज्यम्&oldid=271611" इत्यस्माद् पुनः प्राप्तिः